________________
तैरुक्तम्-' त्वदीयस्थाने पाषाणो धृतः । सोमचन्द्रेणोक्तम्-" कश्चित् पाषाणः कश्चिन्नेत्यधुनैव ज्ञास्यते, यावती च पञ्जिका भणिता, तावती मां पृच्छन्वेतानपि; यथार्थ यो न व्याख्यास्यति स एव पाषाणः" । आचार्येणोक्तम्-' भोः सोमचन्द्र ! त्वां प्रज्ञाऽऽदिसौरभगुणाढ्यं कस्तूरिकां जानाम्येव, परमेतैर्मूखैः प्रेरितोऽहं व्याख्यानेऽतः क्षन्तव्यं भवता । एवं पञ्जिका स पपाठ ।
अंशोकचन्द्राचार्येणोपस्थापना कृता । हरिसिंहाचार्येण सर्वसिद्धान्तवाचना दत्ता पण्डितसोमचन्द्राय तथा मन्त्रपुस्तिका । यया सिद्धान्तवाचना स्वयं गृहीता सा कपलिका च भगवता तुष्टेन दत्ता । तथा देवभद्राचार्येणापि तुष्टेन काष्टोत्किरणं दत्तम्, येन महावीरचरित-पार्श्वचरितादीनि चत्वारि कथाशास्त्राणि पट्टिकायां लिखितानि । एवं च पण्डितसोमचन्द्रगाणिर्ज्ञानी[ ध्यानी ]सैद्धान्तिकः सर्वजनमनोहारी श्रावकाणामानन्दकारी साध्वाचारेण प्रामानुग्राम विहरति । इतश्च [श्रीदेवभद्राचार्यैः श्रुतं जिनवल्लभसूरीणां देवलोकगमनम्। चिन्ता समु
त्पन्नाऽतीव चित्तसन्तापो जातोऽहो ! सुगुरूणां पदमुद्योतितमजिनवल्लभ
- भूत, परं विघटितम् । पश्चाद् ] देवभद्राचार्याणामीदृशं चित्तं जातं पदे प्रतिष्ठा
___ यदि श्रीजिनवल्लभसूरि-युगप्रधानपदं योग्यपदस्थापनेन नोद्भियते, तदा का भक्तिः । ततश्चिन्तितमाचार्यैरस्मिन् गच्छे कस्तत्पदयोग्य इति चिन्तयतां चित्ते पण्डितसोमचन्द्रगणिर्लग्नः । निश्चितमेष एव योग्यः श्रावकाणां ज्ञान-ध्यान-क्रियापरत्वेनानन्दकारी । पश्चात् सर्वसम्मते पण्डितसोमचन्द्राय लेखः प्रदत्तो यत् त्वया चित्रकूटे
१ गणधरसार्धशतके (गा. ७७,७९,८१-८४,१४८) द्रष्टव्यम् । अशोकचन्द्राचार्यस्य शिष्येणोदयचन्द्रगणिना वि० सं० ११५४ वर्षे लेखितं ताडपत्रीयमोघयुिर्नक्तिसूत्रं विद्यतेऽद्यापि पत्तनीयजैनभाण्डागारे । तत्रस्थश्चायमुल्लेख:
"संवत् ११५४ वर्षे वैशाखशुक्लप्रतिपदायां रविदिने श्रीअशोकचंद्राचार्यशिष्यण उदयचंद्रगणिना जिनभद्रलेखकहस्ताद् विमलचंद्रगणिहस्ताच्च ओपनियुक्तिसूत्रं लेखितं ॥" P. P. ५,२९. ___ अनेनैवाशोकचन्द्राचार्येण प्रसन्नचन्द्र-हरिसिंह-देवभद्रादयः सूरिपदे प्रतिष्ठिता आसन् । यन्मध्याद् देवभद्रसूसिर्जनवल्लभ-जिनदत्तयोः सूरिपदप्रदाता बभूव । यदुक्तम्
तेभ्यः श्रीदेवभद्रसूरिभ्यः सूरिपदं आचार्यपदं दत्तं वितीर्ण कैरित्याह-अशोकवन्द्रसूरिभिः श्रीजिनचन्द्रसूरिप्रसादीकृताचार्यपदैः। तथा चैमिरेव प्रकरणकारिप्रभुभिर्विशिकायामभ्यधायि यथा" अभिषेकवरसहोदरसहदेवगणेस्ततोऽभवच्छिष्यः । रिस्त्वशोकचन्द्रो जिनचन्द्राचार्यप्राप्तपदः ॥"
उक्तं च तत्रैव तैरेव यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org