Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 215
________________ ८४ [जिनवल्लभसूरिविरचितः सर्वारम्भ-परिग्रहस्य गृहिणोऽप्येकाशनायेकदा प्रत्याख्याय न रक्षतो हृदि भवेत् तीव्रानुतापः सदा । षट्कृत्वत्रिविधं त्रिधेत्यनुदिनं प्रोच्यापि भञ्जन्ति ये तेषां तु क्व तपः क्व सत्यवचनं क्व ज्ञानिता क्व व्रतम् ! ॥ २३ ॥ देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे नित्यस्थाः शुचिपट्टतूलिशयनाः सद्गब्दिकाद्यासनाः । सारम्भाः सपरिग्रहाः सविषयाः सेाः सकाङ्क्षाः सदा साधुव्याजविटा अहो ! सितपटाः कष्टं चरन्ति व्रतम् ॥ २४ ॥ इत्याशुद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति श्रुत्वाऽन्येऽभिमुखा अपि श्रुतपथाद् वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलं येषां ते ननु सर्वथा जिनपथप्रत्यर्थिनोऽमी ततः ॥ २५ ॥ सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः सर्वव्यालकुलैः समस्तविधुराधि-व्याधि-दुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषां दौरात्म्येन निजघ्नुषां जिनपथं वाचैष सेत्यूचुषाम् ॥ २६ ॥ दुर्भेदस्फुरदुग्रकुग्रहतमःस्तोमास्तधीचक्षुषां । सिद्धान्तद्विषतां निरन्तरमहामोहादहम्मानिनाम् । नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ? ॥ २७ ॥ यत् किञ्चिद् वितथं यदप्यनुचितं यल्लोक-लोकोत्तरो तीर्ण यद् भवहेतुरेव भविनां यच्छास्त्रबाधाकरम् । तत् तद् धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मत भ्रान्त्या लान्ति च हा ! दुरन्तदशमाश्वर्यस्य विस्फूर्जितम् ॥ २८ ॥ कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः कान्तारे प्रदिशत्यभीप्सितपुरध्वानं किलोत्कन्धरः । एतत् कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विद स्तद्वाक्याननुवर्तिनो हसति यत् सावज्ञमज्ञानिव ।। २९ ।। सैषा हुण्डावसर्पिण्यनुसमयहसद्भव्यभावानुभावा . त्रिंशश्चोप्रग्रहोऽयं खखनखमितिवर्षस्थिति स्मराशिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248