Book Title: Aparajit Kathanakam Author(s): Mantungsuri Publisher: Labdhisurishwar Jain Granthmala View full book textPage 4
________________ अपराजित कथानकम् । ॥२॥ अपराजित. कृत्यान्याजुहाव स्वमपाठकान् ॥९॥ बहुमानेन सन्मान्य तेभ्यः खमं न्यवेदयत् । ते प्राहुर्भविता देव! सुतः सर्वगुणैर्यतः॥१०॥ तथाहि त्यागवान् भोगी गम्भीरो विनयी नयी। शूरो वीरो महाधर्मी परोपकरणोद्यतः॥११॥ तानाह नृपतिस्तुष्टो गजाश्ववसनं वसु । यद्गृहीतुमहोरात्रात् क्षमा गृह्णीत तत् स्वयम् ॥ १२॥ तैरूचे वितरस्युच्चैर्यदेवं देव! नः प्रति । भविष्यतः सुतस्यानुसारतस्तदियं मतिः॥ १३ ॥ रत्नगर्भेव देवी तद्गर्भरत्नमपालयत् । अभूच्च तत्प्रभावेण वल्लभा भूभुजोधिकम् ॥१४॥ अपूरयन्नृपस्तस्या दौहृदं धृतसौहृदम् । समये परिपूर्णेच सुतरत्नमसौदसौ ॥१५॥ नृत्यद्विलासिनीवर्गत्रुट्यन्मुक्ताकलापकम् । आनन्दकन्दलीकन्दं वर्द्धापनमजायत ॥१६॥ मास्यतीतेऽस्य बालस्य नाम चक्रेऽपराजितः। न पराजेष्यते केनाप्ययमित्थं दधन्नृपः ॥१७॥ धात्रीभिः पञ्चभिोल्यमानोऽवर्द्धिष्ट स क्रमात् । कलाचार्यादकलयत्स कलाः सकला अपि ॥१८॥ अथ तारुण्यभाजोऽस्य दृष्टिद्वैधापि विस्तृता । विक्रमेण समं वक्षःस्थलं विपुलतां श्रितम् ॥ १९ ॥ अवर्द्धत बलं बाह्वोरुत्साहेन सहाधिकम् । दधुरङ्गानि लालित्यं भारत्याः कलया सह ॥ २०॥ समं जनानुरागेण सगोऽभूत्करयोरपि । विवेकेन सहोल्लासं देहकान्तिरवाप च ॥ २१ ॥ कलाकलापकलितः सुरूपो विनयान्वितः । जनानामपि जज्ञे स प्रियो जनिकृतो यथा ॥२२॥ पाणिग्रहणयोग्यं तं मत्वा प्रैषीनराधिपः। प्रधानान्सर्वदेशेषु नृपकन्या निरीक्षितुम् ॥ २३॥ कुमारस्तु परिजने सत्यप्यादेशकारिणि । आदेशं कुरुते पित्रोः खयं विनयतो द्रुतम् ॥२४॥ अन्यदा वाहकेलि स गतो वाहानवाहयत् । जातश्रमश्च कंकेल्लितरुमूलेमुपाविशत् ॥ २५॥ तत्र तिष्ठति भूपालसुते रेणु, अश्वक्रीडाम् । २ अश्वान् । ३ अशोकतरुमूले । जन्म, कलाचार्यादभ्यासः तद्योग्यकन्या | निरीक्षितुं प्र. धानप्रेषणञ्च ॥२ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22