________________
५१
जहि सावय तंबोलु न भक्खहि लिति न य जहि पाणहिय धरिति न सावय सुद्धनय ।
जहि भोय नवि सणु न अणुचिउ बइसणउ
सहु पहरणि न पवेसु न दुट्ठउ बुल्लणउ ॥ [ का. २१ ] हा वि हुड [ न खिड्ड ] न रूसणउ
किति [ निमित्त न दिज्जह जहि धणु अप्पणउ ।
करहि जि बहु आसायण जहि ति न मेलियहि
मिलिय ति केलि करिंति समाणु महेलियहि ॥ [ का. २२] इत्यादि ।
तदर्थमवधारयति तथा तथा मनसि प्रमोद उत्पद्यते । अहो ! अत्यन्तं शोभनो जिनभवनविधिः । एतदनुसारेण स्थालीपुलाकन्यायेनान्यदपि सर्वे शोभनं सम्भाव्यते । अतोऽत्र मार्गे मया प्रतिपत्तिः कर्तव्या, ' केवलं बिम्बमनायतनं स्त्रीः पूजां न करोति एतत् सन्देहद्वयं प्रच्छनीयमस्ति' इति विचिन्त्य टिप्पनकं तथैव धृत्वा सन्मार्गविहितचेताः स्वगृहमागतो देवधरः ।
Jain Education International
इतश्च वागडदेशे स्थितैः श्रीपूज्यैरपि ये धारायां प्रेषिता आसंस्ते सर्वेऽप्यानायिताः सिद्धान्तं श्राविताः । ततः स्वदीक्षितो जीवदेवनामाऽऽचार्यशिष्यादिभ्यः पदे संस्थापितः। तथा दश वाचनाऽऽचार्याः कृतास्तद्यथा वा ० पं० पद-प्रदानम् जिनंरक्षितः १, वा० पं० शीलभद्रगणिः २, वा० पं० स्थिरचन्द्रगणिः ३, वा० पं० ब्रह्मचन्द्रगणिः ४, वा० पं० विमलचन्द्रगणिः ९, वा० वरदत्तगणिः ६, वा० भुवनचन्द्रगणिः ७, वा० वरणागगणिः ८, वा० रामचन्द्रगणिः ९, वा० माणिभद्रगणिश्चेति १० दश ।
तथां पञ्च महत्तराः कृतास्तथाहि - श्रीमतिमहत्तरा १, जिनमतिमहत्तरा २, पूर्णश्रीमहत्तरा ३, जिनश्रीमहत्तरा ४, ज्ञानश्रीमहत्तरा ५ [चेति] ।
तथा हरािसंहाचार्याणां शिष्यो मुनिचन्द्राभिध उपाध्याय आसीत्, तेन च जिनदत्तसूरिः प्रार्थितोऽभूद्– 'यदि कश्चिन्मदीयशिष्यो योग्यो भवतां समीपे समागच्छति तदा तस्याचार्यपदं दातव्यमेव' इति प्रतिपन्नं प्रभुभिः । ततस्तस्य मुनिचन्द्रोपाध्यायस्य शिष्यो जयसिंहनामा मुनीन्द्रपदे निवेशितः । तस्यापि शिष्यो जयचन्द्रनामा पत्तने समवसरणे सूरिपदे स्थापितः। द्वयोरप्यग्रे भणितं यथा 'युष्माभिरस्मदुक्तरीत्या प्रवर्तितव्यमिति' ।
१ परि० ४ पृ. ११२ प्रान्ते द्रष्टव्यम् ।
For Private & Personal Use Only
www.jainelibrary.org