________________
गुर्वाज्ञायां विशेषतः प्रवर्तमानः साधारणः सकलसङ्घस्य साधारणः समभवत् । सहकादयोऽन्येऽपि श्राद्धाः साधारणवत् सर्वत्र जिनवल्लभगणेराज्ञया प्रवर्तितुमारब्धाः। तत्र कृतचातुर्मासिककल्पानां श्रीजिनवल्लभवाचनाचार्याणामाश्विनमासस्य
____कृष्णपक्षत्रयोदश्यां श्रीमहावीरदेवगर्भापहारकल्याणकं समागतम् । चित्रकूट महावीर-षष्ठ-
षष्ठ- ततः श्राद्धानां पुरो भणितं जिनवल्लभगणिना-भोः श्रावकाः !
दाना परो भणितं जिनवलभगणिना कल्याणकाराधनम्
• अद्य श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं " पंच हत्थुत्तरे हुत्था साइणा परिनिव्वुडे " इति प्रकटाक्षरैरेव सिद्धान्ते प्रतिपादनात् । अन्यच्च तथाविधं किमपि विधिचैत्यं नास्ति, ततोऽत्रैव चैत्यवासिचैत्ये गत्वा यदि देवा वन्द्यन्ते तदा शोभनं भवति । गुरुमुखकमलविनिर्गतवचनाराधकैः [श्रावकै]रुक्तम्-'भगवन् ! यद् युष्माकं सम्मतं तत् क्रियते । ततः सर्वे श्रावका निर्मलशरीरा निर्मलवस्त्रा गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तुं प्रवृत्ताः । ततो देवगृहस्थितयाssर्यिकया गुरुश्राद्धसमुदायेनागच्छतो गुरून् दृष्ट्वा पृष्टम्-' को विशेषोऽद्य ? । केनापि कथितम्-'वीरगर्भापहारषष्ठकल्याणककरणार्थमेते समागच्छन्ति । तया चिन्तितम्-'पूर्व केनापि न कृतमेतदेतेऽधुना करिष्यन्तीति न युक्तम् । पश्चात् संयती देवगृहद्वारे पतित्वा स्थिता । द्वारप्राप्तान् प्रभूनवलोक्योक्तमेतया दुष्टचित्तया- मया मृतया यदि प्रविशत' । तादृगप्रीतिकं ज्ञात्वा निवर्त्य स्वस्थानं गताः पूज्याः । श्राद्धैरुक्तम्भगवन् ! अस्माकं बृहत्तराणि सदनानि सन्ति , तत एकस्य गृहोपरि चतुर्विंशतिपट्टकं धृत्वा देववन्दनादि सर्व धर्मप्रयोजनं क्रियते । षष्ठकल्याणकमाराध्यते । गुरुणा भणितम्-'तत् किमत्रायुक्तम् ?' तत आराधितं विस्तरेण कल्याणकम् । जातं समाधानम् । अन्येद्युगीतार्थैः श्रावकैर्मन्त्रितं यथा--विपक्षेभ्योऽविधिप्रवृत्तेभ्यः पाििज्जनोक्तो
विधिर्विधातुं न लप्स्यते; ततो यदि गुरोः सम्मतं भवति, तदा चित्रकूटे विधिचैत्य
त्य- तले उपरि च देवगृहद्वयं कार्यते । स्वसमाधानं गुरूणां निवेदिद्वयप्रतिष्ठा
तम् । गुरुभिरप्युक्तं यथा"जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् ।
तस्य नरामर-शिवसुखफलानि करपल्लवस्थानि ॥ १ ॥" इति देशनया ज्ञातं श्राद्धैः श्रद्धाप्रधानैर्यद् गुरूणामभिप्रेतमेवैतल्लोकमध्ये च वार्ता जाता यथैते देवगहद्वितयं कारयिष्यन्तीति वार्तामाकर्ण्य प्रलादनबृहत्तरेण बहुदेवश्रेष्ठिना कथितमेतेऽष्ट कापालिका देवगृहद्वयं कारयिष्यन्ति राजमान्या भविष्यन्तीति एतच श्रुतं श्रीजिनवल्लभगणिभिः । अपरस्मिन् वासरे बहिर्गच्छतां प्रभूणां
१ पञ्च हस्तोत्तरेऽभवन् , स्वातिना परिनिर्धतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org