Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
स्वगच्छ-देवगृह-वाटिकाऽऽदिचिन्तां मुक्त्वा सुगुरुपार्श्वे [व]सतिवासमङ्गीकुर्महेऽवश्य भवता विधा[तव्यं] वसतिवसनम् । श्रीजिनवल्लभगणिः-'भगवन् ! एवम्' । ततो गुरुयाधुट्यासिकायां सम्प्राप्तः । श्रीजिनवल्लभगणिरपि तत्सम्मतेन श्रीपत्तने विजहार, श्रीमदभयदेवमूरि
___पादान् बह्वादरेण वन्दितवान् । सद्गुरूणामतिशयेन समाधान अभयदेवसूरेः सन्तोष गुरुपदम समजनि, चिन्तितं च यथा परीक्षितस्तथैवैष जज्ञे । ततो मनसि
विदन्तोऽपि न कस्यापि प्रतिपादयन्ति यदुतैष एवास्मत्पदयोग्यः । यतो देवगृहनिवासिशिष्य इति हेतोर्गच्छस्य सम्मतं न भविष्यतीति । ततो गच्छाधारको वर्धमानाचार्यः स्वपदे निवेशितो जिनवल्लभगणेश्च स्वकीयोपसम्पदं दत्तवन्त इत्यद्यप्रभृत्यस्मदाज्ञया सर्वत्र प्रवर्तितव्यमिति । एकान्ते पुनः प्रसन्नचन्द्राचार्यों भणितो मदीयपदे भव्यलग्ने जिनवल्लभगणिः स्थापनीय इति । एवं नवाङ्गीवृत्ति वर्तनीमिव मुक्तिनगरस्य भव्यजनेभ्यः प्रतिपाद्य सिद्धान्तोक्तविधिना समाधानेन देवलोकं गताः श्रीअभयदेवसूरयः । प्रसन्नचन्द्राचार्यस्यापि सुगुरुपदनिवेशनप्रस्तावो न जातस्ततस्तेनापि स्वायुःपरिसमाप्तिसमये श्रीदेवभद्राचार्याणां विज्ञप्तम् 'यत् सुगुरूपदेशो युष्माभिरेष सफलीकार्योऽवश्यमेव, मया कर्तुं न शकितः । ततः [तैरपि प्रतिपन्नम्'वर्तमानयोगेनैवं करिष्यामः, समाधानं भवद्भिर्विधेयमिति' । श्रीजिनवल्लभगणिवाचनाचार्योऽपि कतिचिद् दिनानि पत्तनभूमौ विहृत्य न
___ तादृशो विशेषेण बोधः कस्याप्यत्र ग्राजरत्रामण्डले विधातुं शक्यते, गूर्जरत्रा-मेदपाटादिषु । विचरणम्
१७ येन समाधानमुत्पद्यते मनसीति मनसिकृत्यात्मतृ(द्वि)तीय आगमवि
धिना सुशकुनेन भव्यजनमनःसुक्षेत्रभूमिकासु भगवदर्भणितविधिधर्मबीजनिक्षेपणार्थं श्रीमेदपाटदेशादिषु विहारं चकार । ते च देशाः सर्वेऽपि प्रायेण चैत्यनिवास्याचार्यैाप्ताः, सर्वोऽपि लोकस्तद्वासितो वर्तते।
किं बहुना ? तादृशदेशान्तरस्थनानाग्राम-नगरादिषु विहारं विदधानश्चित्रकूटाचित्रको चण्डिकारला चलदुर्ग प्राप्तः । यद्यपि तत्रत्यक्षुदैर्भावितो लोकस्तथाप्ययुक्तं किमपि
" कर्तुं न शक्नोति श्रीपत्तने श्रीगुरूणां महत्या: प्रसिद्धेः श्रवणात्। ततो जिनवल्लभगणिना स्थानं याचितास्तत्रत्यश्राद्धाः । तैश्चोक्तम्-'चण्डिकामठोऽस्ति, यदि तत्र तिष्ठथ(त) । ततो जिनवल्लभगणिना ज्ञातम्-'दुष्टाभिप्रायेणैते भणन्ति, तथापि तत्रापि स्थितस्य देवगुरुप्रसादाद् भद्रं भविष्यति' इति चिन्तयित्वा भणितास्ते 'तत्रैव बहु मन्यध्वं यूयं येन तिष्ठामः' तैरुक्तमतीव सम्मतमस्माकं तिष्ठत यूयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 248