________________
एवं पदस्थान् कृत्वा ते[षां] शिक्षा दत्त्वा सर्वेषां विहारादिस्थानानि भणित्वा स्वयम
जयमेरौ विहृताः श्रीपूज्याः । तत्र च श्रावकैश्चैत्यगृहत्रयाम्बिकाऽऽदिअजयमेरौ चैत्यरात्रय प्रतिधा स्थानानि पर्वतप्रगुणीकृतानि सन्ति । ततः श्रीजिनदत्तसूरिभिः
शोभनलग्ने मूलनिवेशे जिनमन्दिरेषु प्रचिक्षिपिरे वासाः । ततः शिखरादिनिवेशं कारयामासुः श्रावकाः ।
इतश्च श्रीविक्रमपुरे सण्हियापुत्रदेवधरेण श्रीजिनदत्तसूरिप्रेषितचच्च(च)रीटिप्पनकचर्चरी प्रभाव दर्शनोन्मीलितसद्दर्शनकारिविधिबोधेन पञ्चदशस्वकुटुम्बश्रावकसमुदाय विक्रमपुरे विहारः कृत्वा स्वजनकश्रे० आसदेवादयो भणिताः श्रावका:-भोः ! मयाऽत्र श्रीजिनदत्तसूरयो विहारं कारयितव्याः' । तस्य चाने कोऽपि किमपि भाणतुं न शक्नोति । श्राद्धसमुदायेन निर्गतो नागपुरे सम्प्राप्तः । तदानीं च तत्र देवाचार्यो विशेषेण प्रसिद्धिपात्रं वर्तते । देवधरोऽपि विक्रमपुरादाग(दग्रोतः प्रसिद्धोऽस्ति जातः श्रुतस्तेन । पश्चाद् देवगहे व्याख्यानप्रस्तावे देवाचार्य उपविष्ट आस्ते। देवधरोऽपि पादप्रक्षालनादिशौचं कृत्वा देवगहं गतः। देववन्दनादि कृत्वा वन्दितो देवाचार्यः,तेनापिपृष्टा क्षेमवार्ता । ततः प्रथमत एव देवधरेण पृष्ट आचार्यः-'भगवन् ! [देवगृहे ] रात्रौ स्त्रीप्रवेश-प्रतिष्ठा-बलिविधाननन्द्यादिकंयुज्यते नवा ?' । तच्छृत्वा देवाचार्यश्चिन्तयति-'निश्चितं कथंचिजिनदत्ताचार्य मन्त्रोऽस्यकर्णे प्रविष्टोऽतस्तद्वासित इव लक्ष्यते' इति विचिन्त्योक्तम्-"श्रावक ! रात्रिस्त्रीप्रवेशादिकं सङ्गतं न भवति । देवधरः--तर्हि किं न वार्यते । आचार्य:--लक्षसङ्ख्यलोकानां मध्ये को वार्यते ? । देवधरः--भगवन् ! यत्र देवगृहे जिनाज्ञा न प्रवर्तते, किं तर्हि जिनाज्ञानिरपेक्षः स्वेच्छया जनो वर्तते तजिनगृहं [जन गृहं वा प्रोच्यते ? इति प्रतिपादयध्वं यूयम् । आचार्य:--यत्र साक्षाजिनोऽन्तर्निविष्टो दृश्यते, तत् कथं जिनमन्दिरं नोच्यते । देवधरः--आचार्य ! वयं तावन्मूर्खाः परमेतद् वयमपि जानीमो यदुत यत्र यस्याज्ञा न वर्तते, तद् गृहं तदीयं नोच्यते । एवं च पाषाणरूपार्हद्विम्बमात्रान्तनिवेशनेन भगवदाज्ञापरिहारेण स्वेच्छया व्यवहारे कथं नाम तजिनमन्दिरमुच्यते ? परमेवं जानाना अपि यूयं प्रवाहमार्ग न निवारयध्वे, प्रत्युत पोषयध्वे तदेते वन्दिता अनुज्ञापिताश्च मया यूयम्----'यत्र तीर्थकराज्ञा प्रवर्तते, स मार्गो मयाऽभ्युपेतव्यः' इत्यभिधायोत्थितो देवधरः । सहानीतस्वकुटुम्बरूपश्रावकाणां जातं स्थिरीकरणं विधिमार्गविषये । प्राप्तः श्रावकसमुदायसहितोऽजयमेरौ । वन्दिता भावसारं श्रीजिनदत्तसूरयः । तदभिप्रायावगमपूर्वकं कृता पूज्यैर्देशना जातोऽसौ निःसन्देहः । अभ्यर्थिताः प्रभवः श्रीविक्रमपुरविहारं प्रति । ततो विस्तरेण तत्र देवगृह-बिम्बाम्बिका-गणधरादिप्रतिष्ठां विधाय समागता देवधरेण सह श्रीविक्रमपुरे । प्रबोधितस्तत्रत्यो जनो बहुः । स्थापिता श्रीमहावीरप्रतिमा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org