________________
अन्यदा कदाचिच्चैत्यगृहे व्याख्यानं विधाय श्राद्धैः सह वसतौ समागच्छन्तः भाविकालज्ञानम्
- सन्ति । एतस्मिन् प्रस्तावे पुरुष एकोऽश्वारूढः स्त्रीभिगीयमानो
- बहुपरिवारः परिणयनाय गच्छन्नवलोकितः । ततः सविषादं श्रीजिनवल्लभगणिना संविग्नशिरोमणिना ज्ञानदिवाकरेणोक्तम्-अहो ! पश्यत कीदृशी क्षणदृष्टनष्टता संसारस्य येनैता याः स्त्रियो विकसितवदनकमला गायन्त्यो गच्छन्ति, ता एव वक्षःस्थलं ताडयन्त्यो महाऽऽक्रन्दं कुर्वन्त्योऽनेनैव पथा व्याधुटिष्यन्ते । गता वसतौ प्रभवः, स च परिणेता तत्र प्राप्तः सन् निःश्रेण्या चटितुमारब्धः, आरोहतश्च स्खलितः पादः पतितश्चासौ घरट्टोपरि । घरट्टकीलकेन च तस्योदरं द्विधा जातम् , मृतश्च । ततस्ताः स्त्रियस्तथाभूता आगच्छन्त्यस्तेनैव मार्गेण दृष्टाः श्राद्धसमुदायेन समस्तेनाहो ! परिज्ञानं सुगुरूणामिति गदितुं प्रवृत्तश्च सर्वः श्रावकलोकः । एवं श्रावकाणां धर्मपरिणाममुत्पाद्य पुनर्नागपुरे विहारं चक्रुः श्रीजिनवल्लभगणयः ।
अत्रान्तरे श्रीदेवभद्राचार्या विहारक्रमं कुर्वाणाः श्रीअणहिलपत्तने समायाताअभयदेवरिपदे स्तत्रागतैश्चिन्तितम्--' प्रसन्नचन्द्राचार्येण पर्यन्तसमये ममागे
सूरिपदम् भाणितं भवता जिनवल्लभगणिः श्रीअभयदेवसरिपदे निवेशनीयः । स च प्रस्तावोऽधुना वर्तते ।' ततः श्रीनागपुरे श्रीजिनवल्लभगणेविस्तरेण लेखः स्वः प्रेषितः-- त्वया शीघ्रं समुदायेन सह चित्रकूटे विहर्तव्यम्, येन वयमागत्य चिन्तितप्रयोजनं कुर्मः' । ततः समागताश्चित्रकूटे श्रीजिनवल्लभगणयः, तथा श्रीदेवभद्राचार्या अपि सपरिवाराः । पण्डितसोमचन्द्रोऽप्याकारितः, परं नागन्तुं शक्तोऽ भूत् । ततो महता विस्तरेण श्रीदेवभद्राचार्यैः श्रीअभयदेवमूरिपदे श्रीजिनवल्लभगणिः संस्थापितः । अनेको भव्यलोकः श्रीजिनवल्लभसूरीन् युगप्रधानश्रीमदभयदेवमरिपादभक्तान् समालोक्य मोक्षमार्गे प्रवृत्तः । देवभद्राचार्यादयस्तु पदस्थापनं कृत्वा कृतकृत्यमात्मानं मन्यमानाः श्रीअणहिल्लपाटकादिस्थानेषु विहारं चक्रिरे ।
श्रीजिनवल्लभसूरिभिस्तु स्वायुष्प्रमाणं गणितं यावत् षड्वर्षाण्यद्याप्यायुरस्ती
_ त्यागतम् । ततश्चिन्तितमेता[वता] कालेन प्रभूतभव्यलोकप्रतिबोधं स्वर्गवासः करिष्याम इत्येवं सुस्थितानां तेषां षण्मासातिक्रमेऽकस्माद् देहम[स्व]स्थं जातं ज्ञातम् । किमेतद्' यावत् पुनर्निपुणं निरूपयन्ति, तावदकोच्छिष्टं जा(ज्ञा, तम्। षण्मासानां स्थाने षड् वर्षाण्यागतानि, तत एतावदेवायुरिति निश्चित्य ते महासत्त्वाः समस्तसङ्केन सार्धं दत्तमिथ्यादुष्कृताः प्रतिपन्नचतुःशरणा विहितसर्वसत्त्वक्षामणा दिन
, अयं सूरिपदानन्तरं जिनदत्तसूरिनाम्ना प्रसिद्धः प्रस्तुतकाव्यत्रय्याः कर्ता,तचरितमगे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org