Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 210
________________ कालस्वरूपकुलकम् ] लोहिण जडिउ जु पोउ स फुटइ चुंबुकु जहि पहाणु किव वट्टइ ? । नेय समुद्दह पारु सु पावइ अंतरालि तमु आवय आवइ ॥ २९ ॥ [ लोहे(भे)न जडितो यः पोतः स स्फुटति चुम्बको यत्र पाषाणः कथं वर्तते ? । नैव समुद्रस्य पारं स प्राप्नोति अन्तराले तस्यापदागच्छति ॥ २९ ॥ ] व्या०-लोहेन जडितः पोतो यः स स्फुटति । यत्र पोते चुम्बको लोहाकपणकारी पाषाणो भवति, स पोतः कथं वर्त्तत्ते ? न कथञ्चिद् भजत इत्यर्थः । नैव समुद्रस्य पारं स पातः प्राप्नोति अन्तराले अन्तरे तस्य पोतस्य आपदागच्छति । द्वितीयपक्षे-लोभेन चतुर्थकषायेन जडितो ग्रस्तः पोतः संसारसमुद्रनिस्तारकारणतया गुरुयः स स्फुटति गुरुगुणैर्वियुक्तत्वात् लाघवं प्राप्नोति । यत्र च गुरो चुम्बकोऽनवस्थितः साधुः प्रधानं स गुरुः कथं वर्तते ? न कथञ्चित् । अपि तु स्तोकदिनैरेव विशृङ्खलीभवति नैव संसारसमुद्रपारं स गुरुः प्राप्नोति । अन्तरालेऽन्तरे तस्य गुरोरापदागच्छति ॥ २९ ॥ लोहिण रहिउ पोउ गुरुसायरु दीसइ तरंतु जइ वि जडवायरु । लाहउ करइ सु पारु वि पावइ वाणियाह धणरिद्धि वि दावइ ॥ ३० ॥ [ लोहे( भे न रहितः पोतो गुरुसादरः (गुरुः सागरे ) दृश्यते तरन् यद्यपि जडवादरः ( वातः)। लाभं करोति स पारमपि प्राप्नोति वणिजानां धनऋद्धिमपि दर्श' दाप )यति ॥ ३० ॥1 व्या०-लोभेन रहितो गुरुः पोतः प्रवहणसदृशः सागरं संसारसागरं तरन् दृश्यते । यद्यपि जडवादरः जडैमूखैरधर्मादरो व्याकुलः । लाभं ज्ञानादिलाभं करोति स गरुपोतः पारमपि प्राप्नोति प्रापथति च । वणिजां वाणिजानां वणिज एव वाणिजा धर्मधनलाभार्थिनः तेषां धर्मधनऋद्धिमपि दर्शयति । द्वितीयपक्षे पोतः प्रवहणं, गुरुर्महान् लोहेन रहितः, सागरं समुद्र तरन् वणिजां धनऋद्धिमपि दर्शयति परपारलाभजनिताम् ॥ ३०॥ जो जणु सुहगुरु-दिहिहि दिहउ तसु किर काइ कारइ जमु रुहउ ? । जसु परमेहि-मंतु मणि निवसइ सो दुहमज्झि कया वि न पइसइ ॥ ३१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248