SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ७२ [ जिनदत्तसूरिविरचितं यदि स तस्य रसं पातुमिच्छति तदा जगत् सर्वमपि शून्यं( सुवर्ण ) पश्यति ॥ १२ ॥] व्या०-यो धत्तरकपुल्लं(पं) समुज्वलं निर्मलं प्रेक्ष्य लग्नस्तत्र पुष्पे समुत् सहर्षों जडो मूर्खः । यदि स जडस्तस्य पुष्पस्य रसस्तं पातुमिच्छति ततो जगत् सवै सुवर्ण पश्यति । यदि कुगुरुधत्तूरकवचनरसं पिबति साभिलाषं शृणोति तत्त्वबुद्धया प्रतिपद्यत इति यावत् । तदा स सर्व जगत् शून्यं पश्यति नास्तिकदृष्टिरिव प्रतिपद्यत इत्यर्थः । कुगुरवो हि स्वयं नष्टाः परानपि नाशयतीति तात्पर्यार्थः ॥ १२ ॥ ___इदानीं सुगुरूपदेशविवेकिनां भव्यानां विशेषेण चेतसि निवेशिते तथा प्रतिपादयन्नाह-- इय मणुयत्तु सुदुल्लहु लद्धउ कुल-बल-जाइ-गुणेहिं समिद्धउ । दस दिहंत इत्थ किर दिना इहु निष्फलु ता नेहु म धन्ना ॥ १३ ॥ [ इति मनुजत्वं सुदुर्लभं लब्धं कुल-बल-जाति-गुणैः समृद्धम् । दश दृष्टान्ता अत्र किल दत्ता इति निष्फलं तस्मान्नैष्ट मा धन्याः ! ॥ १३ ॥1 व्या०-इति मनुजत्वं दुर्लभं लब्धं कुल-बल-जाति-गुणैः समृद्ध सम्पनम् । दश दृष्टान्ता अत्र मनुजत्वदुर्लभत्वे दत्ता इति हेतोनिष्फलं मोघं ता तस्मान्मा नैष्ट धन्याः ! ॥ १३ ॥ न च नरत्वमानं कार्यकारीत्याह लद्धिं नरत्ति अणारियदेसेहिं को गुणु तह विणु सुगुरुवएसिहि ? । आरियदेस जाइ-कुलजुत्तउ काइ करेइ नरत्तु वि पत्तउ ? ॥१४॥ [लब्धे नरत्वेऽनार्यदेशेषु को गुणस्तथा विना सुगुरूपदेशम् ( शैः ) । आर्यदेशे जाति-कुलयुक्तं किं करोति नरत्वमपि प्राप्तम् ? ॥ १४ ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy