Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 46
________________ ४१ वाचनात्पुसनोल्लसितयुगप्रधानपदवीविभ्राजिविराजिराजहंसिकाऽऽसिकाबन्धनिर्बन्धस्थानचरणचङ्क्रमणरमणप्रधानमानसः परिहृतपरिग्रहो (हा) ग्रहमात्रातपदूत(?त्यद्भुत) चित्रचारित्रसम्पदु (?) रिर्भगवान् श्रीजिनदत्तमूरिभूरिभव्यनन्यतरश्रद्धालुता [ छता ]वितानतानवोच्छेददक्ष निर्विपक्षविवेकविमलजलसेकप्रख्यं गणधरसार्धशतकाभिख्यं प्रकरणं चिकीर्षुः + + + —गणधरसार्धशतकबृहद्वृत्तौ ( प्रारम्भे ) | "3 प्रस्तुत जिनदत्तसूरिप्रशिष्यजिनपतिसूरिशिष्येण सुमतिगणिना जिनदत्तसूरिस्वर्गमनादनन्तरं चतुरशीतितमे वि. सं. १२९५ वर्षे समर्थितायां जिनदत्तसूरीयगण - धरसार्धशतकस्य बृहद्वृत्तावित्यमुदलेखि जिनदत्तसूरि-चरितम् - 66 “ अधुना पूर्वाचार्याम्नायप्रतिपादनप्रसङ्गादद्भुतनिधानानां श्रीजिनदत्तसूरीणामेतत्प्रकरणकाराणां यथाश्रुति [ यथास्मृति ] किञ्चिच्चरितमुत्की - जन्म दीक्षाss द र्त्यते । तथाहि किल पूर्व श्रीजिनेश्वरसूरिसत्कश्रीधर्मदेवोपाध्यायस्य संयताभिर्गीतार्थाभिर्धवलकके चतुर्मासी कृताऽऽसीत् । तत्र च क्षपणकभक्तवाच्छिगश्रावकपत्नी बाहडदेवीति नाम्ना पुत्रसहिता तासां साध्वीनां पार्श्वे धर्म श्रोतुं समागच्छति । ता अपि तस्या विशेषेण धर्मकथाऽऽदिकं कथयन्ति । पुरुलक्षणं शुभाशुभं च ता गुरूपदेशाद् विदन्ति, तस्याः पुत्रस्य प्रधानलक्षणानि पश्यन्ति, तल्लाभनिमित्तं च तन्मातरं बह्वाक्षिपन्ति । किं बहुना : तथाऽऽक्षिप्ता यथा [ सा ] कथितकारिणी जाता । ततो भणिताऽऽर्यिकाभिर्धर्मशीले ! एष त्वदीयः पुत्रो विशिष्टयुग प्रधानलक्षणवरस्तदेनं यद्यस्मद्गुरूणां प्रयच्छसि तदा तव महान् धर्मो भवति, किञ्चैष समस्तजगन्मुकुटभूतो भवति । तयाऽपि [ तत् ] प्रतिपन्नम् । ततश्चतुर्मास्यनन्तरं श्रीधर्मदेवोपाध्यायानां स्वरूपं कथितं यदस्माभिरत्र पात्र ( रत्न ) मेकं प्राप्तमस्ति, यदि युष्माकं प्रतिभास्यति । ततः शीघ्रं समागताः [ श्री ] धर्मदेवोपाध्यायाः । दृष्टश्चासौ ज्ञातं च निश्चितं न सामान्यपुरुष एषः, किं तर्हि गुरुतरपदयोग्यो भविष्यति । तन्माता पृष्टा ' तब सम्मतं यद्येष दीक्ष्यते ? ' । तयोक्तं पुण्यपात्रया - ' भगवन् (न्तः) ! प्रसादं कृत्वा कुरुतैवं येन ममापि निस्तारो भवति ' । पुनः पृष्टोपाध्यायै:-' कियद्वर्षप्रमाणोऽयम् ? ' । तयोक्तम् -' एकादशशतद्वात्रिंशत्संवत्सरे ११३२ जातः' इति । तत एकादशशतैकचत्वारिंशत्संवत्सरे ११४१ शुभलग्ने तस्योपाध्यायैदक्षा प्रदत्ता नाम च कृतं सोमचन्द्र इति । १ गणधरसार्धशतके (गा. ७८, १४८ ) द्रष्टव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248