SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ चर्चरी] २५ तस्य पदपङ्कजं पुण्यैः प्राप्य जन एव भ्रमरः शुद्धज्ञानमधुपानं कुर्वन् भवत्यमरः । शुद्धज्ञानपाने हि सति स्वस्थो विषयकषायाद्यभावेन सुखितः सन् स जानाति शास्त्राण्यङ्गोपाङ्गप्रकरणादीनि प्रशस्तानि शुभानि सहीति सर्वाण्यपि । एवंविधश्चानुपमः केन सहोपमीयते इति सखे ! कथय त्वमेवोपमाऽतिक्रान्तत्वान्न केनापीत्यर्थः ॥ ४३॥ अथ तस्यैव गुरुक्रममाहवद्धमाणसूरिसीसु जिणेसरमूरिवरु तासु सीसु जिणचंदजईसरु जुगपवरु । अभयदेउमुणिनाहु नवंगह वित्तिकरु तमु पयपंकय-भसलु सलक्खणुचरणकरु ॥४४॥ [ वर्धमानसूरिशिष्यो जिनेश्वरसूरिवरः तस्य शिष्यो जिनचन्द्रयतीश्वरो युगप्रवरः । अभयदेवमुनिनाथो नवाङ्गानां वृत्तिकरः तस्य पदपङ्कजभ्रमरः सलक्षणचरणकरः ॥ ४४ ॥] वर्धमानसूरेः शिष्यो जिनेश्वरसूरिर्वरः । तस्य जिनेश्वरसूरेः शिष्यो जिनचन्द्रसूर्यितीश्वरो युगप्रवरः, अभयदेवमुनिनाथोऽपि स्थानादिनवाङ्गवृत्तिकारकः। तस्याभयदेवसूरेः पदपङ्कजभ्रमरः सामुद्रिकोक्तलक्षणयुक्तचरणकर इत्यर्थः ॥४४॥ सिरिजिणवल्लहु दुल्लहु निप्पुन्नहं जणहं हउँ न अंतु परियाणउं अहु जण ! तग्गुणह । मुद्धधम्मि हउँ ठाविउ जुगपवरागमिण एउ वि मई परियाँणिउ तग्गुण-संकमिण ॥४५॥ [श्रीजिनवल्लभो दुर्लभो निष्पुण्यानां जनानाम् अहं नान्तं परिजानाम्यहो ! जनास्तद्गुणानाम् । शुद्धधर्मेऽहं स्थापितो युगप्रवरागमन एतदपि मया परिज्ञातं तद्गुणसङ्क्रमेण ॥ ४५ ॥] तच्छिष्यः श्रीजिनवल्लभो दुर्लभो निष्पुण्यानां जनानाम् । तस्यैवंविधस्य गुणरत्नानां महानिधेरहं नैवान्तं पर्यन्तं सर्वसङ्ख्यामित्यर्थः परिजानामि भो जनास्तद्गुणानाम् । किञ्च शुद्धधर्मे विधिधर्मरूपे परमार्थतोऽहं तेन स्थापितः १७६ ख, ग, अभयदेवउ । १७७ क. याणउ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy