Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 34
________________ त्रितयमन[शन] विधाय सप्तषष्ट्युत्तरैकादशश[त]संवत्सरे ११६७ कार्तिककृष्णद्वादश्यां रजनीचरमयामे पञ्चपरमेष्ठिपरावर्तनं कुर्वन्तः श्रीजिनवल्लभमूरयो महात्मानश्चतुर्थदेवलोकं सम्प्राप्ताः। परमद्यापि येषां भगवतामवदातचरितनिधीनां श्रीमरुकोट्टसप्तवर्षप्रमितकृतनि . वासपरिशीलितसमस्तागमानां समग्रगच्छाढतमूक्ष्मार्थसिद्धान्तग्रन्थरचनाऽऽदि सद विचारसारषडशीति-सार्धशतकारव्यकमम्रन्थ- *पिण्डविशुद्धि-*पौषर्धेविधि- प्रतिक्रमणसामाचारी-सडेपट्टक-*धर्मशिक्षा-*द्वादश १ षडशीतेरपरनामागमिकवस्तुविचारसार इति दृश्यते, तच्चात्र सूक्ष्मार्थसिद्धान्तविचारसारविशेषणेन विशेषितं सम्भाव्यते । एतच्च भावनगरस्थयाऽऽत्मानन्दसभया बृहद्गच्छीयहरिभद्रसूरि-मलयगिरिविरचितवृत्तिद्वयसमन्वितं प्राकाशि । एतदुपरि भाष्यद्वयं श्रूयते, मूलग्रन्थकारजिनवल्लभसूरिशिष्यरामदेवगणिविरचितं प्राकृतविवरणं ( जे. भां. सूची पृ. ४६ ) यशोभद्रसूरिरचिता वृत्तिश्चोपलभ्यते । मेरुवाचककृतं विवरणं तथोद्धारावचूर्यादिकमप्यन्यत्र पठ्यते। २ सार्धशतकस्यापरनाम सूक्ष्मार्थविचारसारेति पठ्यते । धनेश्वरसूरिरचितवृत्त्या सहितमेतद् भावनगरस्थया जैनधर्मप्रसारकसभया प्रसिद्धिमापितम् । एतदुपरि भाष्यं तथा वि. सं. ११७० वर्षे मुनिचन्द्रसूरिविरचिता चूर्णिश्च ज्ञायते । चक्रेश्वरसूरि (?)-रामदेवगणिविहितं प्राकृतविवरण तथा च टिप्पनमपि श्रूयते। ३ वि. सं. ११७६ वर्षे यशोदेवसूरिणेतस्य विवरणं व्यधायि, बृहट्टिपनिका-जैनग्रन्थावल्यादौ वि. सं. ११८० वर्षे श्रीचन्द्रसूरिकृता सूचितैतदीया वृत्तियशोदेवसूरिविवरणात् पृथग् न प्रतीयते । तथा वि. सं. १२९५ वर्षे उदयसिंहसूरिणा दीपिका तथा च तपागच्छीयसंवेगदेवगणिना विक्रमीयषोडशशताब्दीपूर्वार्धे बालावबोधो व्यरचि ( पत्तनीयभां. सूची द्रष्टव्या ) एतदतिरिक्तावचूरिपञ्जिकाऽऽद्यप्यन्यत्र श्रूयते ।। विक्रमीयसप्तदशशताब्युत्तरार्धे पं. शुभविजयगणिसंगृहीते श्रीविजयसेनसूरिप्रसादीकृते प्रश्नोत्तररत्नाकरे उपाध्यायसोमविजयगणिकृतप्रश्नोत्तरे निम्नोल्लिखितं पठ्यते-- "पिण्डविशदिविधाता जिन वलभगणिः खरतरोऽन्यो वा? इति प्रश्नः । अत्रो. सरम्--जिनवल्लभगणेः खरतरगच्छसम्बन्धित्वं न सम्भाव्यते, यतस्तत्कृते पौषधविधिप्र. करणे श्राद्धानां पौषधमध्ये जेमनाक्षरदर्शनात् कल्याणकस्तोत्रे च श्रीवीरस्य पञ्चकल्याणकप्रतिपादनाच्च तस्य सामाचारी भिन्ना खरतराणां च भिन्नति ॥" -प्रश्नोत्तररत्नाकरे सेनप्रश्ने (दे. ला. प्रकाशिते प. ४) किन्त्वेतत् सुदीर्घदृष्ट्या चिन्तने न समीचीनं प्रतिभाति । ४ एतदाधारेण निर्मितमेकं संक्षिप्तमपि पौषधविधानमुपलभ्यते-- "गुरुजिणवल्लहविरइयपोसहविहिपयरणाउ संखेवा । ढंसियमेय विहाणं विसेस उ पण तओ नेयं ॥"--पत्तनीयभा० सूची। तथा वि. सं. १६१७ वर्षे जिनचन्द्रसूरिणाऽस्य वृत्तिय॑रचीति जैनग्रन्थावल्यादौ सूचितम् । ५ जिनपतिसूरिविरचितबृहद्वत्तिसमन्वितोऽयं 'श्रावकजेठालाल दलसुख' इत्यनेन प्रकाशितः। वि. सं. १३३३ वर्षे लक्ष्मीसेनेन विरचिताऽस्य लघुवृत्तिरसुचि जैनग्रन्थावल्याम् । हर्षराजोपाध्यायविहिताऽस्य लघुवृत्तिः, वि. सं. १६१९ वर्षे साधुकीर्तिगणिरचिताऽवचूरिश्चोपलभ्यते । ६ एतदुपरि सकलचन्द्रकृता वृत्ति नग्रन्थावल्यां समसूचि । * एतादृचिह्नाङ्किता ग्रन्था यावज्ज्ञातमद्यावधि मुद्रणादिद्वाराऽप्रसिद्धाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248