________________
तम् -' देव ! न पण्डितपूरिताः समस्याः प्रतिभान्त्यनयोः । राज्ञोक्तम् - अहो ! अस्ति कश्चिदुपायो येनानयोर्मनो रज्यते ? | केनापि विवेकिना पुरुषेणोक्तम् - देव ! चित्रकूटे श्वेतपटो जिनवल्लभ गणिः सर्वविद्यानिधानमाकर्ण्यते । राज्ञा तदैवोष्ट्रद्वयं शीघ्रगति [स]पुरुषं सलेखं प्रेषितम् । लेखश्च साधुसाधारणनिमित्तम् । लिखितं च [त ]त्र - ' भोः साधारणसाधो ! यथा त्वदीयगुरुभिर्मनोहरा पूरितेयं समस्या शीघ्रं समागच्छति तथा कार्यम्, नान्यथेति । एवं स राजलेखस्तैरौष्ट्रिकैः सन्ध्यासमये साधुसाधारणहस्ते प्रदत्तः प्रतिकमणवेायाम् । साधुसाधारणेन स नृपलेखो गुरोः पुरो वाचितः, अवगतस्तदर्थो गणिमिश्रैः । ततः प्रतिक्रमणानन्तरं झटिति पूरिता [सा] समस्या यथा -
२६
“ रे रे नृपाः ! श्रीनरवर्मभूप -- प्रसादनाय क्रियतां नताङ्गैः । कण्ठे कुठारः कमठे ठकारश्चक्रे यदश्वोमखुराग्रघातैः ॥ १ ॥ ”
लेखयित्वा तदैव दत्ता साधुसाधारणहस्ते । तेनाप्यौष्ट्रिक पुरुषाणां हस्ते स्वकी - यविज्ञप्तिकालेखसहिता सा समस्या प्रहिता । तेऽपि लेखं गृहीत्वा रात्रावेव शीघ्रं धारापुर्यो सम्प्राप्ताः । पठिता तयोर्विदुषोः पुरतः समस्या । रञ्जितमतीव [तया] तयोर्मनः, भणितं च ताभ्याम्—— अस्यां सभायां नास्तीदृशो विद्वान् येनेयं पूरिता, किं तर्ह्यन्यः कश्चित्' इत्येवं प्रशंसन्तौ वस्त्रादिप्रदानेन सत्कृत्य तौ प्रेषया[ञ्चक्राते नरेश्वरेण]
<<
[श्रीजिनवल्लभगणिरपि भगवानुद्यतविहारकारी परमब्रह्मचारी कतिपयदिनैचित्रकूटाचलदुर्गाद् विजहार धारायाम् |] केनाप्युक्तं राज्ञोऽग्रे धारायां नरवर्मनृपात् देव ! समस्यापूरकः श्वेतपटोऽत्रागतोऽस्ति । ततोऽतिशयितविद्वत्तागुणाकृष्टहृदयेनोक्तं नृपेण - ' भोः शीघ्रमाकारयत तमत्र' ।
सन्मानम्
आकारितो विनयपूर्वकं राजपुरुषैः समागतो भगवान् प्रणतः सादरं क्षितीश्वरेण । ततो लब्धाशीर्वादेन योजितहस्तमुकुलेनाभिदधे धराधवेन - भो विद्वज्जनचूडामणे ! मन्मनस्तुष्टये पारुत्थलक्षत्रयं ग्रामत्रयं वा गृहाण ।' ततो भणितं श्रीजिनवल्लभगणिवाचनाचार्यैः- :- महाराज ! व्रतिनां निषिद्धोऽर्थसङ्ग्रहोऽस्मदागमे विशेषतः । तथा चागमः - दोससयमूलजालं पुव्वरिसिविवज्जियं जई वतं ।
अत्थं वहसि अणत्थं कीस निरत्थं तवं चरसि ? || १ ||" [ उपदेशमाला गा ०] इत्यादि । अतो वयं नार्थं हस्तेनापि स्पृशामः । राजा पादयोर्निपत्य प्राह- भो महात्मन् ! निःस्पृहशिरोमणे ! तथापि लक्षत्रयस्य ग्रामत्रयस्य वा ग्रहणमन्तरेण मम मनःसमाधिर्नास्त्यतो यथा तथा मन्मनः समाधिरुत्पादनीयः । वाचनाचार्यैरुक्तम् - " यद्यत्रार्थे महारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org