Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala

View full book text
Previous | Next

Page 14
________________ अपराजित कम्। ॥७॥ | अपराजितस्य जयसुन्दया सह वार्तालापः कुरुतेतराम् । वीणाया वादनमिति षण्मासा व्यतिचक्रमुः॥१७७॥ तद्भक्तितुष्टया देव्याऽऽवयोरादिष्टमित्यथ । सन्ध्याया समये यात जयन्त्यां जैवतो युवाम् ॥ १७८॥ विवाहवेदिकामध्यादजाते पाणिपीडने । इह चानयतं वेगात्कुमारमपराजितम् ॥१७९ ॥ यतो नृपाग्रतो दैवज्ञेनास्तीदं निवेदितम् । यः पल्यङ्कमलका युष्मदुद्यानसौधगम् ॥१८०॥ निबद्धकङ्कणो यश्च विनयं पुत्रिकाकृतम् । प्रपन्नो प्रथमा तस्य गृहिणीयं भविष्यति ॥१८१॥ (युग्मम्) तदावाभ्यां हृतोऽसि त्वं शक्त्या सुन्दर ! दिव्यया । श्रुते तत्कथिते यावदर्पयामि न दर्पणम् ॥ १८२॥ तावत्तत्रैव सम्प्राप्ता सहसा जयसुन्दरी । पाञ्चालीचरितं वीक्ष्य मेराक्षी सा व्यचिन्तयत् ॥ १८३ ॥ तन्नास्ति यद्भवे न स्यादिति सत्यवचोऽभवत् । विनयं कुर्वते क्वापि पुत्रिकाः किमचेतनाः॥१८४ ॥ देव एवायमीक्षं रूपं मर्येषु नो यतः। ध्यायन्ती व्युदिता ताभ्यां मा सुन्दरि ! विकल्पय ॥ १८५॥ वरोऽयं तुष्टया देव्याऽऽनायितस्तव हेतवे । अपराजितनामायं साथ हीमन्थराभवत् ॥ १८६॥ दिष्टिज्ञादिष्टमस्मार्षीन्मयाथ निजमाननम् । निरीक्ष्यार्पित आदर्श पुत्रिके स्थानकं गते ॥१८७॥ ततश्च जयसुन्दर्या सकर्पूरं ममार्पितम् । ताम्बूलं कण्ठतो न्यस्ता कण्ठे मे वनमालिका ॥१८८॥ ताम्बूलार्द्ध मया दत्त्वा तस्याः कण्ठे वकण्ठतः। न्यस्ता मुक्तावली सोचे वेषः परिणयोचितः॥१८९॥ किमेप वो मया ख्याते वृत्तान्ते दिव्यवाससी । आनाय्य सार्पयन्मह्यं मया परिहिते च ते ॥ १९॥ तयोचे च सविनयं जनोऽयं निखिलोऽपि वः। ततः कार्य यत्किमपि तदादेश्यमसंशयम् ॥१९१॥ यौष्माकं दर्शनं प्रापि दुष्प्राप्यं यत्प्रसादतः। तां देवीमर्चये गत्वा यद्यादेशः प्रजायते ॥ १९२॥ स्मित्वा मयोचे सा पूज्या ममापि तव दर्शनात् । सा प्राह यूयं यद्येत कृतार्था तद्भवाम्यहम् ॥ १९३ ॥ ततः पुरस्सरस्तस्याश्चलितः सापि पृष्ठतः। कतिचिच्चेटिकायुक्ताश्चेभायं तु बहिःस्थितम् ॥ १९४ ॥ मया १ वेगतः । २ ज्योतिर्वित् । ३ आजानुलम्बिनी माला सर्व कुसुमोज्वला । मध्ये स्थूलकदम्बाब्या वनमालेति कीर्तिता।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22