SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ जस्य महानाग्रहस्तर्हि चित्रकूटे श्रावकैर्देवगृहद्वयं कारितमस्ति, तत्र पूजार्थं स्वमण्डपिकादानात् पारुत्थ[लक्षद्वयं दापयत । " ततो राजा तुष्टः शाश्वतं मा(मे) दानं भविव्यतीति तथैव चकार । तथा श्रीजिनवल्लभगणेर्धार्मिकत्वेन सर्वत्र प्रसिद्धिजज्ञे । ततश्च श्रीनागपुरे श्रावकैर्देवगृहं नेमिनाथबिम्ब च नूतनं कारितमस्ति । .. तेषामेष बभूवाभिप्रायो [य]दुत वयं महाचारित्रिणं श्रीजिनवल्लमागपुरे नेमिजिनालयप्रतिष्ठा" भगणिं गुरुत्वेनाभ्युपेत्य तस्य हस्तेनोभयोः प्रतिष्ठां कारयिष्याम इति चिन्तयित्वा] सर्वसम्मतेन महताऽऽदरेण महता बहुमानेनाकारितो भगवान् श्रीजिनवल्लभगणिः । ततः पूज्यैः शुभलग्ने देवगृहं नेमिनाथबिम्ब च प्रतिष्ठितम् । तत्पद्महस्तप्रभावाल्लक्षपतयस्ते श्रावका जज्ञिरे । नेमिनाथबिम्बे रत्नमयानि मुकुट-तिलक-कुण्डलाङ्गद-श्रीवत्स-कण्ठमणिमालिकाद्याभरणानि कारयाञ्चक्रिरे । । तथा नरवरपुरीयश्रावकाणां तथाऽभिप्रायो [जा तो वयमपि श्रीजिनवल्लभगणि नरवरपुरे विधि __ गुरुत्वेनाङ्गीकृत्य देवगृह-बिम्बयोः प्रतिष्ठां विधापयाम इति चैत्यप्रतिष्ठा पर्यालोच्य तथैव कारयामासुः । उभयोरपि जिनगृहयो रात्रिबलिधारण---रात्रिस्त्रीप्रवेशन-रात्रिप्रतिष्ठाकारणवारणादिको मुक्तिसाधको विधिलिखितः । ततो मरुकोट्टीयश्रावकैः श्रीजिनवल्लभगणिवाचनाचार्या विहारक्रमाय समाहूता विक्रमपुरमध्येन मरुकोट्टे विहृताः । तत्र श्राद्धैः श्रद्धावद्भिर्गुमरुकोट्टे विहारः, व्याख्यानशक्तिः तिस्थानादियुक्ता दत्ता वसतिः, स्थितास्तस्याम् । श्रावकैरुक्तम् ___ भगवन् ! युष्मद्वदनारविन्दाज्जिनवचनरसमास्वादायतुमिच्छामः । प्रभुभिरमाणि-'युक्तमेतच्छ्रावकाणाम् , तझुपदेशमाला कथयितुमारभ्य ते । तैरुक्तम्पूर्वमेव श्रुता। पूज्यैर्भणितम्-भूयोऽपि श्रूयताम् । भव्यदिने व्याख्यातुमारब्धोपदेशमाला। " संवश्छरमुसभजिणो छमासा वद्धमाणजिणचंदो । इय विहरिया निरसणा जएज एउवमाणेणं ॥ १ ॥" इत्येकस्या अपि गाथाया व्याख्याने षण्मासावधि कालो लग्नस्तथापि श्रावकाणां नानासिद्धान्तोदाहरणामृतेन तृप्तिर्न जाता । भणितुमारब्धाः--श्रीभगवन्तस्तीर्थङ्करा एवैवं वचनामृतेन श्रोत्रसुखमुत्पादयितुं समर्थाः । सत्यं तीर्थकरप्रतिरूपा यूयं कथमन्यथेदृशी अमृतस्राविणी वाणी ईदृशी च व्याख्यानलब्धिरिति भृशं सन्तुष्टा देशनया श्रावकाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy