________________
२४
ततः श्रीजिनवल्लभगाणिना मनाक् परिभाव्य तदैव पूरिता समस्या, कथिता च तदग्रतः । यथा“चिरं चित्तो(त्रो)द्याने चरसि च मुखाब्जं पिबसि च
क्षणादेणाक्षीणां विरहविषमोहं हरसि च । नृप ! त्वं मानादि दलयसि च किं कौतुककरः
कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनिः ॥ १॥" इति श्रुत्वाऽत्यन्तं प्रमुदितो गदितुं प्रवृत्तोऽहो ! निश्चितं न निर्मूला जनप्रसिद्धिः ' यादृशाः श्रुता[स्ता]दृशा एव यूयम् ' इति गुणस्तुतिं कृत्वा पादयोः पतित्वा गतः । ततः सुगुरुर्वसतौ समागतः श्रावकैः पृष्टो यत् सुगुरो ! किमिति बह्वी वेला लग्ना है। सहगतेन शिष्येण सर्वाऽपि कथिता वार्ता । जातः प्रमोदोत्फुललोचनः समस्तोऽपि श्रावकलोकः । गणदेवनामा श्रावकः स्वार्थी जिनवल्लभगणिपार्श्वे सुवर्णसिद्धिरस्तीति
केनाप्युक्ते चित्रकूटस्थस्य भगवतः [समीपे] समागत्य पर्युपासनां वाग्जडीयलोक
- कर्तुमारब्धः । लक्षितस्तद्भावो गणिना । तथापि योग्यं तं ज्ञात्वा प्रतिबोधः
तथा कृता संसारवैराग्यजननी देशना यथाऽसावत्यन्तं संविग्नो निःस्पृहो जातः । ततो भाणितं गणिना-भद्र ! किं सुवर्णसिद्धिं कथयामि ? । तेनोक्तम्--भगवन् ! युष्मत्पादशुश्रूषां कुर्वाणो विंशतिद्रम्मनीव्या व्यवहारं कुर्वन् श्राद्धधर्म करिष्यामि । तस्य च धर्मकथने लब्धिरस्ति । ततो लिखितकुलकान् लेखान् दत्त्वा शिक्षयित्वा प्रेषितो वाग्ज(ग्ग)डदेशे । कृतः सर्वोऽपि वाग्ज(ग्ग)डीयलोकः श्रीजिनवल्लभगणिं प्रति जातप्रतिबन्धस्तेनं । श्रीजिनवल्लभगणिव्याख्याने सर्वे विचक्षणा जना उपविशन्ति, विशेषतो
ब्राह्मणाः स्वस्वविद्यासन्देहापोहार्थम् । अथ कदाचिदियं गाथा रुष्टब्राह्मणवृन्दोपशमनम् व्याख्याने समागता य[था]
" घिजाईण गिहीणं पासत्थाईण वा वि दणं । जस्स न मुज्झइ दिट्ठी अमूढदिहिं तयं बिंति ॥ १॥"
१ वि. सं. १२९३ वर्षे जिनपालगणिनैषां कुलकानां विवरणमकारि, तत्प्रशस्तिपाठ उपरि प्रादर्शि। २ धिग्(द्वि)जातीन् गृहिणश्च पावस्थादीन वाऽपि दृष्ट्वा । यस्य न मुह्यति दृष्टिरमूढदृष्टिं तं ब्रुवन्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org