________________
४९
श्रीजिनदत्तसूररीणां शरणं गतो व्रतं जग्राह । ततः श्रीपूज्यैः शक्तिनिधानः करुणानिधानैर्दुष्टदेवतातो रक्षितः ।
तथा गुणचन्द्रगणिर्नाम यतिः सोऽपि जिनदत्तसूरिभिर्दीक्षितः । स हि पूर्व श्रावकः सन् तुरुष्कैर्हस्तदर्शनेन । चङ्गो भाण्डागारिको भविष्यति ' इति ज्ञात्वा नाशनभयाच्छृङ्खलया दृढं निबद्धः । तेन च भावनया नमस्कारलक्षं गुणितम् । तत्प्रभावाच्छङ्घला स्वयमेव त्रुटिता। ततोऽलक्षितो निःसृत्य रजनीपश्चिमार्धे कस्याश्चिद् वृद्धाया गृहे प्रविष्टः । तया च कृपया कोष्ठिकामध्ये प्रक्षिप्तः । तुरुष्कैः प्रेक्षितो न लब्धः, ततो रात्री निर्गत्य स्वदेशे गतः । एवं च तेन जातसंवेगेन प्रभूणां पार्वेवृत्तं( व्रतं ) गृहीतमिति ।
तथा रामचन्द्रगणिजीवानन्दपुत्रसहितोऽन्यगच्छाद् भव्यं धर्म ज्ञात्वा श्रीजिनदत्तसूरीणामाज्ञां प्रतिपन्नः । तथा ब्रह्मचन्द्रगणितमाददे ।
एतेषां मध्याजिनरक्षित-शीलभद्र-स्थिरचन्द्र-वरदत्तप्रभृतिसाधवस्तथा श्रीमति-जिनमति--पूर्णश्रीप्रभृतयः साळ्यश्च वृत्ति-पञ्जिका-टीकाऽऽदिलक्षणशास्त्रमणनार्थं श्रीधारायां प्रेषिताः । तैश्च तत् सर्व भणितं भक्तिमन्महर्द्धिकश्रावकसाहाय्येन । आत्मना श्रीजिनदत्तसूरयो रुद्रपल्ल्यां विहृताः । तत्र च पथि गच्छतामेकस्मिन्
ग्रामे श्रावक एकः प्रतिदिनं व्यन्तरेण प्रचण्डेन पीड्यते । तस्य च रुद्रपल्ल्यां
पुण्येन श्रीजिनदत्तसूरयस्तत्रैव ग्रामे उत्तीर्णाः । तेन श्रावकेण विज्ञप्त
शरीरस्वरूपम् । परिभावितं श्रीपूज्यैर्यदुत-' एष मन्त्र-तन्त्राणामसाध्यो व्यन्तरः । ततो गणधरसप्ततिकां कृत्वा टिप्पनके लेखयित्वा तस्य व्यन्तरगृहीतस्य श्रावकस्य हस्ते टिप्पनकं दत्तम् , भणितश्च दृष्टिश्चात्र निवेशनीया । तेन च तथा कृतं यावदसौ व्यन्तरो गाढतरं पीडया समागतः खट्वासीमाम् , शरीरे न सङ्क्रान्तो गणधरसप्ततिकाहृदयनिवेशनदर्शनप्रभावात् । द्वितीयदिने द्वारसीमां यावत् समागतः । तृतीयदिने त्वागत एव न । श्रावकस्तु सुस्थो जातः, किं बहुना ? |
रुद्रपल्ल्यां सम्प्राप्ताः । जिनशेखरोपाध्यायाः श्रावकैः सहिताः सम्मुखमागताः, विस्तरेण मध्ये प्रविष्टाः । विंशोत्तरं शतं कुटुम्बानां तत्र श्रीजिनवल्लभसूरिवचनव्यव
विहारः
१ जेसलमेरुदुर्गीयचिन्तामणिपार्श्वजिनालयान्तःस्थायाः प्रतिमाया अधोवर्तीत्थं पठ्यते लेख:'संवत् ११४७ वर्षे श्रीखत्तरगच्छेशश्रीजिनशेखरसूरिभिः श्रीऋषभबिम्बं कारापितं ॥' इत्यत्र समय-गच्छ-सूरिपदानि चिन्त्यानि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org