________________
[ जिनदत्तसूरिविरचिता
[ उत्सर्गेण विधिचैत्यं प्रथमं प्रकाशितं निश्राकृतमपवादेन द्वितीयं निदर्शितम् । यत्र किल लिङ्गिनो निवसन्ति तदिहानायतनं
तत्र निषिद्धं सिद्धान्तेऽपि धार्मिकजनगमनम् ॥ ३८ ॥] उत्सर्गेण विधिचैत्यं गमनयोग्यतया प्रथमं प्रकाशितम् । निश्राकृतं त्वपवादेन द्वितीयं तिथि-पर्वादिषु गमनयोग्यं निदर्शितम् । यत्र लिङ्गिनो निवसन्ति तत् तृतीयमनायतनमिति दर्शितम् , तत्र निषिद्धमपवादतोऽपि धार्मिकजनगमनम् ; कदाचिदत्यन्तापवादविषयत्वात् तस्येत्यर्थः ॥ ३८ ॥
__ अत एवाहविणु कारणि तहि गमणु न कुणहि जि सुविहियई तिविहु जु चेइउ कहइ सु साहु वि मंनियइ । तं पुण दुविहु कहेइ जु सो अवगन्नियइ तेण लोउ इह सयलु वि भोलेउ धुंधियइ ॥ ३९॥ [ विना कारणं तत्र गमनं न कुर्वन्ति सुविहिताः त्रिविधं यश्चैत्यं कथयति स साधुरपि मन्यते । तत् पुनर्द्विविधं कथयति यः सोऽवगण्यते
तेन लोक इह सकलोऽपि मुग्धो विप्रतार्यते ॥ ३९ ॥] विना कारणं दुष्टजनविहितधर्मभ्रंशादिभयमन्तरेण तत्रानायतने गमनं न कुर्वन्ति सुविहिताः सदाचाराः श्रावकादयोऽपि । एवं च सति त्रिविधं चैत्यं यः कथयति अस्तित्वेन प्रतिपादयति, स साधुरपि मन्यते । तत् पुनर्द्विविधमनायतन वर्जनेन कथयति यः, स साधुरप्यवगण्यते; शुद्धसिद्धान्तविचारसिद्धत्वादनायतनस्यापि । तेन द्विविधचैत्यकथकेन लोकः सकलोऽपि मुग्धप्रायो १ निस्सकडमनिस्सकडे वा वि चेइए' इत्यादि वदता विप्रतार्यत इत्यर्थः ।। ३९ ।।
इय निप्पुन्नेह दुल्लह सिरिजिणवल्लहिण तिविहु निवेइउ चेइउ सिवसिरिवल्लहिण । उस्सुत्तई वारंतिण मुत्तु कहतइण
इह नवं व जिणसासणु दंसिउ सुम्मइण ॥ ४० ॥ (१) निश्राकृतमनिश्राकृतं वाऽपि चैत्ये ।
१५९ ख. ग. भोलिवि । १६० ख.ग. सर्वोपि । १६१ क. निप्पुनहि । १६२ ख. वारितिण। १६३ क. कहत्तहइण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org