Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala
Catalog link: https://jainqq.org/explore/034168/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीलब्धिसूरीश्वरजैनग्रन्थमालायाः पुष्पं [१६] श्रीजैनसंस्कृतग्रन्थलतायाश्चतुर्थो गुच्छकः। राजगच्छीयश्रीमानतुङ्गसरिविरचितश्रेयांसनाथचरितादुद्धृतम् अपराजितकथानकम् । प्रकाशयित्री श्रीलब्धिसूरीश्वरजैनग्रन्थमाला-गारीआधार (काठीयावाड) वीरसं. २४७३ विक्रमसं. २००३ आत्मसं. ५१ सन् १९४७ प्रतीनां पञ्चशतम्] मिलाछामाना Page #2 -------------------------------------------------------------------------- ________________ कथान अपराजित कम् । ॥१ ॥ 69888888888888888888888888888888888* अमारां संस्कृत ग्रन्थलतानां गुच्छको. (१) श्रीसिद्धहेमलघुवृत्तिः अवचूरि परिष्कार सहित. संस्कृत व्याकरणना रहस्य ज्ञान माटे मूलसूत्रानुसार वृत्तिने सूक्ष्मताथी समजावतो ने सुलभ बोध करावतो परिष्कार लघुवृत्तिना भणावनार अने भणनार उभयने अत्यंत उपयोगी छे. प्रक्रिया क्रम जेवी व्युत्पत्ति करावे छे. सूत्रोमांथी उद्भवता न्यायो उदाहरणो ने प्रत्युदाहरणोनो समन्वय बताववा साथे प्रन्थकारना हार्दने स्पष्ट करतो आ परिष्कार उत्तम मार्गदर्शन आपे छे. आ अपूर्व प्रकाशननुं संस्करण तइन नूतन शैलीमां होबाथी विद्वभोग्य बन्यु छे. सात अध्यायना रुपीया साडा सत्तर भरी प्रथमथी ग्राहक बननारने प्रत्येक पाद छपाशे तेम मोकलवामां आवशे. प्रथम अध्याय तैयार छे. किम्मत अढी रुपीया. पांच, पाद ढूंक समयमा बहार पढशे. (२) श्री चैत्यवंदनस्तुतिचतुर्विशति । पूज्यपाद कविकुलकिरीट व्याख्यानवाचस्पति आचार्यदेव श्रीमद्विजयलब्धिसूरीश्वरजी महाराज विरचित मा पुस्तकमा श्री ऋषभदेवादि जिनेश्वरोनां चैत्यवंदन भने स्तुतिओ विविध छंदोमा आपवामा भावी . मूल्य: आठ आना (३) सकलाईत्स्तोत्रं । कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरविरचित स्तोत्र श्रीगुणविजयजी विरचित अर्थप्रकाशनामक वृत्तिथी विभूषित. मूल्य छ आना PRESSBANDHREE85888888888888888888888885603 Printed by Ramchandra Yesu Shedge, at the “Nirnaya-sagar " Press, 26-28, Kolbhat Street, Bombay. Published by Shah Umedchand Raichand; Manager-Shree Labdhisurishwar Jain Granthmala; Gariyadhar. (via Damnagar, Kathiawar ). Page #3 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीआत्म-कमल-लब्धिसूरीश्वरेभ्यो नमः। राजगच्छीयश्रीमानतुङ्गसूरिविरचित-श्रेयांसनाथ-चरितादुद्ध अपराजितकथानकम् । अश्रमः श्रमणश्राद्धवृषपोषमनीषया । कुन्तलच्छलालिशालिस्कन्धोऽवताजिनः॥