________________
२५
ततो निःशङ्केन व्याख्या[ता] यथावस्थितं श्रीजिनवल्लभ गणिना धिग्जातीया ब्राह्मणा इति व्याख्यानं श्रुत्वा कुपिता विप्रा बहिर्निर्गता एकत्र मिलिता विपक्षाश्च निकटीभूताः । आलोचितं विप्रैरेतैः सह विवादं विधायैतान् निष्प्रभान् करिष्यामः । अथ तेषां स्वरूपं तादृशं विज्ञाय श्रीजिनवल्लभगणेर्मनसि तेभ्यो भयं समजनि ? उच्यते, न मनागपि । किमुत्कटकरटिकरटतटपाटनपटिष्ठनिष्ठुर प्रकोष्ठपञ्चाननस्य निजसिंहनादप्रतिशब्दबधिरीकृतकाननस्य कदाचित् पवनप्रेङ्खोलिततरुवर शिखरनिपतितपर्णमात्रोत्त्रसपलायनसञ्जाताङ्गभङ्गेभ्यः कुरङ्गेभ्यः स्याद् रोमोद्धर्षमात्रमपि । तथा चास्मगुरूणां श्रीजिनपतिसूरीणामत्रैवार्थेऽन्योक्तिर्यथा
“ खरनखरशरकोटिस्फोटिताग्रेभकुम्भ
स्थलविगलितमुक्ताराजिविभ्राजिताजिः । हरिरधिगरि [मा] किं तर्जितो निर्जितो वा
"
ऽनिलचलदलपातत्वङ्गदङ्गैः कुरङ्गैः ?॥ १ ॥ ततो भगवता श्री जिनवल्लभ गणिना
“मर्यादाभङ्गभीतेरमृतमयतया धैर्य - गाम्भीर्ययोगाद्
न क्षुभ्यन्ते च तावन्नियमितसलिला: सर्वदैते समुद्राः ।
आहो ! क्षोभं व्रजेयुः कचिदपि समये दैवयोगात् तदानीं
Jain Education International
न क्षोणी नाद्रिचक्रं न च रवि- शशिनौ सर्वमेकार्णवं स्यात् ॥ १ ॥"
I
इति वृत्तं भूर्जखण्डे लिखित्वा विवेकिजनहस्ते दत्त्वा प्रेषितं भणितश्चासौ मिलितानां मध्ये बृहद्ब्राह्मणस्य हस्ते दातव्यम्, तथैव च कृतं तेन । ततो विविक्तबुद्धिना वृत्तार्थे परिभाव्य चिन्तितं तेनाहो ! वयमेकैकविद्याधारिण एते च सर्वविद्यानिधानं कथं तैः सह विवादः कर्तुं शक्यते ? इति विचिन्त्य तेन सर्वेऽपि विप्रा 'अहो ! हृदयचक्षुषा न प्रेक्षध्वे यूयम्, एकैकमलिनविद्याधारिणो यूयं सर्वेऽपि । स च निखिलनिस्तुषविद्यानिधानमतस्तेन सह कीदृशो युष्माकं विवाद: ?' इत्यादिवचनसन्दर्भेण प्रतिबोध्योपशमं नीताः, श्रीजिनवल्लभगणेः पादयोश्च पातिता इति ।
अ[न्य]दा धारानगर्यौ श्रीनरवर्मराजसभायां देशान्तरात् पण्डितद्वयं समागतम्। तेन च राज्ञः पण्डितानां पुरतः पूरणार्थं प्रक्षिप्तमिदं समस्यापदं समस्यापूर्तिशक्तिः यथा - 'कण्ठे कुठारः कमठे ठकार: ' इति । ततः पण्डितैः प्रत्येकं
स्वकीयस्वकीयप्रज्ञानुसारेण पूरिता, परं न तयोर्मनो मुमुदे । केनापि राज्ञः पुरोऽभिहि
For Private & Personal Use Only
www.jainelibrary.org