________________
४८
सुगुरवः ' । ततस्ते सपरिवारा वन्दनार्थ समागता [ वन्दिताः ] सविनयं श्रीजिनदत्तसूरयः । तैश्च तथा सम्भाषिताः सिद्धान्तमधुरवचनैर्यथैवं परिणामोऽभूद् यदुतएत एव भवे भवेऽस्माकं गुरवो भूयासुः ' । पश्चाद् भव्यदिने उपसम्पदं गृहीतवन्तः श्रीजयदेवाचार्याः पश्चान्नावलोकितं सनत्कुमारचक्रवर्तिवत् ।
6
चैत्यवासत्यागः
तथा श्रीजिनप्रभाचार्याः केवलिकापरिज्ञानेन सर्वजनप्रसिद्धास्ते च तुरुष्क [ भूम्यां गताः केनचित् ] नायकेन ज्ञानिनो ज्ञात्वा पृष्टा यथा-' मदीयहस्ते जिनप्रभाचार्यस्य किमस्ति ? ' । आचार्यैर्गणयित्वा कथितम् -' वदामः, खटिकाखण्डं वालश्च '। स च वालं न जानाति, ततस्तेन विस्मितेन दर्शितो हस्तो यावद् वालोऽपि खटिकायां लग्नोऽस्ति । तुरुष्काधिपस्तुष्ट आचार्यहस्तं गृहीत्वा चुम्बितवान्, ' चंगा चंगा ' इत्युक्तवांश्च । आचार्येण ज्ञातम् - ' एष मामात्मना सह नेष्यति । दुष्टाभिसन्धयश्चैते कदाचिदनर्थमपि कञ्चन मम सम्पादयिष्यन्ति ' इति रात्रौ प्रपलाय्य स्वदेशे गतः । तत्रागतो जयदेवाचार्य वसतिमार्गप्रतिपत्तारं श्रीजिनदत्त सूरिपार्श्वे श्रुत्वा तस्याप्यभिप्राय उत्पन्नोऽहमपि चैत्यवासं परित्यजामि, परमतीव गाढो मार्ग एतेषां श्रूयते । यदि कश्चित् सुकुमारतरो धर्ममार्गः स्यादू ' इति केवलिकापरिज्ञानेन चिन्तयति यावत् प्रथमवेलायां श्रीजिनदत्तसूरय इति नामागतम् । ततश्चिन्तितम् -'मा कथञ्चिदङ्कव्यत्ययो जातो भविष्यति ' द्वितीयवेलायां गणयति यावत् तथैव श्रीजिनदत्तसूरय इति नामागच्छति । पुनर्निश्चयाय यावत् तृतीयवेलायामपि गणयितुमारब्धः, ततोऽग्निपुञ्ज गगनात् पतित आकाशे वाणी चोत्थिता - " यदि शुद्धमार्गेण तव प्रयोजनम्, तत् किमिति बहुधा गण [ यसि ? | अ] यमेव संसारनिस्तारकः शुद्धमार्गप्ररूपकः सुगुरुः " इति । ततोऽसौ निःसन्देहः सन् श्रीजिनदत्तसूरिपार्श्वे समागतः । ततो ज्ञानादित्येन भणितः - ' तव चूडामणिपरिज्ञानमस्मत्समीपे न परिस्फुरिष्यति '। तेनोक्तम् -' मा स्फुरतु मम विधिमार्गेण प्रयोजनम्' इत्युक्ते दत्ता तस्य स्वकीयोपसम्पत्तिः । ततः सु (स) गुर्वाज्ञया विजहार ।
"
1
तथा तत्रैव स्थितानां श्रीजिनदत्तसरीणामतिशयज्ञानिनां पार्श्वे विमलचन्द्रगणिर्नाम चैत्यवासी जयदेवाचार्य - जिनप्रभाचार्ययोर्वस तिनिवासविशिष्टः शिष्यादि- प्रति [पत्तिं श्रुत्वा वसति ] मार्गमङ्गीचकार । तथा तस्मिन्नेव प्रस्तावे जिनरक्षित - शीलभद्रौ मात्रा सह प्रव्रजितौ, तथा स्थिरचन्द्रवरदत्तनामानौ भ्रातरौ प्रत्रजितौ ।
परिवार:
तथा जयदत्तनामा मुनिर्मन्त्रवादी बभूव । तस्य च पूर्वजा मन्त्रशक्तियुक्ता आसंस्ते च सर्वेऽपि रुष्टया दु:साधितदुष्टदेवतया विनाशिताः । एष पुनर्नष्टः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org