________________
३०
कुलकरूपप्रकरण--प्रश्नोत्तरशतके-*शृङ्गारशतक-*नानाप्रकारविचित्रचित्रकाव्यसार-शतसङ्ख्यस्तुतिस्तोत्रादिरूपकीर्तिपताका सकलं महीमण्डलं मण्डयन्ती विद्वज्जनमनांसि प्रमोदयति ॥"
चारित्रसिंहगणिना सुमतिगणिविनिर्मितगणधरसार्धशतकबृहद्वृत्तेरेव प्रोद्धृते गणधरसार्धशतकान्तर्गतप्रकरणे पूर्वोक्तमेव चरितं प्रतिपादितम् । श्रीजिनदत्तसूरीयगणधरसार्धशतकस्य सुमतिगणीयविवरणमुपजीव्य जिनेश्वरसूरिशिष्येण वाचकसर्वराजगणिना विरचितायां संक्षिप्तवृत्तावप्युपरि प्रदर्शितमेवेतिवृत्तमुपलभ्यते । वि. सं. १६२९ वर्षे धर्मसागरोपाध्यायेन विरचिते स्वोपज्ञवृत्तिसमन्विते प्रवचनपरीक्षापरनाम्नि कुपक्षकौशिकसहस्रकिरणे पूर्वप्रदर्शितमेव चरितमवतारितं विवादपूर्वमवमतं चावलोक्यते । संक्षिप्तरूपं प्रायोऽन्यत्र क्षमाकल्याणादिरचितखरतरगच्छपट्टावल्यादावपि दृश्यते ।
जिनवल्लभसूरेः पट्टधरं प्रस्तुतकाव्यत्रयीकर्तारं जिनदत्तसूरिं विहायान्ये के के
_ शिष्याः
शिष्याः समासन् ? तद्विषये विशेषतो न व्यज्ञायि, नवरं सत्तरि
(सप्तति) टिप्पन-जिनवल्लभीयवस्तुविचारसारप्राकृतविवरणकर्त रामदेवगणेस्तु परिचयो भवति जेसलमेरभां ० सूची(पृ. ४०, ४६, अप्रसिद्ध ० पृ. ३४) विलोकनेन । अपवर्गनाममालाकारो जिनभद्रसूरिरपि च तत्प्रान्ते निजं जिनवल्लभजिनदत्तसूरिसेवित्वं जिनप्रिय(वल्लभ )-विनेयत्वं चाभिज्ञापयति स्म ।
१ वि. स. १२९३ वर्षे जिनपालगणिना प्रणीताऽस्य विवृतिरुपरि प्रादर्शि ।
२ वि. सं. १४८३ वर्षे तपागच्छनायकसोमसुन्दरसूरिशिष्येण लेखितं सटीकमेतदुपलभ्यते। अवचूरिसहितं त्वेतद् म्हेसाणास्थयशोविजयजनपाठशालया प्रसिद्धि प्रापितम् । वि. स. १६४० वर्षे पाठकपण्यसागरेण विरचिततद्रत्तिश्चोपलभ्यते।
३ जिनवल्लभसूरिविरचितं ' उल्लासिकम' इत्यादि लव जितशान्तिस्तोत्रं वि. सं. १३२२ वर्षे धर्मतिलकमुनिरचितया विक्रमीयसप्तदशशताब्द्युत्तरार्ध च गुणविनयगणिगदितया वृत्त्योपेतमुपलभ्यते ।
जिनवल्लभसूरिविरचितं भावारिवारणादि वीरजिनस्तोत्रं वि. सं. १४८७ ( ? ) वर्षे जयसागरगणिप्रणीतवृत्तिसहितं ही. ह. पण्डितेन प्राकाशि ।
जिनवल्लभसूरिरचितं ' दुरियरयसमीर' इत्यादि वीरस्तोत्रं वि. सं. १६८७ ( ? ) वर्षे समयसुन्दरगणिनिर्मितवृत्तिसमन्वितं सूर्यपुर(सूरत)स्थजिनदत्तसूरिज्ञानभाण्डागारसंस्थया प्रकाशयाञ्चके
जिनवल्लभसूरिप्रणीतं नाभेय-शान्ति-नेमि-पार्श्व-वीरजिनचरितपञ्चकरूपं स्तोत्रपञ्चकै वि. सं. १५१९ वर्षे साधुसोमगणिविहितवृत्त्या समन्वितं सम्प्राप्यते ।
___ एतदतिरिक्तान्यन्यानि चतुर्विशतिजिनस्तुति-जिनविज्ञप्ति-वीरकल्याणकस्तोत्रादिस्तोत्राग्यपि यत्र कुत्रचिदुपलभ्यन्ते । स्वप्नाष्टकविचारनामा ग्रन्थो जिनपालोपाध्यायविहितभाष्यसहितो ज्ञायते (पत्तनीयभां० सूची) । अष्टसप्तत्यागमोद्धाराद्याऽन्याऽपि जिनवल्लभसूरिकृतिर्विज्ञायते जैनग्रन्थावल्यां जिनवल्लभसूरिनाम्नि निर्दिष्टाः पर्यन्तोपदेश-तीर्थकरस्थानप्रकरण-बृहत्संग्रहणीवृत्तिरत्नचूडकथाप्रभृतयो ग्रन्थास्तथैव वाऽन्यथेति न निश्चीयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org