________________
४६
तदाकयक्तं श्रीपूज्यैः
" धनदेव ! तावकीनं वचनं कुर्मोऽथवा नु तीर्थकृताम् ? | यदनायतनं सूत्रे भणितं तद् ब्रूमहे नियतम् ॥ १ ॥ उत्सूत्रभाषणात् पुनरनन्तसंसार[ कार ]णाद् बहुशः । किं लोकेन त्वग्रोगिणो भवेत् प्रचुरो मक्षिकासङ्गः ॥ २ ॥ किञ्च - मैवं मंस्था बहुपरिकरो जनो जगति पूज्यतां याति ।
[ बहु ] तनययुक्ताऽपि शूकरी गूथमश्नाति ॥ ३ ॥ " तद् वचनमतीव कर्णकटुकं दुःखदमभूद् धनदेवस्य । भवतु, युक्तमेव वक्तव्यम् । यतः
" रूसउ वा परो मा वा विसं वा परियत्तउ | भासियव्वा हिया भासा सपक्खगुणकारिया ||
55
अर्णोराज-समागमः
इति सिद्धान्तप्रामाण्यात् केषाञ्चिद् विवेकिनां [ पुन ]स्तद्वचनं रुचितम् | ततो नागपुरादजयमेरौ विहृताः । तत्र च ठ० आसवर - साधु (साधारण) - रासप्रभृतिश्रावकाः सन्ति । श्रीजिनदत्तसूरयो देववन्दअजयमेरौ देवगृहादि, नार्थं बाहदेवगृहे गच्छन्ति । अन्यदा तत्रा आचार्य आगतः । स च पर्यायेण लघुरपि चैत्ये देववन्दनार्थ गतानां गुरूणां व्यवहारं नाकरोत् । ततः ठक्कु शाधरप्रभृतिश्रावकैरुक्तम्- ' किमत्र गच्छतां फलम् ?, यदि युक्तं न प्रवर्तते ' । ततो वन्दनादिव्यवहारो निवृत्तः । ततः श्रावकैर्विज्ञप्तोऽर्णोराजः- देवास्माकं श्रीजिनदत्तसूरयो गुरवः समागताः सन्ति ' । राज्ञोक्तम्-“ भद्रम्, यथाऽऽगताः कार्यं कथयत " । श्रावकैरुक्तम्- - ' देव ! भूमिखण्डमेकमवलोक्यते, यत्र देवगृहादिधर्मस्थानानि श्रावकाणां स्वकुटुम्बसदनानि च सम्पाद्यन्ते ' । पश्चादर्णोराजेनोक्तम् – “ दक्षिणदिग्भागे यः पर्वतस्तस्मिन् स्थ(भूत)ले यद् देवगृहादिकं रोचते, तन्निःशङ्कं कुरुत, आत्मीयगुरवश्च मम दर्शनीयाः ' । एतत् स्वरूपं प्रभूणामग्रे श्रावका अचीकथन् । प्रभुभिः परिभाव्य भाषितम्- - " भो ! य एवमस्मदर्शनोत्कण्ठितो नरेन्द्रस्तस्मिन्नाकारिते गुण एव स्यात् " । ततो गुरुवचनमनुकूलयद्भिः श्रावकैर्भव्यवासरे समाहूतोऽर्णोराज आगतः । क्षिप्रमेव नमस्कृताः श्रीजिनदत्तसूरयः । अभिनन्दित आशीर्वादेन प्रभुभिः । तथा चाशीर्वादः -
"C
Jain Education International
विश्व[ विश्व ]विनिर्माण-स्थिति- प्रलयहेतवः ।
सन्तु राजेन्द्र ! भूत्यै ते ब्रह्म - श्रीपति शङ्कराः ॥ १ ॥
१ रुष्यतु वा परो मा वा विषं वा परिवर्तताम् । भाषितव्या हिता भाषा स्वपक्षगुणकारिका ॥
तथापि गुरुणा
For Private & Personal Use Only
www.jainelibrary.org