________________
[जिनदत्तसूरिविरचिता समक्षं प्ररूपयितुमपि शक्नोति ? आस्तां सम्यक् कर्तु कारयितुं चेत्याम्नायः । तस्य प्रभोः पदभक्तानां सत्त्वानाम् ' (१) इहपरलोयाणमकम्हा आजीवमरणमसिलोए' इति सप्तानां भवभयानां भवत्यन्तः क्षयः सुनिश्चितस्तद्वचनकरणोधतानामित्यर्थः।। ४१॥
इक्ककालु जसु विज्ज असेस वि वयणि ठिय मिच्छदिहि वि वंदहिं किंकरभावहिय । ठावि(णि) ठावि(णि) विहिपक्खु वि जिण अप्पडिखलिउ फुड पयडिउ निक्कवडिण परु अप्पउँ कलिउ ॥ ४२ ॥ [ एककालं यस्य विद्या अशेषा अपि वदने स्थिता मिथ्यादृष्टयोऽपि वन्दन्ते किङ्करभावस्थिताः । स्थाने स्थाने विधिपक्षोऽपि येनाप्रतिस्खलितः
स्फुटं प्रकटितो निष्कपटेन परमात्मानं कलयित्वा ॥ ४२ ॥] एककालं युगपदेव यस्य विद्यास्तर्कादयोऽशेषा अपि वदने स्थिताः । मिथ्यादृष्टयोऽन्यदर्शनस्थिता अपि श्रीनरवर्ममहाराजपण्डिताः पञ्चविंशतितमोऽयं तीर्थकर इति प्रतिपादयन्तो वन्दन्ते किङ्करभावस्थिता बहुमानातिशयप्रवर्तितसादरवचनाः। स्थाने स्थाने सर्वत्र विधिपक्षोऽपि येनाप्रतिस्खलितो निराकर्तुरभावन स्फुटः प्रकटितो निष्कपटेन निश्छद्मना परोऽपि निराकरणीय आत्मा च निराकर्ता द्वयमपि कलयित्वा यथावस्थितत्वेन तच्छक्तिमाकलय्य स्वसामर्थ्येनेत्यर्थः ॥४२॥
तसु पयपंकयउ पुन्निहि पाविउ जण-भमरु सुद्धनाण-महुपाणु करतउ हुइ अमरु । सत्थु हुंतु सो जाणइ सत्थ पसत्थ सहि कहि अणुवमु उवमिजइ केण समाणु सहि ! ? ॥ ४३ ॥ [ तस्य पदपङ्कजं पुण्यैः प्राप्य जनभ्रमरः शुद्धज्ञान-मधुपानं कुर्वन् भवत्यमरः । स्वस्थो भवन् स जानाति शास्त्राणि प्रशस्तानि सर्वाणि
कथयानुपम उपमीयते केन सह सखे ! ? ॥ ४३ ॥] (१) इह-परलोकानामकस्मादाजीव-मरणमश्लोकः । . १७१ क. वेत्यात्मा यः । १७२ क, स्फुटं यः ।१७३ क. पंकउ । १७४ ख. ग. कुणंतउ। १७५ ख. ग. यणु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org