________________
तथा—नीतिश्चित्ते वसति नितरां लब्धविश्रान्तिरुच्चैः
श्रीरस्याङ्गे भुजयुगलमप्याश्रिता विक्रमश्रीः । एषोऽत्यर्थं क्षिपति बहुभिर्लोकवाक्यैः प्रियो मा
मित्यर्णोराड् ! भ्रमति भुवनं कीर्तिरस्ताश्रया ते ॥ " इत्यादि ।
४७
सद्गुरुमुखकमलावीनिर्गतभारतीमाकर्ण्य तुष्टो राजा बभाषे – “ सदैवात्र तिष्ठन्तु सुगुरवः ' । गुरुभिरुक्तम् - " युक्तमुक्तं महाराजेन परमस्मदीया स्थितिरेषा यत् सर्वत्र विहारक्रमः क्रियते लोकोपकाराय । अत्र पुनः पुनरागमिष्यामो यथा युष्माकं समाधानं भविष्यति तथा विधास्यामः ' । ततः समाधानेनोत्थितो राजा ।
ततः ठक्कुर आशाधरो भणितः पूज्यैर्यथा -
" इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति सम्पादयम् । विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ? ॥
15
वाग्जडदेशे
अतः स्तम्भनक - शत्रुञ्जयोज्जयन्तकल्पनया पार्श्वनाथ - ऋषभनाथ - नेमिनाथबिम्बस्थानानि परिभावनीयानि । उपर्यम्बिकादेवकुलिका तले च गणधरादिस्थानं चिन्तनीयम् ” । इत्यभिधाय श्री पूज्यैर्वाग्ग ( ग्ज ) डदेशे सुशकुनेन कृतो विहारः ॥ तत्रत्यलोकाश्च [ श्रीजिनवल्लभसूरिविषये प्रागेव समाहितचेतसोऽभूवन्, तन्नामग्रहणेऽपि नमनशीलास्तेषां देवलोकगमनवार्तामाकर्ण्य तेषां पदे ये संस्थाविहार: पितास्ते 'ज्ञान–ध्यानगुणोपेताः ] श्रीमहावीरवदनारविन्दविनिर्गतार्थ श्रीधर्मस्वामिगणधरराचेतसिद्धान्तवेदिनः श्रीजिनदत्तसूरिनामानः सुगुरवो युगप्रधानास्तीर्थकरकल्पा अत्रास्मद्देशे विहृताः सन्ति ' इति चोपश्रुत्य हृष्टा दर्शनोत्कण्ठेतास्तत्पादाम्भोजवन्दनार्थमायाताः । ततः श्रीपूज्यदेशनां श्रुत्वा दृष्ट्वा च सौम्यतामत्यन्तमानन्दिताः सञ्जाताः । यद् यत् ते श्रावकाः पृच्छन्ति, तत् तत् कथयन्तः केवलिन इव श्रीजिनदत्तसूरयस्तेषां मनःसमाधानमुत्पादयन्ति । केचन सम्यक्वं केचन देशविरति केचन सर्वविरतिं तुष्टाः सन्तस्ते गृह्णन्ति । एवं च पूज्यैस्तत्र व्रतिनो बहवः कृता व्रतिन्यश्च तस्मिन् प्रस्तावे द्विपञ्चाशत् कृताः श्रूयन्ते । तस्मिन्नेव प्रस्तावे निशेखरमुपाध्यायं कृत्वा कतिचित्साधुसहितं रुद्रपल्ल्यां विहारक्रमेण प्रेषयाञ्चक्रुः । स च तपः करोति, स्वजनास्तत्र सन्तीति तेषां समाधानहेतोः ।
तथेदं स्वरूपं जयदेवाचार्यैः स्वस्थानस्थितैः श्रुतं यत् -'श्रीजिनवल्लभसूरिपदे [प्रतिष्ठिताः] श्रीजिनदत्तसूरयः सर्वगुणोपेता अत्र देशे विहारेणायाताः ' इति । ततश्चिन्तितं तैः - 'शोभनं सञ्जातं श्रीजिनवल्लभगणेश्चैत्यवासपरिहारेण श्रीअभयदेवसूरिपार्श्वे वसतिवासप्रतिपत्तिं कृतां श्रुत्वा प्रागेवास्माकं वसतिवासाभिप्राय उत्पन्न आसीद्, इदानीं गत्वा दृश्यन्ते ते
जयदेवाचार्यस्य सम्प्राप्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org