Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala

View full book text
Previous | Next

Page 16
________________ अपराजित कथान मुद्रारत्नं समर्पितम् । सा न्यास्थदलौ विप्रलम्भतापापहारि तत् ॥ २११ ॥ तदा कथमनाख्याय कुमारोगादिति स्वयम् । राज्ञा पृष्टे निजगदुर्वृत्तान्तमखिलं च ते ॥ २१२ ॥ नृपः प्रोवाच नो भित्तौ वर्णाः स्युर्लिखिता यदि । तदस्या अपि सन्देहोऽभविष्यत् जीवितं प्रति ॥२१३॥ स्वर्णकोटिं ततस्तेभ्यः प्रसादेन ददौ नृपः। तुष्टया च कुमार्या ते निन्यिरे निजमन्दिरे॥२१४॥ पुनः पुनर्वियोगाग्नितापनिर्वापणौषधम् । अपृच्छत्सा कुमारस्योदन्तं श्रुतिसुधारसम् ॥२१५॥ साथ स्वतातानुज्ञाताश्वेभाडादाय तैर्युता ।क्रमाद्गता पतिपुरं जयन्ती रूपतः सुरीः॥ २१६ ॥ रतिप्रीतिसदृक्षाभ्यां ताभ्यां युक्तोऽपराजितः । कुमारोऽभिमुखं तस्थौ रूपेण विषमायुधः ॥२१७॥ अन्यदा प्रबलो दाहज्वरो देव्या अजायत । त्यक्तान्यकृत्यो भूपालस्तच्चिकित्सामकारयत् ॥२१८॥ न कोप्यस्य प्रतीकारं चक्रे देशान्तरा भिषक् । उवाच बहिरुद्यानेऽधिष्ठिते विषाहिना ॥२१९॥ अस्ति वापी तदुद्भूतैरम्भोजैः स्रेस्तरे कृते । दाहोपशमिता भूपस्ततश्चिन्तातुरोऽभवत् ॥ २२०॥ (युग्मम् ) कस्तत्र प्रविशेञ्जीवनिर्गच्छेत्कस्ततो वनात् । न च खेन परेणापि कार्यमेतत्प्रसाध्यते ॥ २२१ ॥ तदाऽऽयातः कुमारस्तं नतः श्याममुखच्छविम् । वीक्ष्यापृच्छन्नृपोऽप्याख्यदथोवाचापराजितः ॥ २२२॥ चेन्नानयामि पद्मानि तन्नाहं तनयोपि वः। नृपः प्रोवाच दुःखाग्निं मा ज्वालय वदन्निति ॥ २२३ ॥ राज्यश्रीयमनाथां मा कुरु | वत्स! सुतोऽवदत् । जीवन्तं तात! मन्ये खं मातुरातुरताहृतेः ॥ २२४ ॥ प्राणा भवे भवेऽपि स्युन तात! समयस्त्वयम् । ततो यदुर्लभं तत्र यत्नः कार्यों मनीषिणा ॥ २२५॥ प्राणानम्बां ददौ मह्यं तस्यैतांश्चेद्ददाम्यहम् । ततः किश्चित्कृतं मे स्यादथ दध्यौ धराधिपः ॥२२६॥ निर्बन्धो रुचिरो नास्य ध्यात्वेति स्वाङ्गरक्षकान् । शतानि पञ्चशोऽमुञ्चदमुश्च परिरक्षितुम् ॥ २२७ ॥ १ विप्रलम्भो-बियोगः तस्य तापापहारि । २ शयने । मातुर्दाहो ज्वरोद्भवच, कृतेऽप्युपाये रोगोपशमाभावाद्वाज्ञचिन्ताच ॥८॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22