________________
त्रितयमन[शन] विधाय सप्तषष्ट्युत्तरैकादशश[त]संवत्सरे ११६७ कार्तिककृष्णद्वादश्यां रजनीचरमयामे पञ्चपरमेष्ठिपरावर्तनं कुर्वन्तः श्रीजिनवल्लभमूरयो महात्मानश्चतुर्थदेवलोकं सम्प्राप्ताः। परमद्यापि येषां भगवतामवदातचरितनिधीनां श्रीमरुकोट्टसप्तवर्षप्रमितकृतनि
. वासपरिशीलितसमस्तागमानां समग्रगच्छाढतमूक्ष्मार्थसिद्धान्तग्रन्थरचनाऽऽदि
सद विचारसारषडशीति-सार्धशतकारव्यकमम्रन्थ- *पिण्डविशुद्धि-*पौषर्धेविधि- प्रतिक्रमणसामाचारी-सडेपट्टक-*धर्मशिक्षा-*द्वादश
१ षडशीतेरपरनामागमिकवस्तुविचारसार इति दृश्यते, तच्चात्र सूक्ष्मार्थसिद्धान्तविचारसारविशेषणेन विशेषितं सम्भाव्यते । एतच्च भावनगरस्थयाऽऽत्मानन्दसभया बृहद्गच्छीयहरिभद्रसूरि-मलयगिरिविरचितवृत्तिद्वयसमन्वितं प्राकाशि । एतदुपरि भाष्यद्वयं श्रूयते, मूलग्रन्थकारजिनवल्लभसूरिशिष्यरामदेवगणिविरचितं प्राकृतविवरणं ( जे. भां. सूची पृ. ४६ ) यशोभद्रसूरिरचिता वृत्तिश्चोपलभ्यते । मेरुवाचककृतं विवरणं तथोद्धारावचूर्यादिकमप्यन्यत्र पठ्यते।
२ सार्धशतकस्यापरनाम सूक्ष्मार्थविचारसारेति पठ्यते । धनेश्वरसूरिरचितवृत्त्या सहितमेतद् भावनगरस्थया जैनधर्मप्रसारकसभया प्रसिद्धिमापितम् । एतदुपरि भाष्यं तथा वि. सं. ११७० वर्षे मुनिचन्द्रसूरिविरचिता चूर्णिश्च ज्ञायते । चक्रेश्वरसूरि (?)-रामदेवगणिविहितं प्राकृतविवरण तथा च टिप्पनमपि श्रूयते।
३ वि. सं. ११७६ वर्षे यशोदेवसूरिणेतस्य विवरणं व्यधायि, बृहट्टिपनिका-जैनग्रन्थावल्यादौ वि. सं. ११८० वर्षे श्रीचन्द्रसूरिकृता सूचितैतदीया वृत्तियशोदेवसूरिविवरणात् पृथग् न प्रतीयते । तथा वि. सं. १२९५ वर्षे उदयसिंहसूरिणा दीपिका तथा च तपागच्छीयसंवेगदेवगणिना विक्रमीयषोडशशताब्दीपूर्वार्धे बालावबोधो व्यरचि ( पत्तनीयभां. सूची द्रष्टव्या ) एतदतिरिक्तावचूरिपञ्जिकाऽऽद्यप्यन्यत्र श्रूयते ।।
विक्रमीयसप्तदशशताब्युत्तरार्धे पं. शुभविजयगणिसंगृहीते श्रीविजयसेनसूरिप्रसादीकृते प्रश्नोत्तररत्नाकरे उपाध्यायसोमविजयगणिकृतप्रश्नोत्तरे निम्नोल्लिखितं पठ्यते--
"पिण्डविशदिविधाता जिन वलभगणिः खरतरोऽन्यो वा? इति प्रश्नः । अत्रो. सरम्--जिनवल्लभगणेः खरतरगच्छसम्बन्धित्वं न सम्भाव्यते, यतस्तत्कृते पौषधविधिप्र. करणे श्राद्धानां पौषधमध्ये जेमनाक्षरदर्शनात् कल्याणकस्तोत्रे च श्रीवीरस्य पञ्चकल्याणकप्रतिपादनाच्च तस्य सामाचारी भिन्ना खरतराणां च भिन्नति ॥"
-प्रश्नोत्तररत्नाकरे सेनप्रश्ने (दे. ला. प्रकाशिते प. ४) किन्त्वेतत् सुदीर्घदृष्ट्या चिन्तने न समीचीनं प्रतिभाति । ४ एतदाधारेण निर्मितमेकं संक्षिप्तमपि पौषधविधानमुपलभ्यते-- "गुरुजिणवल्लहविरइयपोसहविहिपयरणाउ संखेवा । ढंसियमेय विहाणं विसेस उ पण तओ नेयं ॥"--पत्तनीयभा० सूची। तथा वि. सं. १६१७ वर्षे जिनचन्द्रसूरिणाऽस्य वृत्तिय॑रचीति जैनग्रन्थावल्यादौ सूचितम् ।
५ जिनपतिसूरिविरचितबृहद्वत्तिसमन्वितोऽयं 'श्रावकजेठालाल दलसुख' इत्यनेन प्रकाशितः। वि. सं. १३३३ वर्षे लक्ष्मीसेनेन विरचिताऽस्य लघुवृत्तिरसुचि जैनग्रन्थावल्याम् । हर्षराजोपाध्यायविहिताऽस्य लघुवृत्तिः, वि. सं. १६१९ वर्षे साधुकीर्तिगणिरचिताऽवचूरिश्चोपलभ्यते ।
६ एतदुपरि सकलचन्द्रकृता वृत्ति नग्रन्थावल्यां समसूचि । * एतादृचिह्नाङ्किता ग्रन्था यावज्ज्ञातमद्यावधि मुद्रणादिद्वाराऽप्रसिद्धाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org