Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
८५
अन्त्यं चाश्चर्यमेतज्जिन मतहतये तत्समा दुःषमा चे -
त्येवं पुष्टेषु दुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥ ३० ॥ सम्यग्मार्गपुषः प्रशान्तवपुषः प्रीतोल्लसच्चक्षुषः
सङ्घपट्टकः ]
श्रामण्यर्द्धिमुपेयुषः स्मयमुषः कन्दर्पकक्षप्लुषः ।
सिद्धान्ताध्वनि तस्थुषः शमजुषः सत्पूज्यतां जग्मुषः
सत्साधून् विदुषः खलाः कृतदुषः क्षाम्यन्ति नोद्यद्रुषः ॥ ३१ ॥ देवीयत्युरुदोषिणः क्षतमहादोषानदेवीयति
सर्वज्ञयति मूर्खमुख्यनिवहं तत्त्वज्ञमज्ञीयति । उन्मार्गीयति जैनमार्गमपथं सम्यक्पथीयत्यहो !
मिथ्यात्वग्रहिलो जनः स्वमगुणाग्रण्यं कृतार्थीयति ॥ ३२ ॥ सङ्घत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत
स्तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदान - शील- तपसोऽप्येतत्क्रमस्थायिनः
सङ्घव्याघ्रवशस्य जन्तुहरिणत्रातस्य मोक्षः कुतः १ ।। ३३ । इत्थं मिध्यापथकथनया तथ्ययाऽपीह कश्चित्
मेद ज्ञासीदनुचितमथो मा कुपत् कोऽपि यस्मात् । जैनभ्रान्त्या कुपथपतितान् प्रेक्ष्य नृस्तत्प्रमोहा
पोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥ ३४ ॥ प्रोद्भूतेऽनन्तकालात् कलिमलनिलये नाम नेपथ्यतोऽर्हन्
मार्गभ्रान्ति दधानेऽथ च तदभिमरे तत्त्वतोऽस्मिन् दुरध्वे । कारुण्याद् यः कुबोधं नृषु निरसिसिषुर्दोषसङ्ख्यां विवक्षे
दम्भोऽम्भोधेः प्रमित्सेत् स सकलगगनोल्लङ्घनं वा विधित्सेत् ॥ ३५ ॥ न सावद्याम्नाया न बकुश - कुलीशोचितयतिक्रियामुक्ता युक्ता न मद - ममता - जीवन - भयैः । न संक्लेशावेशा न कदभिनिवेशा न कपट
प्रिया ये तेऽद्यापि स्युरिह यतयः सूत्ररतयः ॥ ३६ ॥ संविग्नाः सोपदेशाः श्रुतनिकषविदः क्षेत्र - कालाद्यपेक्षानुष्ठानाः शुद्धमार्गप्रकटनपटवः प्रास्तमिध्याप्रवादा: ।
वन्द्याः सत्साधवोऽस्मिन् नियम-शम- दमौचित्य - गाम्भीर्य - धैर्यस्थैर्यौदार्यार्यचर्या - विनय- - नय - दया- दाक्ष्य - दाक्षिण्यपुण्याः ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248