________________
चर्चरी ]
२३
[ इति निष्पुण्यानां दुर्लभेन श्रीजिनवल्लमेन त्रिविधं निवेदितं चैत्यं शिवश्रीवल्लभेन ।
उत्सूत्राणि वारयता सूत्रं कथयता
इह नवमिव जिनशासनं दर्शितं सन्मतिना ॥ ४० ॥ ]
इति निष्पुण्यानां दुर्लभेन श्रीजिनवल्लभेन त्रिविधं निवेदितं चैत्यं शिवश्रीवल्लभेन । उत्सूत्राणि रात्रिस्नानादीनि वारयता सूत्रं सूत्रार्थ विधिरूपं कथयता, तथा चोत्सूत्रभाषकप्रवर्तित केवलाविधिप्रवण चैत्यादिदर्शनप्रच्छादितविधिप्रकाशम् । इह लोके नवमिव जिनशासनं दर्शितं सन्मतिना लोकोत्तरबुद्धिभाजेत्यर्थः ॥४०॥ इक्कवयणु जिणवल्लहु पहुँ व घण किं व जंपिवि जणु सक्कइ सक्कु वि जइ इ । तसु पयभत्तह सत्तह सतह भवभयह होइ अंतु सुनिरुत्तर तवयणुज्जह ॥ ४१ ॥
[ एकवचनो जिनवल्लभः प्रभुर्वचनानि धनानि किमिव जल्पितुं जनः शक्नोति शक्रोऽपि यदि जानाति । तस्य पदभक्तानां सत्त्वानां सप्तानां भवभयानां भवत्यन्तः सुनिश्चितस्तद्वचनोद्यतानाम् ॥ ४१ ॥ ]
=
'जणुशब्दो द्वितीयपादगतो जानीहि त्वमेवैतदित्यर्थे लोकरूढितो बोद्धव्यः' ततश्च भोः सखे ! त्वमेवैतज्जानीहि । एकवचनः श्रीजिनवल्लभः प्रभुः कथं बहूनि वचनानि श्रीवीरर्षैष्ठुकल्याणक - विधिविषयपारतन्त्र्य - चैत्यसाधुगतकृत्याकृत्य षट्करप्रमाणकल्प - साधुप्रावरणकषायादिद्रव्याहत जलग्रहणादीनि कथं जल्पितुं समस्तसङ्घसमक्षं प्रकाशयितुं शक्नोति । एकवचनशक्तेरनेकवचनजल्पनविरोधात् । तत्परिहारश्चैवम् - एकमेकरूपमेव पूर्वापराविरोधेन सिद्धान्ताविरुद्ध गीतार्थाचरणानुसारि वचनं यस्य तस्य च श्रीमन्महावीरषष्ठकल्याणकाद्यनेकवचनजल्पनविरोधः सर्वथा नास्ति, सिद्धान्ताद्यनुसारित्वात् सर्वेषां वचनानाम् । तानि हि वचनान्या - धुनिक साधुप्रवर्तनेन आच्छादितान्येवासन् । अत एव शक्रोऽपि विबुधेश्वरतया लोकोत्तरप्रज्ञातिशयशालित्वेन लोकोत्कृष्टोऽपि यदि कथञ्चिन्महाकृच्छ्रेण जानाति विशिष्टयुगप्रधान गम्यत्वात् पूर्वोक्तार्थानाम् । अथवा एवं योजना कार्या- जिनवल्लभ• प्रभुवचनानि प्रभूतानि पूर्वोक्तान्येकवदनो जनोऽस्मददिः कथं जल्पितुमपि सभा -
१६४ ख. ग. बहु । १६५ क. वयणई । १६६ ख. ग. सुणेइ । १६७ क. भवयह । १६८ क. °षट्कल्याणिक । १६९ ख. ग. 'गुण' । १७० क. 'दादिर्ज ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org