Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
उपदेशरसायनरासः ] पूजामात्रस्याष्टाह्निकाशब्देन विवक्षितत्वात्। न च तदष्टाह्निकाशब्दाभिधेयं न भवतीति वाच्यम् , तस्य षष्ठाङ्गविवरणे अभयदेवसूरिभिस्तथा वर्णनात् । जनाः श्रावकलोकास्तत्र चैत्रादौ ' कृतेति पदैकदेशे पदसमुदायोपचारात् ' कृताष्टाह्निका भवन्ति नष्टाहिता ध्वस्ताधयो वा इत्यर्थः ।। ३१ ।।।
अथागमिकं प्रकारान्तरमप्याहजिव कल्लाणयपुहिहि किज्जहिं तिव करिति सावय जहसत्तिहिं । जा लहुडी सा नच्चाविज्जइ वड्डी सुगुरु-वयणि आणिज्जइ ॥ ३२ ॥ [ यथा कल्याणकपृष्ठे क्रियन्ते तथा कुर्वन्ति श्रावका यथाशक्त्या । या लध्वी सा नय॑ते
बृहती सुगुरुवचनेनानीयते ॥ ३२ ॥] ___ यथा जन्मकल्याणादिपृष्ठे क्रियन्ते देवेन्द्रादिभिः किल । कृतकल्याणकमहोत्सवा नन्दीश्वरे देवेन्द्रादयोऽष्टाह्निकामहिमाः कुर्वन्ति । तद् यदि तदनुसारेण श्रावका अप्यत्यन्तमृद्धिमन्तः क्वचित् कल्याणकानन्तरमष्टाह्निका आरभन्ते तदा न दोषः । तथा कुर्वन्ति श्रावका यथासामर्थ्य तथा विधिपरैः श्रावकैर्लध्वी नर्तकी सा विधिचैये नर्तनं कार्यते निर्विकारत्वात् । याऽपि बृहती सा सुगुरुवचनेनैव नर्तनायानीयते । अयमत्राशयः-यद्यपि तरुणविदग्धरूपवतीनर्तकीनर्त्तने प्रेक्षणकं सातिशयशोभं भवति; तथापि प्रतिदिनं तदागमने तरुणश्रावकपुत्रादीनां तस्या जिनद्रव्यदानादौ चित्तविश्लेषो भवति । तन्निमित्तं चे क्रमेण देवगृहत्यागादिना धर्मादपि प्रतिपातो भवतीति विमृश्य गीतार्थैरागमानिषिद्धमपि सर्वदा तदागमनं न्यषेधि । कदाचित् तु देवगृहादिप्रतिष्ठायां जलानयनादिमहोत्सवे सातिशयप्रेक्षणकादिनिर्वाहाय सा आकारयितुमिष्यते श्रावकैः, परं बहुतरदोषदृष्ट्या गुरुभिरत्यन्तं निषेधे गुर्वाज्ञामन्तरेण न ते तामाह्वातुं प्रभवन्ति, अत्यन्ताज्ञापरत्वात् । ततस्तादृशे प्रस्तावे गुरुमापृच्छ्यानयन्तीत्यभिप्रायेण 'वड्डी सुगुरुवयणेण' इत्यादि अभिधीयते । ततोऽहो! युगप्रधानानां निर्विकारं वचनमित्याग्रुपहासः केषाञ्चिद् दुर्विदग्धानां सर्वथा नावकाशं लभत इत्यर्थः ॥ ३२ ॥
१ ख. ग. "पुढिहिं । २ क. तथा । ३ क. पि तदपि । ४ क. दानादानादौ । ५ क. वा । ६ ख, ग. प्रेक्षणादि । ७ क. रत्यंतनि । ८ ख. ग. नंतरेण । ९ क. इत्याद्यमि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248