________________
२२
सोऽपि मिलितः । साक्षेपं भणितं ज्ञानदिवाकरैः श्रीजिनवल्लभगणिमिश्र : - 'भद्र ! बहुदेव ! गर्यो न विधेयः । कश्चिदेतन्मध्यात् सोऽपि भविष्यति, यस्त्वां बद्धमुच्छोटयिष्यति' । तच्च तथैव सञ्जातम् । प्रभुप्रसादात् साधारणसाधुर [य]धिकं राजमान्यो बभूव । नरवर्मनृपः काप्यपराधे तस्मै दुष्टमुखाय रुष्टस्तमुष्ट्रेण सह बोष्ट्र मिवारटन्तं धारायामानाययति । तत्र च केनापि प्रयोजनेन साधारणसाधुर्गतोऽभूत् ततस्तेन सकलजगत्साधारणेन साधुसाधारणेन विहितं सेधनादिनिवारणेन निष्कारणेन राजानं विज्ञप्याङ्गीकृतसाधुचेष्टितेन बन्धनान्मोचितोऽसौ वराः । देवगृहयुग्ममपि सोत्साहैः श्रावकैः कारयितुमारब्धम्, देव गुरुप्रसादात् परिपूर्ण निष्पन्नम् । तत्र चोपरिष्टात् श्रीपार्श्वजिनभवनमधस्ताच्च श्रीभव्यानां लोचनमनोहारि समुत्तुङ्ग शिखरतोरणं स्वर्णमयदण्डकलशपरम्पराप्रभामण्डलखण्डितचण्डान्धकारं श्रीमहावीरजिनभवनं निर्मापितम् । श्रीजिनवल्लभगणिवाचनाचार्यैर्विस्तरेण समस्तविधिपूर्वकं चक्रे गरिष्ठा प्रतिष्ठा । सर्वत्र प्रसिद्धिर्जाता अहो ! एत एव [गुखो] गुव इति ।
अन्यदा लोकमध्य एवंविधाः सर्वशास्त्रविदः श्वेतपटाः समाजग्मुरिति श्लाघ महतीं श्रुत्वा विप्र को ज्योतिषिकः पण्डितमानी श्रीजिनवल्लज्योतिः परिज्ञानम् भगणिसमीपे समागतः । श्रावकैः पट्टासनं दत्तम् । पृष्टोऽसौ गुरुभिर्भद्र ! भवतां कुत्र स्थाने वासः ?, कस्मिंश्च शास्त्रेऽभ्यासः ? | विप्रः - निवासस्तावदत्रैवाभ्यासस्तु सर्वेष्वपि व्याकरण - काव्य - नाटकालङ्कारादिषु । वाचनाचार्याःभवतु, विशेषेण कुत्र ? । विप्रः - ज्योतिषे । वाचनाचार्या :- चन्द्रादित्यलग्ने सम्यग् वेत्सि ? । विप्रः सगर्वम्—–किमत्रैवागणिते एकं द्वौ त्रीन् वा लग्नान् प्रतिपादयामि ? । ततः सगर्व तद्वचनमुपश्रुत्य वाचनाचार्या :- शोभनं परिज्ञानम् ? पुनर्विप्रः - युष्माकमपि किमप्यस्ति लग्नविषये परिज्ञानम् ? | वाचनाचार्याः - भविष्यति किञ्चित् । विप्रः साक्षेपम्तर्हि कथयन्तु भवन्तः । वाचनाचार्या अनुत्सिक्ता अपि सोत्सेकमिव भो भो विप्र -! कंथय कति कथयामि दश विंशतिं वा लग्नान् ? । तच्छ्रुत्वा तस्याश्चर्यमभूत् तावत्सङ्ख्याँग्नान् झटिति प्रतिपाद्य पुनर्भणितं भगवद्भिः - भो विप्र ! गगनमण्डले हस्तद्वय - द्वयसं मेघखण्डं पश्यसि ? । बभाण ब्राह्मणः - पश्यामि । वाचनाचार्यैरुक्तम् - कथय [किय]मात्रं जलं मोक्ष्यति ? । विप्रोऽजानानः शून्यदृष्टिर्दिशोऽवलोकयति । ततो मणितमाराध्यैः - शृणु भो विप्र ! घटिकायान्तरे तन्मेघखण्डं हस्तद्वयमात्रमप्यधुना सकलं गगनमण्डलं व्याप्य तावद् वृष्टिं करिष्यति [ यावता ततो वयर (?) मेत्र भाजनद्वयं परिपूर्ण भविष्यति । ततश्च] तत्रैवोपविष्टस्य विप्रस्योमुखस्य सर्वे तथैव तज्जातम् । विप्रो मस्तके हस्तौ योजयित्वाऽहो ! ज्ञानमहो ! ज्ञानमिति शिरो धुन्वन् प्रभूणां पादयोर्नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org