Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 155
________________ [जिनदत्तसूरिविरचिता समक्षं प्ररूपयितुमपि शक्नोति ? आस्तां सम्यक् कर्तु कारयितुं चेत्याम्नायः । तस्य प्रभोः पदभक्तानां सत्त्वानाम् ' (१) इहपरलोयाणमकम्हा आजीवमरणमसिलोए' इति सप्तानां भवभयानां भवत्यन्तः क्षयः सुनिश्चितस्तद्वचनकरणोधतानामित्यर्थः।। ४१॥ इक्ककालु जसु विज्ज असेस वि वयणि ठिय मिच्छदिहि वि वंदहिं किंकरभावहिय । ठावि(णि) ठावि(णि) विहिपक्खु वि जिण अप्पडिखलिउ फुड पयडिउ निक्कवडिण परु अप्पउँ कलिउ ॥ ४२ ॥ [ एककालं यस्य विद्या अशेषा अपि वदने स्थिता मिथ्यादृष्टयोऽपि वन्दन्ते किङ्करभावस्थिताः । स्थाने स्थाने विधिपक्षोऽपि येनाप्रतिस्खलितः स्फुटं प्रकटितो निष्कपटेन परमात्मानं कलयित्वा ॥ ४२ ॥] एककालं युगपदेव यस्य विद्यास्तर्कादयोऽशेषा अपि वदने स्थिताः । मिथ्यादृष्टयोऽन्यदर्शनस्थिता अपि श्रीनरवर्ममहाराजपण्डिताः पञ्चविंशतितमोऽयं तीर्थकर इति प्रतिपादयन्तो वन्दन्ते किङ्करभावस्थिता बहुमानातिशयप्रवर्तितसादरवचनाः। स्थाने स्थाने सर्वत्र विधिपक्षोऽपि येनाप्रतिस्खलितो निराकर्तुरभावन स्फुटः प्रकटितो निष्कपटेन निश्छद्मना परोऽपि निराकरणीय आत्मा च निराकर्ता द्वयमपि कलयित्वा यथावस्थितत्वेन तच्छक्तिमाकलय्य स्वसामर्थ्येनेत्यर्थः ॥४२॥ तसु पयपंकयउ पुन्निहि पाविउ जण-भमरु सुद्धनाण-महुपाणु करतउ हुइ अमरु । सत्थु हुंतु सो जाणइ सत्थ पसत्थ सहि कहि अणुवमु उवमिजइ केण समाणु सहि ! ? ॥ ४३ ॥ [ तस्य पदपङ्कजं पुण्यैः प्राप्य जनभ्रमरः शुद्धज्ञान-मधुपानं कुर्वन् भवत्यमरः । स्वस्थो भवन् स जानाति शास्त्राणि प्रशस्तानि सर्वाणि कथयानुपम उपमीयते केन सह सखे ! ? ॥ ४३ ॥] (१) इह-परलोकानामकस्मादाजीव-मरणमश्लोकः । . १७१ क. वेत्यात्मा यः । १७२ क, स्फुटं यः ।१७३ क. पंकउ । १७४ ख. ग. कुणंतउ। १७५ ख. ग. यणु। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248