________________
पपात, भणितुं च लग्नो यावदत्र तिष्ठामि, निश्चितं तावद् भगवतां पादान् वन्दित्वा भोजनं विधास्यामि । न मानविडम्बितेन मया ज्ञाता एवंविधा भवन्तः । जाता सार्वत्रिकी प्रसिद्धिर्यदहो ! ज्ञानिनः श्वेतपटा एव भवन्ति । अन्यदा कदाचिन्मुनिचन्द्राचार्येण शिष्यद्वयं सिद्धान्तवाचनानिमित्तं श्रीजिन
वल्लभगणिपाधै प्रेषितम् । जिनवल्लभगणिरपि तयोर्वाचनां क्रियमाणघ्नकुशिष्य. त्यागः
- दातुं प्रवृत्तस्तावप्यशुभौ(भं) चिन्तयतः-'यदि जिनवल्लभगणेः श्राद्धान् कथञ्चिद् विप्रतारयाव' इति बुद्धया रञ्जयतः श्रावकान् । कदाचित् स्वगुरुपार्श्वे प्रेषितुं प्रच्छन्नवृत्त्या लेखोऽलेखि । तं च वाचनाकपलिकायां प्रक्षिप्य वाचना ग्रहीतुं गतौ तौ वसतौ गणिसमीपे वन्दनं दत्त्वोपविष्टौ । यावदुच्छोटिता कपलिका ततो नूतनो लेखो दृष्ट्वा गृहीतो जिनवल्लभगणिमित्रैरुच्छोटितश्च । तावपि हस्ताद् प्रहीतुं न शक्नुतः । ततोऽवधारितो लेखः । लिखितं च तत्र-"जिनवल्लभगणेः केचित् श्राद्धाः स्ववशं नीताः सन्ति, क्रमेण सर्वानपि वशीकरिष्याव इति मनोवृत्तिरस्ति ।” 'अयं चार्थो विरुद्धत्वाद् यद्यपि शास्त्रोपनिबन्धयोग्यो न भवति; तथापि चरितोपरोधादुक्त इति' । ततः श्रीजिनवल्लभगणिना द्विधा विधायाभाणि यथा___ "आसीजनः कृतघ्नः क्रियमाणघ्नस्तु साम्प्रतं जातः ।
इति मे मनसि वितर्को भवितालोकः कथं भविता ? ॥ १ ॥” ।
इति पठित्वोक्तम्-अहो! एवंविधाशुभभावयोः सृतं भवतोर्वाचनया। पश्चाद् विमुखौ गतौ स्वस्थानम्, पुनर्न दृष्टाविति । कदाचिज्जिनवल्लभगणेबहिर्भूमौ गच्छतः कश्चिद् विचक्षणः प्रसिद्धिं पाण्डि
त्यस्य श्रुत्वा मिलितः, समस्यापदं च प्रक्षिप्तं कस्यापि राज्ञो समस्यापूर्तिः
___ वर्णनमाश्रित्य यथा' कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनि': ।' ___ १ वि. सं. १३३४ वर्षे प्रभाचन्द्रसूरिणा विरचिते प्रभावकचरिते कविराजश्रीपाल-देवबोधयोः संवादेऽपीयं समस्यापूर्तिः प्रादर्शि
समस्यां दुर्गमां काञ्चित् पृच्छतेति नृपोदिते ।
श्रीपाल ऊचिवाने स्फुटं शिखरिणीपदम ॥ चि-'कुरङ्गः किं ,गो मरकतमणिः किं किमशनिः?
तत्पाठपृष्ठ एवासाववदत् कविनायकः ।
चरणत्रितयवृत्ते को विलम्बोऽत्रामूदृशि? ॥ तद् यथा-चिरं चित्तोद्याने चरसि च मुखाब्जं पिबसि च
क्षणादेणाक्षीणां विषयविषमुद्रां हरसि च । प! त्वं मानादि दलयसि च किं कौतुककरः कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनिः ?॥
-प्रभावकवरिते (नि. सा. प्रकाशित पृ. ३०९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org