Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
सङ्घ-पट्टकः ] क्षुरक्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित्
कृत्वा कञ्चन पक्षमक्षतकलिः प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृहीयति निजे गच्छे कुटुम्बीयति
। स्वं शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ! ॥ १५ ॥ यैर्जातो न च वर्धितो न च न च क्रीतोऽधमो न च
प्राग् दृष्टो न च बान्धवो न च न च प्रेयान् न च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैबला वाह्यते
नस्योतः पशुवज्जनोऽयमनिशं नीराजकं हा ! जगत् ।। १६ ॥ किं दिङ्मोहमिताः किमन्ध-बधिराः किं योगचूर्णीकृताः ?
किं दैवोपहताः किमङ्ग ! ठगिताः किं वा ग्रहावेशिताः ? । कृत्वा मूर्ध्नि पदं श्रुतस्य यदमी दृष्टोरुदोषा अपि
व्यावृत्तिं कुपथाज्जडा न दधतेऽसूयन्ति चैतत्कृते ।। १७ ॥ इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलं
निधुवनविधिनिबद्धदोहदनरनारीनिकरसङ्कलम् । राग-द्वेष-मत्सरेणूंघनमघपङ्केऽथ निमज्जनं ।
जनयत्येव च मूढजनविहितमविधिना जैनमज्जनम् ।। १८॥ जिनमतविमुखविहितमहिताय न मज्जनमेव केवलं
किन्तु तपश्चरित्र-दानाद्यपि जनयति न खलु शिवफलम् । अविधि-विधिक्रमाज्जिनाज्ञाऽपि ह्यशुभ-शुभाय जायते
किं पुनरिति विडम्बनैवाहितहेतुर्न प्रतायते ॥ १९ ॥ जिनगृह-जिनबिम्ब-जिनपूजन-जिनयात्राऽऽदि विधिकृतं
दान-तपो-व्रतादि-गुरुभक्ति-श्रुतपठनादि चाहतम् । स्यादिह कुमत-कुगुरु-कुग्राह-कुबोध-कुदेशनांशतः ।
स्फुटमनभिमतकारि वरभोजनमिव विषलवनिवेशतः ॥ २० ॥ आक्रष्टुं मुग्ध-मीनान् बडिशपिशितवद् बिम्बमादय जैनं
तन्नाम्ना रम्यरूपानपवरक-मठान् स्वेष्टसिद्धथै विधाप्य । यात्रा-स्नात्राद्युपायैनमसितक-निशाजागराद्यैश्छलैश्च ।
श्रद्धालु मजैनैश्छलित इव शठैर्वच्यते हा ! जनोऽयम् ॥२१॥ सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रिया .
' वल्गद्गौरवचण्डदण्ड-तुरगाः पुष्यत्कषायोरगाः । सर्वाकृत्यकृतोऽपि कष्टमधुनाऽन्त्याश्चर्यराजाश्रिताः
स्थित्वा सन्मुनिमूर्धसूद्धतधियस्तुष्यन्ति पुष्यन्ति च ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248