________________
स्थितं कारितम्। श्रीऋषभनाथ-श्रीपार्श्वनाथचैत्यद्वयं प्रतिष्ठितम्। केचित् सम्यक्त्वधारिणः, केचिद् देशविरतिग्राहिणः श्रावका बभूवुः । केचित् सर्वविरतिमग्रहीपुर्देवपालगणिप्रभतयः । एवं तेषां समाधानमुत्पाद्यात्र जयदेवाचार्य प्रेषयिष्याम इति भणित्वा पुनः पश्चिमदेशे विहृताः।
ततो वाग(ग्ज)डदेशे समायाता व्याघ्रपुरे। तत्र स्थितैः श्रीजयदेवाचार्याः शिक्षा दत्त्वा वाग्जडदेशे
__ रुद्रपल्यां प्रेषिताः। तत्र स्थितैरेव श्रीजिनवल्लभसूरिप्ररूपितश्रीचर्चरी-रचना चैत्यगृहविधिस्वरूपा चच्च(च)री कृता । सा च टिप्पनके लेखयित्वा
प्रेषिता मेहर-वासलप्रभतिश्रावकाणां ज्ञानार्थ विक्रमपुरे । देवधरसत्कसण्हियाभिधानजनकगृहसमीपे पौषधशालाऽस्ति । तस्यामुपविश्य श्रीजिनदत्तसूरिभक्तश्रावकै रुच्छोटितं चचचरीटिप्पनकम् । अत्रान्तरे मदोन्मत्तेन देवधरेणागत्य चच्च(च)रीटिप्पनकमिति भणित्वा हस्तादुद्दाल्य द्विधा कृतं तच्चच्च(च)रीटिप्पनकम् । तस्य च किमपि कर्तुं न शक्यते उन्मत्तत्वादेव । तत्पितुरने कथिता वार्ता । तेनोक्तम्-'बाढं दुर्दान्त एष, तथापि वारयिष्यामः' । पुनरपि पूज्येभ्यो दत्ता श्रावकैर्विज्ञप्तिका । तदन्तलिखितं चच्च(च)रीटिप्पनकपाटनस्वरूपम् । पूज्यैरपि लेखा[2]मवर्धाय पुनर्लेखयित्वा द्वितीयटिप्पनकं चचर्चाःप्रेषितम् , लेखश्च प्रेषितः । इदं चालेखितम्-देवधरस्योपरि विरूपकं केनापि न भणनीयम्, देव-गुरुप्रसादादेष भव्यो भविष्यति । तच्च द्वितीयटिप्पनकं प्राप्तं सत् प्रणिपत्य श्रावकैरुच्छोटितं समाधानं जातम् । देवधरेण पुनश्चिन्तितम्-यद्यपि मया टिप्पनकं पाटितम्, तथाप्याचार्यैः पुनरपि प्रेषितम्, अत्र कारणेन केनापि भवितव्यम् । तत् प्रच्छन्नं परिभावयाम्येकान्ते किं तत्र लिखितमास्ते(मस्ति)' । ततो यदा श्रावका: टिप्पनकं स्थापनाचार्यालये मुक्त्वा द्वारं स्थगयित्वा गतास्तदा स्वगृहादुपरि चा( वा )टकेन प्रविश्य बहिद्वारे स्थगितेऽपि टिप्पनकं गृहीतं वाचयितुं च प्रवृत्तः । ततो यथा यथा
" जहि उस्सुत्तजणक्कमु कु वि किर लोयणिहि
करितउ नवि दीसइ सुविहिपलोयणिहि । निसि न हाणु न पइट्ट न [ साहुहि ] साहुणिहि निसि जुवइहिं पवेसु न नटु विलासिणिहि ।। [ का. १६ । बलि अत्थमियइ दिणयरि जहि नवि जिणपुरओ दीसइ धरिउ न सुत्तइ जहि जणि तूररओ। [ का. १८ ] जहि रयणिहि रहममणु कयाइ न कारियइ लउडारसु जहि पुरिसु वि दितउ वारियइ || [ का. १९ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org