________________
मरुस्थलादिषु
अन्यस्मिन् दिने विज्ञप्ताः श्रीजिनदत्तसूरयः श्रीदेवभद्राचार्यैर्यत् कतिपयदिनानन्तरं कतिचिद् दिनानि श्रीपत्तनाद बहिर्विहर्तव्यम् | श्रीजिनदत्तसूरिभिरुक्तम्-'एवं विधास्यामः'। अपरदिने जिनशिखरेण साधुविषये किञ्चित् कलहादिकमयुक्तं कृतम् । ततो .. देवभद्राचार्यैर्गलके गृहीत्वा निष्कासितः । ततो यत्र श्रीजिनदत्तसूरयो
पर बहिर्गच्छन्ति, तत्र गत्वा स्थितः । तत्र गतानां पूज्यानां पादयोर्लगित्वा दीनवागवादीत्-' प्रभो ! मदीयोऽयमन्याय एकवारं क्षन्तव्यः, न पुनः करिष्यामि ' । ततः कृपोदधयः श्रीजिनदत्तसूरयस्तं प्रवेशयामासुः । पश्चाद् देवभद्राचार्यैरुक्तम्--- 'युष्माभिर्न युक्तं कृतम्, एष दुरात्मा न भवतां सुखावहो भविष्यति । पामनोष्ट्रस्यैवैतस्य बहिनिष्कासनमेव श्रेयः '। पूज्यैरुक्तम्-" श्रीजिनवल्लभसूरिपृष्ठे लग्नोऽयं यावदनुवर्तयितुं शक्यते तावदनुवर्त्यते "। श्रीदेवभद्राचार्यादयोऽन्यत्र विहारं चक्रुः, कालेन स्वःपदं सम्प्रापुरिति । - [श्रीजिनदत्तरिभिरपि श्रीपत्तनाद् विजिहीर्षुभिः श्रीदेव-गुरुस्मरणार्थमुपवासत्रय
चक्रे । ततो देवलोकात् श्रीहरिसिंहाचार्य आगतः । किमर्थं स्मृतोऽ१७ हम् ?' इत्युवाच । ] श्रीजिनदत्तसूरिभिरुक्तम्-' कुत्र विहराम?इति विचरणम्
पण हेतुना ' ततो ' मरुस्थलादिषु विहर्तव्यम् ' इत्युपदेशं दत्त्वा गतोऽदर्शनं श्रीहरिसिंहाचार्यः । यावत् तत्रैव तिष्ठन्ति पूज्या लब्धोपदेशास्तावन्मरुस्थलीवास्तव्या मेहर-भोस्व(प)र--वासल-भरतादयः श्रावका व्यवहारेण तत्र सम्प्राप्ताः । ततः श्रीजिनदत्तसूरिगुरुं दृष्ट्वा वचनं च श्रुत्वाऽतीव तुष्टाः श्रीजिनदत्तसूरीन् गुरुत्वेन प्रतिपन्नाः । भरतः सुगुरुपाचे वाचकत्वेन स्थितः, अन्ये तु मेहर-भोस्व(ष)रादयः स्वस्थाने गताः स्वकुटुम्बाग्रतः प्रभुवर्णनं कुर्वन्ति-' एवंविधाः शुद्धचारित्रिणः श्रीजिनदत्तसूरयः ' इत्यादि । एवं तत्र देशे प्रवेशो जातः । ततो नागपुरे विहृताः । तत्र श्रावकधनदेवः श्रेष्ठी प्रतिपत्तिं करोति । [ श्रुत्वाऽऽ.
.. यतनानायतनादिविचारं भाणतं धनदेवेन-' भो आचार्य ! यदि
- मद्भणितं करोषि, तदा सर्वोऽपि श्रावकवर्गस्त्वत्पृष्टलग्नः परिवारभूतो भवति । '] पूज्यैः किलाजानानैरिवाभिहितम्-" धनदेवश्रेष्ठिन् ! किं तत् ? " धन. देव उवाच
“ आयतनमनायतनं विधिमविधि चैव सर्वविषयेऽपि । नो चेत् कथयसि लगयामि मेदिनी तव(तदा) पृष्ठे ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org