Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
परिशिष्टम् । श्रीजिनवल्लभसूरिविरचितः सङ्घपट्टकः ।
वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक
स्याग्रे सन्दर्श्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः । यः कारुण्यामृताब्धिर्विधुरमपि किल स्वस्य सद्यः प्रपद्य
प्राज्ञैः कार्य कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् ॥ १ ॥ कल्याणाभिनिवेशवानिति गुणग्राहीति मिध्यापथ
प्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च । दाक्षिण्यीति दमीति नीतिभृदिति स्थैर्यति धैर्याति सद्धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया ॥ २ ॥ इह किल कलिकालव्यालवक्त्रान्तरालस्थितजुषि गततत्त्वप्रीतिनीतिप्रचारे ।
प्रसरदनवबोधप्रस्फुरत्कापथौघ
स्थगितसुगतिसर्गे सम्प्रति प्राणिवर्गे ॥ ३ ॥ प्रोत्सर्पद्मस्मराशिग्रहसखदशमाश्चर्य साम्राज्यपुष्य
मिध्यात्वध्वान्तरुद्धे जगति विरलतां याति जैनेन्द्रमार्गे । संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नाय रक्तैर्जिनोक्ति
प्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोऽयमप्राथि पन्थाः || ४ || अ (य) त्रौद्देशिकभोजनं जिनगृहे वासो वसत्यक्षमा स्वीकारोऽर्थगृहस्थयचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावद्याचरितादरः श्रुतपथावज्ञा गुणिद्वेषधी
धर्मः कर्महरोऽत्र चेत् पथि भवेन्मरुस्तदाऽब्धौ तरेत् ॥ ५ ॥ षट्कायानुपमृद्य ( मद्ये ) निर्दयमृषीनाधाय यत् साधितं शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्त्रिंशताधायि यत् । गोमांसाद्युपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध
स्तत् को नाम जिघत्सतीह सघृणः सख्यादिभक्ति विदन् || ६ || गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्ग
प्रेङ्खत्पुष्पस्रगुद्यन्मृगमदलसदुल्लोच चञ्चज्जनौघे ।
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248