Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala
View full book text
________________
मातृरोगोपशान्तये विषसाधिष्ठितकमलानयनाय कमप्यनुक्त्वैव वाप्यामव
तरणम्
तेन ते भोजिताः स्निग्धं घृतपूरादिभोजनम् । अतीव तेषु निद्राणेष्वपद्वारेण निर्ययौ ॥ २२८ ॥ विद्युदुतक्षिप्तकरणाप्रमुल्लङ्ग्य सोऽगमत् । उद्यानस्यान्तिके दध्यौ प्रतीक्षेऽर्कोदयावधि ॥ २२९॥ कुमारसाहसं द्रष्टुमिवोदिते दिवाकरे । स्मरन्पञ्चनमस्कारमुद्यानमविशच्च सः॥ २३०॥ तदीयपुण्यमाहात्म्यात् दृग्विषो निर्विषोऽभवत् । वनदेवीकेशपाश इव दृष्टश्च तेन सः॥ २३१॥ दीर्घिकायास्ततः प.र्दीर्घपृष्ठः स पूजितः । उक्तं च भगवन्भूयाः प्रसन्नो मे क्षमख च ॥ २३२ ॥ इत्युक्त्वा यावदुद्यानान्निरगात्तावता नृपः । ज्ञात्वा तं गतमुद्यानमायासीत्तस्य सम्मुखः ॥२३३॥ नत्वा कुमारोऽब्जमेकमार्पयत्प्राह भूपतिः। अत्यद्भुतं चरित्रं ते वत्स! वाचामगोचरम् ॥ २३४ ॥ स प्राह सवितुर्दीप्त्या दूरे याति तमो मम । आख्यच्च सर्व वृत्तान्तं नृपो हर्षादुवाह च ॥ २३५ ॥ ततो नृपार्पिताश्वाधिरूढोऽयं भूभुजा समम् । सौधमागत्य तैः पौर्मातुः शय्यामसज्जयत् ॥ २३६ ॥ गते च सहसा देहदाहे कीर्तिरकृत्रिमा । प्रससार कुमारस्याभूवन् वर्धापनान्यथ ॥२३७॥ निशश्च पश्चिमे यामे सर्पः खमे जगाद तम् । तुष्टोऽहं ते त्वयागम्यमुद्याने मम निर्भयम् ॥ २३८ ॥ फलपुष्पादिकं सर्वमादेयं च यथारुचि । स नित्यमानयत्येकस्ततः पुष्पफलादिकम् ॥ २३९ ॥ कृत्वा मालाद्वयं कण्ठे पित्रो रोपयते सदा । ब्रूते चादिश्यतां तन्मे यन्मयापि हि सिध्यते ॥२४॥ तावृचतुर्यदि पुण्यमगण्यं किञ्चिदस्ति नौ । भवे भवेपि तद्भूयाद्भवानेवाङ्गसम्भवः ॥२४१॥ त्वदीयैः सुचरित्रैर्यन्नेत्रस्थमपि हर्षजम् । जलमङ्गानि सर्वाणि शीतलीकुरुते सुत! ॥२४२ ॥ विषस्तु कुमारेण कुसुमाञ्जलिमोचनात् । क्षीरस्य पायनाद्वापि बाढमावर्जितो हृदि ॥ २४३ ॥
१ सर्पः।

Page Navigation
1 ... 15 16 17 18 19 20 21 22