Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
कालस्वरूपकुलकम् ]
७७ [ युष्माकमेष पन्थाश्चाहिलेन दर्शितो हृदये प्रभूतं खरं विमर्पा ( ० मर्शितः ) । अत्र कुर्यात यूयं सदाऽऽदरं
लीलया यथा तरथ भवसागरम् ॥ २५ ॥] व्या०-युष्माकं यशोदेवाभू-आसिग-सम्भवानां एष पन्थाश्वाहिलेन युष्मात्पत्रा दर्शितः । अथ च चाहिलिकोऽर्थो वीक्ष्य सन्मार्गपरीक्षणेन हृदये बहु प्रभूतं खरमत्यर्थ विमर्य अत्र सन्मार्गे कुर्यात यूयं सदा सर्वदा आदरं प्रयत्नं लीलया यथा तरथ भवसागरम् । किलाणहिलपाटकपत्तने चाहिलनामा श्रावको धर्मार्थी विचारचातुरीचञ्चुरभूत् । तस्य च चत्वारः पुत्रा बभूवुः । तद्यथा-यशोदेवः, अद् - भुत आभू इति प्रसिद्धः , आसिगः , सम्भवश्चेति । तेन च चाहिलेन धर्म-गुरुपरीक्षापरायणेन प्रभुश्रीजिनदत्तसूरयो धम्माचार्यतया प्रतिपन्नाः । ते च तत्पुत्राः पित्राज्ञारता अपि धर्मज्ञा अपि कालदोषात् युतभावं कर्तुमीषुः । स च चाहिलस्तथा गुणमनीक्षमाणः पुत्राणां शिक्षाप्रदिदापयिषया तथाविधस्वरूपगभी विज्ञ. प्तिकां प्रभुश्रीजिनदत्तसूरीणां प्रेषयामास । ततस्तैरपि करुणासुधासमुद्रैस्तेषामुपचिकीर्षया एवंविधधर्मदेशनागर्भः प्रतिलेखः प्रेषितः । ततस्ते एतदनुसारेण प्रवर्त्तमाना विविधमानृधुः, विधिधर्म चाराधयामासुरिति ॥ २५ ॥
जहिं घरि बंधु जुय जुय दीसई तं घरु पडइ वहंतु न दीसई । जं दढबंधु गेहु तं बलियउ जडि भिज्जंतर सेसउ गलिउ ॥ २६ ॥ [ यस्मिन् गहे बन्धवो युतयुता दृश्यन्ते तद् गृहं पतति वहन्न दृश्यते । यद् दृढबन्धं गेहं तद् बलिक
जडे(ले) भिद्यमाने शेषं गलितम् ॥ २६ ॥ ] व्या०-यस्मिन् गृहे बन्धवो युतयुताः पृथग्भूता दृश्यन्ते, तद् गृहं पतति । वहन्नव्यवच्छेदेन वर्तमानं न दृश्यते यद् दृढबन्धं सस्नेहबान्धवं गेहं तद् बलिक बलवत् । जडे तद्नेहसम्बन्धिनि मूर्खे भिद्यमाने मन्दस्नेहतया पृथग् भवति सति शेषं गृहं गृहवास्तव्यलोक गलितं भ्रष्टम् । द्वितीयोऽर्थः---यत्र गेहे बन्धाः संयमनानि त्रुटितानि दृश्यन्ते । तद् गेहं वहदवतिष्ठमानं न दृश्यते । यद् दृढबन्धं तद् बलिकं जडे पानीये भिद्यमाने गलति सशेषं गेहं गलितं भ्रष्टमेव ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248