________________
शीघ्रं समागन्तव्यम् , येन श्रीजिनवल्लभसूरिपंदप्रतिष्ठायामपि नागतोऽभूः । बहवश्वे तत्पदे स्थातुं लम्बकर्णा गौरवर्णाः श्रीपर्णपर्णाक्षाः साक्षादिव मकरध्वजा गूर्जरत्रासाताः संयता अभ्युद्यता आसन् , परं योग्यता गुरव एव विदन्ति किं बहुना ? । देवभद्राचार्याः पण्डितसोमचन्द्रोऽन्येऽपि साधवश्चित्रकूटे समाजग्मुः । सर्वोऽपि लोको वेत्ति सामान्येन श्रीजिनवल्लभसूरिपदे सूरिपदस्थापनं भविष्यति, न ज्ञायते कश्चिदुपवेक्ष्यति । श्रीजिनवल्लभसूरिप्रतिष्ठिते साधारणसाधुकारिते श्रीमहावीरचैत्ये पदस्थापन भविष्यति । ततः स्वपरिभावितलग्नदिनादर्वाग्दिने श्रीदेवभद्राचार्यै रेकान्ते भणित: पण्डितसोमचन्द्रगणिर्यदुतास्मिन् दिने युष्मदीयं पदस्थापनालग्नं परिभावितमस्ति । पं० सोमचन्द्रेणोक्तम्- युष्माकं संग(म)तं तद् युक्तम्, परं यद्यस्मिल्लग्ने स्थापयिष्यथ तदा न चिराय जीवितं भविष्यति । षण्णां दिनानामुपरि शनैश्चरवा[स]रे यल्लग्नं भविष्यति तत्रोपविष्टानां त्वस्माकं चतुर्दिक्षु विहरतां चतुर्विधः श्रीश्रमणसङ्घः श्रीजिनवल्लभसूरिवचने प्रभूतो भविष्यति चिरञ्जीवित्वं चे' । श्रीदेवभद्राचार्यैरुक्तम् 'एतदेव वयमपि गवेषयामहे, तदपि लग्नं न दूरे, तत्रैव भवतु' । ततस्तस्मिन्नेव दिने श्रीजिनवल्लभसूरि पदे विस्तरेण सन्ध्यासमये लग्नवेलायां संस्थापिताः श्रीजिनदत्तमूरिनामानो युगप्रवरास्ततो वादित्रैर्वाद्यमानैः समागता वसतौ । प्रतिक्रमणानन्तरं वन्दनकं दत्त्वा श्रीदेवभद्रसूरिभिर्भणितम्-'देशनां कुरुत' । ततः सिद्धान्तोक्तोदाहरणानुसारिहारिसुधासारणिकरणिगीर्वाणवाणीप्रबन्धेन तथा कृता पूज्यैः श्रीजिनदत्तसूरिभिर्देशना यथा 'ह्रस्वशरीरः श्यामवर्णोऽयं किमित्युप[वेश्यते ? किं न सन्त्यन्ये गौरवर्णा लम्बकर्णा विशाललोचना गच्छमध्ये साधवः ?' इत्यादि कालुध्यमपहाय सर्वा प्रजा रजिता सती भणति-'अहो ! सिंहा]नां पदे सिंह एवोपविष्टो विराजते । धन्याः श्रीदेवभद्राचार्या यैरीदृशं पात्ररत्नं परीक्षितम्, किमस्मादृशाः स्थूलमतयोऽन्तर्लक्षणानि जानन्ति ? '।
सूरिः प्रसन्नचन्द्रो हरिसिंहो देवभद्रसूरिरपि । सर्वेऽप्येते विहिता सूरिपदेऽशोकचन्द्रेण ॥"
--गणधरसार्धशतक (गा. ८४ ) बृहद्वत्तौ सुमतिगणिः । तथा च विशिकायामप्येवमुक्तम्इतोऽप्यभयदेवाख्यसूरेः श्रीश्रुतसम्पदम् । समवाप्य ततो मत्वा चैत्यवासोऽस्ति पापकृत् ॥ १॥ श्रीमत्कूर्चपुरीयश्रीसूरिजिनेश्वरस्य शिष्येण । जिनवल्लभेन गणिना चैत्यनिवासः परित्यक्तः॥२॥ कृताङ्गिगणभद्रेण देवभद्रेण सूरिणा । श्रीचित्रकूटदुर्गेऽस्मिन् सोऽपि सूरिपदे कृतः ॥ ३ ॥'
-ग. सा. श. ( गा. ८४ ) बृहद्वत्तौ सुमतिगणिः । २ अत्र विषये विशेषार्थिना खरतरगच्छपावली निरीक्षणीया। ३ “सं. १६९ वैशाखवदिषठीदिने' इति ख. पावल्यादौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org