________________
४२
बाल्ये प्रतिभा
भणित उपाध्यायैः सर्वदेवगणिस्त्वया [ कियद्वर्षाणि ] प्रतिपाल्य एषः, सर्व बहिर्भूमिनयनादिकं कार्यमस्य क्रियाकलापश्च शिक्षणीय इति । सूत्रादिपाठस्तेन पूर्व स्वगृहस्थितेनैव कृतोऽस्ति । ' करेमि भंते ! सामाइयं' इत्यादि पाठ्यते । प्रथमत्रतदिन एवासौ सोमचन्द्रमुनिनतोऽस्ति बहिर्भूमौ सर्वदेवगणिना । [ अज्ञानत्वादुद्गतक्षेत्राणि तेन त्रोटितानि । ततः शिक्षानिमित्तं रजोहरणं मुखवस्त्रिका च गृहीता सर्वदेवगणिना ] भणितश्च व्रते गृहीते किं क्षेत्राणि त्रोव्यन्ते ? तद् गच्छ स्वगृहम् । ततस्तदैवोत्पन्नप्रतिभेन तेनोक्तम्- “ युक्तं कृतं गणिना, परं मम चोटिकाऽऽसीत् तां दापय येन गच्छामि' इत्युक्ते गणेराश्चर्यमभूदहो ! लघोरपि कीदृक् सदुत्तरत्वमेतस्य ? किं सम्प्रति प्रतिवचनं दीयते ? । एषा वार्ता धर्मदेवोपाध्यायस्याग्रे जाता | धर्मदेवोपाध्यायैश्चिन्तितम् -' भविष्यति योग्य एषः ' ।
सर्वत्र पत्तने परिभ्रम्य लक्षण - पञ्जिकाऽऽदिशास्त्राणि भणितुमारब्धः सोमचन्द्रः । एवं च भावडाचार्य - धर्मशालायां पञ्जिकाभणनार्थमेकदा गच्छविद्याध्ययनम् नुद्धतेन केनापि प्रतिपादितो यथा' हो सितपटाः ! कपलिकाग्रहणं किमर्थम् ?' । सोमचन्द्रेणोक्तम् – “ त्वदीयमुखचूरणार्थमात्मीयमुख मण्डनार्थं च । गतोऽसौ निरुत्तरो न किमपि वक्तुं शकितः ।
""
भणनस्थाने गतस्तत्रानेकेऽधिकारिपुत्राः पञ्जिकां भणन्ति । कदाचित् तेनाचा - र्येण परीक्षार्थं पृष्ट:-'भोः सोमचन्द्र ! न विद्यते वकारो यत्र स नवकार इति यथार्थं नाम ?' । प्रतिभावता प्रोक्तं झटिति सोमचन्द्रेण - “ मैवमावेदयन्त्वाचार्याः, किं तर्हि नवकरणं नवकार इति व्युत्पत्तिः कार्या ” । आचार्येण ज्ञातम् -' अहो ! अत्यन्तं सदुत्तर एषः, अनेन सह वक्तुं न शक्यते ' ।
अन्यदा लोचदिने व्याख्यानभणनाय न गतः । व्याख्याने व्यवस्था चेदृशी यद्येकोऽपि च्छात्रो नागच्छति, तदा व्याख्यानं न भणत्याचार्य इति । ततो व्याख्यानमभणत्याचार्ये सगर्वैर्भणितमधिकारिपुत्रैः - ' आचार्यमिश्राः ! सोमचन्द्रस्य स्थाने एष पाषाणो धृतो भणत यूयं व्याख्यानम् ' । ततस्तदुपरोधेन भणितं व्याख्यानम् । द्वितीयदिने समागतः सोमचन्द्रः पप्रच्छ च्छात्रान् -' व्यतीतेऽह्नि किं मां विना भणितं युष्माभिः ? ' ।
१ अद्यापि यस्य सर्वदेवगणेः स्तम्भतीर्थवेला कूल निकटवर्ति - शाखिस्थलग्रामक्षेत्र भुवि स्तूपो मिथ्यादृष्टिभिरपि सप्रभावत्वेन रक्ष्यमाणः पूज्यमानो विद्यते । '
—गणधरसार्धशतक ( गा. ८ ० ) बृहद्वृत्तौ सुमतिगणिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org