________________
४१
वाचनात्पुसनोल्लसितयुगप्रधानपदवीविभ्राजिविराजिराजहंसिकाऽऽसिकाबन्धनिर्बन्धस्थानचरणचङ्क्रमणरमणप्रधानमानसः परिहृतपरिग्रहो (हा) ग्रहमात्रातपदूत(?त्यद्भुत) चित्रचारित्रसम्पदु (?) रिर्भगवान् श्रीजिनदत्तमूरिभूरिभव्यनन्यतरश्रद्धालुता [ छता ]वितानतानवोच्छेददक्ष निर्विपक्षविवेकविमलजलसेकप्रख्यं गणधरसार्धशतकाभिख्यं प्रकरणं चिकीर्षुः + + + —गणधरसार्धशतकबृहद्वृत्तौ ( प्रारम्भे ) |
"3
प्रस्तुत जिनदत्तसूरिप्रशिष्यजिनपतिसूरिशिष्येण सुमतिगणिना जिनदत्तसूरिस्वर्गमनादनन्तरं चतुरशीतितमे वि. सं. १२९५ वर्षे समर्थितायां जिनदत्तसूरीयगण - धरसार्धशतकस्य बृहद्वृत्तावित्यमुदलेखि जिनदत्तसूरि-चरितम् -
66
“ अधुना पूर्वाचार्याम्नायप्रतिपादनप्रसङ्गादद्भुतनिधानानां श्रीजिनदत्तसूरीणामेतत्प्रकरणकाराणां यथाश्रुति [ यथास्मृति ] किञ्चिच्चरितमुत्की - जन्म दीक्षाss द र्त्यते । तथाहि किल पूर्व श्रीजिनेश्वरसूरिसत्कश्रीधर्मदेवोपाध्यायस्य संयताभिर्गीतार्थाभिर्धवलकके चतुर्मासी कृताऽऽसीत् । तत्र च क्षपणकभक्तवाच्छिगश्रावकपत्नी बाहडदेवीति नाम्ना पुत्रसहिता तासां साध्वीनां पार्श्वे धर्म श्रोतुं समागच्छति । ता अपि तस्या विशेषेण धर्मकथाऽऽदिकं कथयन्ति । पुरुलक्षणं शुभाशुभं च ता गुरूपदेशाद् विदन्ति, तस्याः पुत्रस्य प्रधानलक्षणानि पश्यन्ति, तल्लाभनिमित्तं च तन्मातरं बह्वाक्षिपन्ति । किं बहुना : तथाऽऽक्षिप्ता यथा [ सा ] कथितकारिणी जाता । ततो भणिताऽऽर्यिकाभिर्धर्मशीले ! एष त्वदीयः पुत्रो विशिष्टयुग प्रधानलक्षणवरस्तदेनं यद्यस्मद्गुरूणां प्रयच्छसि तदा तव महान् धर्मो भवति, किञ्चैष समस्तजगन्मुकुटभूतो भवति । तयाऽपि [ तत् ] प्रतिपन्नम् । ततश्चतुर्मास्यनन्तरं श्रीधर्मदेवोपाध्यायानां स्वरूपं कथितं यदस्माभिरत्र पात्र ( रत्न ) मेकं प्राप्तमस्ति, यदि युष्माकं प्रतिभास्यति । ततः शीघ्रं समागताः [ श्री ] धर्मदेवोपाध्यायाः । दृष्टश्चासौ ज्ञातं च निश्चितं न सामान्यपुरुष एषः, किं तर्हि गुरुतरपदयोग्यो भविष्यति । तन्माता पृष्टा ' तब सम्मतं यद्येष दीक्ष्यते ? ' । तयोक्तं पुण्यपात्रया - ' भगवन् (न्तः) ! प्रसादं कृत्वा कुरुतैवं येन ममापि निस्तारो भवति ' । पुनः पृष्टोपाध्यायै:-' कियद्वर्षप्रमाणोऽयम् ? ' । तयोक्तम् -' एकादशशतद्वात्रिंशत्संवत्सरे ११३२ जातः' इति । तत एकादशशतैकचत्वारिंशत्संवत्सरे ११४१ शुभलग्ने तस्योपाध्यायैदक्षा प्रदत्ता नाम च कृतं सोमचन्द्र इति ।
१ गणधरसार्धशतके (गा. ७८, १४८ ) द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org