१॥ अगाद्यदङ्कगः खड्गी मृगेषूदनशृङ्गताम् । विश्राणयतु स श्रेयः श्रेयांसःश्रेयसां निधिः ॥२॥ जयन्तीत्यस्ति नगरी जयन्ती स्वापुरी श्रिया। तत्रास्ति भूमिषु स्थामा विजयी जयशेखरः॥३॥ तस्य चास्ति महादेवी नामतो| गुणसुन्दरी । तयोर्यान्ति सुखमया दिवसा देवयोरिव ॥४॥ सान्यदा फलितं चूतं खमे प्रेक्ष्य व्यबुध्यत । आख्यच राज्ञे स प्राह सुपुत्रस्ते भविष्यति ॥५॥ विनीतात्मा स राज्यस्य धौरेयश्च भविष्यति । एवमस्त्विति सा प्रोच्य शकुनग्रन्थिमाददे ॥६॥ तस्थौ च जाग्रती देवगुरुस्मृतिपरायणा । प्रभातसमये चेत्यपाठीन्मङ्गलपाठकः ॥७॥ सूर्योदयेऽधुना देव! ययुराशाः प्रकाश्यताम् । तत्कल्पानि कार्याणि कुरु सम्प्रति भूपते ॥८॥ दध्यौ नृपः प्रियास्वमसम्बद्धं बन्दिनो वचः। कृत्वाथ नित्य बलवान् । Page #4 -------------------------------------------------------------------------- ________________ अपराजित कथानकम् । ॥२॥ अपराजित. कृत्यान्याजुहाव स्वमपाठकान् ॥९॥ बहुमानेन सन्मान्य तेभ्यः खमं न्यवेदयत् । ते प्राहुर्भविता देव! सुतः सर्वगुणैर्यतः॥१०॥ तथाहि त्यागवान् भोगी गम्भीरो विनयी नयी। शूरो वीरो महाधर्मी परोपकरणोद्यतः॥११॥ तानाह नृपतिस्तुष्टो गजाश्ववसनं वसु । यद्गृहीतुमहोरात्रात् क्षमा गृह्णीत तत् स्वयम् ॥ १२॥ तैरूचे वितरस्युच्चैर्यदेवं देव! नः प्रति । भविष्यतः सुतस्यानुसारतस्तदियं मतिः॥ १३ ॥ रत्नगर्भेव देवी तद्गर्भरत्नमपालयत् । अभूच्च तत्प्रभावेण वल्लभा भूभुजोधिकम् ॥१४॥ अपूरयन्नृपस्तस्या दौहृदं धृतसौहृदम् । समये परिपूर्णेच सुतरत्नमसौदसौ ॥१५॥ नृत्यद्विलासिनीवर्गत्रुट्यन्मुक्ताकलापकम् । आनन्दकन्दलीकन्दं वर्द्धापनमजायत ॥१६॥ मास्यतीतेऽस्य बालस्य नाम चक्रेऽपराजितः। न पराजेष्यते केनाप्ययमित्थं दधन्नृपः ॥१७॥ धात्रीभिः पञ्चभिोल्यमानोऽवर्द्धिष्ट स क्रमात् । कलाचार्यादकलयत्स कलाः सकला अपि ॥१८॥ अथ तारुण्यभाजोऽस्य दृष्टिद्वैधापि विस्तृता । विक्रमेण समं वक्षःस्थलं विपुलतां श्रितम् ॥ १९ ॥ अवर्द्धत बलं बाह्वोरुत्साहेन सहाधिकम् । दधुरङ्गानि लालित्यं भारत्याः कलया सह ॥ २०॥ समं जनानुरागेण सगोऽभूत्करयोरपि । विवेकेन सहोल्लासं देहकान्तिरवाप च ॥ २१ ॥ कलाकलापकलितः सुरूपो विनयान्वितः । जनानामपि जज्ञे स प्रियो जनिकृतो यथा ॥२२॥ पाणिग्रहणयोग्यं तं मत्वा प्रैषीनराधिपः। प्रधानान्सर्वदेशेषु नृपकन्या निरीक्षितुम् ॥ २३॥ कुमारस्तु परिजने सत्यप्यादेशकारिणि । आदेशं कुरुते पित्रोः खयं विनयतो द्रुतम् ॥२४॥ अन्यदा वाहकेलि स गतो वाहानवाहयत् । जातश्रमश्च कंकेल्लितरुमूलेमुपाविशत् ॥ २५॥ तत्र तिष्ठति भूपालसुते रेणु, अश्वक्रीडाम् । २ अश्वान् । ३ अशोकतरुमूले । जन्म, कलाचार्यादभ्यासः तद्योग्यकन्या | निरीक्षितुं प्र. धानप्रेषणञ्च ॥२ ॥ Page #5 -------------------------------------------------------------------------- ________________ अश्वक्रीडायै बहिरुद्यानगमनं, तत्र पित्राकरणं, युद्धाय गमनच भरोऽस्फुरत् । तसिन्ससम्भ्रमे वाद्यरवोऽभूच्च श्रवोऽतिथिः ॥ २६॥ परचक्र समेतीति बहिर्वासी जनोऽखिलः। अन्तर्विशन्न माति स गोपुरेषु पृथुष्वपि ॥ २७ ॥ नृपोऽपि तुमुलं श्रुत्वाऽपृच्छदासन्नपूरुषान् । तेभ्यो ज्ञातारिवृत्तान्तो यात्रामेरीमवादयत ॥ २८ ॥ ऊचे च सज्जतां सैन्यं चतुरङ्गमपि क्षणात् । आकार्यतां कुमारश्च त्वरितं वाहकेलितः ॥ २९ ॥ तं मुक्त्वात्र यथा शत्रून् जेतुं यामो वयं वयम् । सैन्यं सज्जमभूदागात्प्रधानश्चापराजितम् ॥३०॥ स प्राहाहयते देवः स्वयं रिपुरणोन्मुखः। ऊचे चादृष्टयुद्धोऽसि तन्न स्थेयं युधि त्वया ॥३१॥ कुमारः प्राह तातस्यादेशः शिरसि मे सदा । तथाप्येनमविनयं तातः सहतु मत्कृतम् ॥३२॥ कथं च मयि सत्यूर्जे योद्धं तातस्य युज्यते । त्वया न दृष्टं प्राक् युद्धं तातपादा यदादिशन् ॥ ३३ ॥ तत्र विज्ञप्य-| |मीदृक्षं ज्ञायते दृष्टमेव किम् । अदृष्टमपि यद्न्थबलेन ज्ञायतेऽखिलम् ॥ ३४ ॥ ममात्र जन्ययात्रायां तातपादप्रसादतः। करग्रहः कुमारस्य भविष्यति जयश्रियाः ॥३५॥ गत्वा विज्ञप्यतां तातो मम साहाय्यहेतवे । न प्रहेया चमूर्धान्त,सेऽरुणसखो ह्यलम् ॥ ३६॥ प्रधानेनेति विज्ञप्ते नृपस्तोषादभाषत । ज्ञायते मम पुत्रो यदीदृक् चित्तं शिशोरपि ॥ ३७॥ प्रधानाः प्रोचिरे युक्तं सिंहः। सिंहस्य नन्दनः । रविरेव रवेर्बिम्बं कल्पद्रुश्च तदङ्कुरः ॥ ३८॥ नृपः प्राह कुमारेण निषिद्धापि पैताकिनी । प्रेष्यतां वातनुन्नो हि वह्निर्दहति काननम् ॥ ३९ ॥ चक्रव्यूहं कुमारोऽथ विनिधाय स्खचक्रगम् । सम्मुखः परचक्रस्साजनि चक्रधरप्रभः ॥४०॥ तदा। नोर्दूषितं वर्यवर्मण्यस्य वपुर्ममौ । उत्साहो द्विगुणश्चासीत्स्फुरिते दक्षिणेऽक्षिणि ॥४१॥ दृश्यते केवलं दीप्यमानमायुधमण्डलम् । पताकाः पवमानेन कम्पमानाश्च सर्वतः ॥ ४२॥ १ बलवति । २ युद्धयात्रायाम् । ३ सेना। ४ रोमाञ्चितम् । Page #6 -------------------------------------------------------------------------- ________________ अपरा जित ॥ ३ ॥ इतश्च विजयो नाम प्रधानः प्रहितः पुरा । जयशेखरराजेन परसैन्यात्स आगमत् ॥ ४३ ॥ अपृच्छच बलमिदं किमर्थ | समनह्यत । कवात्र सैन्यनाथोऽस्ति प्राहैकोऽथ महापुमान् ॥ ४४ ॥ आगच्छतोऽस्य सैन्यस्यादः सैन्यं प्रगुणीकृतम् । सेनानीश्व कुमारोऽत्र तारकस्येव संयति ॥ ४५ ॥ स स्मित्वाह कुमारः क्व तं च वेत्री न्यवेदयत् । कुमाराय तदादेशाद्वेत्रिणाथ प्रवेशितः ॥ ४६ ॥ स च प्रणम्य साष्टाङ्गं निविष्टो दापितासने । कुमारस्तं स्मितमुखं वीक्ष्य चित्ते व्यचिन्तयत् ॥ ४७ ॥ मुखश्रीरस्य दु:साधसाधित स्वामिकार्यताम् । निवेदयति नेदृक्षा मुखश्रीर्यदनेहसि ॥ ४८ ॥ ध्यात्वेत्याह कुतो यूयमागताः कः समेत्ययम् । स प्रोवाच कुमारस्य जयश्रीर्नामतः प्रिया ॥ ४९ ॥ एतस्या अत एवाहं सैन्यादस्मि समागतः । कुमारः प्राह नो हास्यवेला वद यथातथम् ॥ ५० ॥ स प्राह देवपादानां कथं विज्ञप्यतेऽन्यथा । कुमारेण कथमिति प्रोक्ते स प्राह सम्मदात् ॥ ५१ ॥ आदिष्टोऽहं पुरा देव पादैस्त्वदनुरूपकाः । कन्या निरीक्षितुं ताश्च सर्वत्रापि गवेषिताः || ५२ ॥ चित्रस्थितभवद्रूपसदृशी क्वापि तासु न । नगरेऽथागममहं नामतः कुसुमाकरे ॥ ५३ ॥ क्षत्रावतंसकुसुमावतंसस्य महीपतेः । कुसुम श्रीमहादेवीकुक्षिजेयं सुताद्भुता ॥ ५४ ॥ अन्यदा च समागच्छत्सुरभिः सुरभिः सुमैः । यत्र निर्यान्ति चैश्वर्यः समं विरहिजीवितैः ॥ ५५ ॥ जनेन रागिणा सार्धं बद्धस्पर्धेरिवाधिकम् । किंशुकैरपि पुष्पेषु रागो नीतः प्रकाशताम् ।। ५६ ।। दोलन्ति यत्र दोलाच चित्तानि च वियोगिनाम् । तपन्ति यत्र पान्थस्त्रीमनांसि रविणा सह ॥ ५७ ॥ विलासैः श्रीमतां सार्धं वर्द्धन्ते यत्र वासराः । जाता विरहिणीदुःखं निरीक्ष्यैव निशाः कृशाः ॥ ५८ ॥ १ युद्धे । २ भ्रमर्थः । कथान कम् ॥ जयशेखरप्रेपितविजयस्य प्रत्यागमनम् कुमारेण मि. लनं, वार्ता लापश्च ॥३॥ Page #7 -------------------------------------------------------------------------- ________________ ************ ततः पौरजनो गौरमुखः सर्वः स्मरोत्सवे । अचलत्काञ्चनाकल्पकल्पनास्थिरितेक्षणः ॥ ५९ ॥ सा कुमार्ययेनाहार्यरूपा भूपालनन्दना । यान्ती मदनपूजार्थ निरैक्ष्यत तदा मया ॥ ६० ॥ चिन्तितं च दलैश्चक्रे यैः कुमारोऽपराजितः । तैरेव विधिना मन्ये सेयं सुसदृशी ततः ॥ ६१ ॥ संयोगो विक्रमेणेव कुमारेण समं ततः । अस्या जयश्रियः कर्तुमुचितः प्रतिभाति मे ।। ६२ । ध्यात्वेत्यहि द्वितीयस्मिन् युष्मदुद्वाहहेतवे । राज्ञः कन्या मयायाचि स प्राहेति सुसुन्दरम् ।। ६३ ।। परं पुराप्यसौ कन्या याचिता बहुभिर्नृपैः । दर्शयित्वा कुमाराणां प्रतिरूपाणि मेऽग्रतः ॥ ६४ ॥ एकस्यापि परं रूपमस्या न प्रतिभासितम् । तत्त्वं रूपं कुमारस्य दर्शयाऽऽनीतमस्ति चेत् || ६५ ॥ मयाथ प्राक् सहानीतं चित्रस्थं चित्रकारि ते । चिद्रूप ! दर्शितं रूपमाप भूपस्ततो मुदम् ||६६ || | प्रैषीत्कन्यान्तिके तस्याः पश्यन्त्यास्तच्च तत्क्षणात् । समं रूपमरूपस्य शराश्च प्राविशन् हृदि ॥ ६७ ॥ य एव रत्नवलया दृढाः प्राग् दर्शनेऽभवन् । त्वत्सङ्गचिन्तादौर्बल्यात्त एवं लथतामगुः ॥ ६८ ॥ क्षणं परिचितेनापि त्वद्रूपेण वशीकृता । सा दर्शनरसादौज्झनिद्रां चिरसखीमपि ॥ ६९ ॥ अहोरात्रं तयालोक्य निजः प्रोचे सखीजनः । कल्ये रतिपतेः पूजाफलमेतन्मयाप्यत ॥ ७० ॥ अम्बामुखेन विज्ञप्तस्तातः शङ्केति मे हृदि । प्रतिविम्बसमं विम्बमस्ति वा नास्ति वाद्भुतम् ॥ ७१ ॥ तातादेशेन तदहं स्वयं गत्वावलोकये । प्रेषिता च नृपेणैपा प्रधानपुरुषैः सह ॥ ७२ ॥ प्रहितं चतुरङ्गं च सैन्यमेतत्तया सह । पथस्थान्यनुपव्यूह प्रत्यूह व्यूहनाशनम् ॥ ७३ ॥ यद्यस्यास्तत्र यातायाः कुमारः प्रतिभासते । कारणीयं ततः पाणिग्रहणं कृतविस्तरम् ॥ ७४ ॥ लब्धादेशाः प्रधानास्ते तत एव समागताः । सम्मर्देन यँता सत्यं सा जयश्रीः समागता ॥ ७५ ॥ विसर्जयत तथ्यमाडम्बरम१ स्वर्णाभूषणम् । २ अकृत्रिमरूपा । गच्छता । ************* जयश्रीप्रासिनिवेदनं, सैन्यविस जनन Page #8 -------------------------------------------------------------------------- ________________ अपराजित ॥ ४ ॥ शेषकम् । नैव यावदिहाद्यापि कन्यासैन्यं समेति तत् ॥ ७६ ॥ विसृज्य बलसन्नाहं कुमारः स्थानमागमत् । जनं संस्थापयामास बाह्यं चारक्ष्य पूरुषैः ॥ ७७ ॥ नृपः कन्यागमोदन्ते विजयेन निवेदिते । तं देशनायकं चक्रे प्रसादविशदाननः ॥ ७८ ॥ कन्यासैन्यस्य चावासस्थानकानि न्यधापयत् । प्रधानान्सम्मुखान्प्रेष्य सर्वमातिथ्यमातनोत् ॥ ७९ ॥ अन्यदा च तदावाससमीपेनापराजितः । इभारूढो वजन रङ्गतुरङ्गमचमूवृतः ॥ ८० ॥ शुभन् शुभ्रातपत्रेण वीज्यमानश्च चामरैः । अखण्डचण्डदोर्दण्डमण्डलाधिपमण्डितः ॥ ८१ ॥ | विराजमानो नेपथ्यछाययातीवतीव्रया । तस्या दृष्टिसुधावृष्टिरजायत कुमारतः ॥ ८२ ॥ ( त्रिभिर्विशेषकम् ) अचिन्तयच्च सा सैष नवः कोऽपि मनोभवः । एकेन गुणकाण्डेन जगज्जयति योऽखिलम् || ८३ || विश्वमान्या स्मरस्याज्ञा कुमारेणापि मानिता । दध्यौ च भूतले स्वर्गवर्णिनीवर्णिकासकौ ॥ ८४ ॥ कन्यया स्वप्रधानानां पुरतोऽथ निवेदितम् । चित्रकद्रूपतश्चित्रकृद्रूपं भूपजन्मनः ॥ ८५ ॥ प्रधानैः सुमुहूर्तेऽथ विज्ञप्तो जयशेखरः । देवापराजितस्येयं जयश्रीरुचिता प्रिया ॥ ८६ ॥ तदीयवचनं सद्यः प्रतिपद्य प्रमोदवत् । गणकैर्गणयामास सुलग्नं जगतीपतिः ॥ ८७ ॥ त्यक्तान्यकृत्यो भूपस्यादेशात्तस्याः परिच्छदः । एकाग्रचित्तः समभूत्पाणिग्रहणकर्मसु ॥ ८८ ॥ नृपस्य परिवारस्य कुमारस्य जयश्रियः । वासरास्ते प्रयान्ति स्म प्रमोदभरभासुराः ॥ ८९ ॥ वासरेऽथ विवाहस्य तूर्यनादे प्रसर्पति । दीयमानेषु दानेषु क्रियमाणे च मङ्गले ॥ ९० ॥ निःप्रत्यूहो विवाहो यद्यनयोः स्यात्ततोचरम् । दृग्दोषो भविता तथ्यं जल्पत्येवं जनो मिथः ॥ ९१ ॥ विवाहवेदिकामध्ये स्थितेऽपि च वधूवरे । वाताहतो दीप इव कुमारोऽदृश्यतामगात् ।। ९२ ।। कथान कम् । परस्परं दर्श नेन उभयोः प्रेम, परिण यनोत्सवः, वेदिकायाः कुमारस्या पहारश्च 118 11 Page #9 -------------------------------------------------------------------------- ________________ अथ विस्मयशोकानामभवद्भाजनं जनः । चक्रन्द राजपुत्री तु दैवोपालम्भ गर्भितम् ॥ ९३ ॥ विप्रयोगं ददानेन कुमारेण समं मम । कृतान्त ! किं त्वया प्रापि पीयूषे क्षिपता विषम् ||१४|| 'वैधेयोऽसि विधे ! सृष्ट्वा नृरत्नं तादृशं हरन् । निर्दयो वज्रहृदुष्टचरितश्च त्वमेव हि ॥ ९५ ॥ हा प्राणनाथ ! कल्पद्रोस्तव दूरेऽस्तु मे फलम् । न पाणिपल्लवोप्यापि मयका मन्दभाग्यया ॥ ९६ ॥ किं च प्रिय ! ममाख्याहि सुन्यस्तोऽपि मया हृदि । तस्मिन्नस्फुटिते नाथ ! सहसा निर्गतः कथम् ।। ९७ ।। विलपन्तीति सा बाढं मूच्छिता भूतलेऽपतत् । उपचारैश्च बहुभिः पुनर्जज्ञे स चेतना ॥ ९८ ॥ उवाच विरहे पत्युर्ज्वलनः शरणं मम । यदुत्तम कुल स्त्रीणामिदमेवोचितं भवेत् ॥ ९९ ॥ नृपो जगाद मा खेदं कुरु वत्से ! यतस्तव । पाणिग्रहणं तेन योग्यतास्त्यपरे वरे ॥ १०० ॥ सा प्राह तातपादानां वक्तुं नैतद्धि सङ्गतम् । व्यवहारो ह्ययं भर्ता स तु यो मानितो हृदि ॥ १०१ ॥ तन्मे स एव शरणमथवासौ हुताशनः । अलं कालविलम्बेन यद्दूरे याति वः सुतः ॥ १०२ ॥ कथं निवर्तनीयेयमित्यार्त्तमनसोस्तदा । नृपदेव्योर्विसस्मार दुःखं सुतवियोगजम् ॥ १०३ ॥ नृपो जयश्रियं प्राह वत्से ! मम निदेशतः । मासमेकं प्रतीक्षख यथा शुद्धिं विधाये ॥ १०४ ॥ दुर्ग्रहाभिग्रहा तस्थौ सापि देव्यपि दुःखतः । नृपस्त्वकारयत् शुद्धिं सर्वत्र प्रेष्य सादिनः ॥ १०५ ॥ आघोषणा नरेन्द्रेण पुरीमध्येऽपि कारिता । कुमारशुद्धयाख्यात्रे खराज्यस्यार्ध ददाम्यहम् ॥ १०६ ॥ प्रधानगमनाज्ज्ञातोदन्तः कन्यापितापि हि । सर्वत्राशोधयत्प्रेष्य सादिनोऽनवसादिनः ॥ १०७ ॥ तत्पित्रोरुभयत्रापि त्यक्तराज्याङ्गकार्ययोः । कल्पकल्पा दिना यान्ति दुःखसाम्राज्यशालिनोः ॥ १०८ ॥ त्रिंशत्तमे दिने कन्या प्राह पूर्णोऽधुनावधिः । तदादिशत येनाहं करोमि स्वसमीहितम् ॥ १०९ ॥ १ मूर्खः । कुमारापहारेण सर्वेषां शोकः तस्य शुद्ध्यर्थ प्रयासः, तस्याप्राप्तौ जयश्रियाः चिताप्रवेशादेशयात्रा Page #10 -------------------------------------------------------------------------- ________________ अपराजित ॥ ५॥ 19948898 प्रतीक्षस्व चतुर्यामीमित्युक्त्वा सा स्थिरीकृता । सम्बोधयितुमारब्धा न चायुध्यत्कथञ्चन ॥ ११० ॥ तस्यां कृतोपवासायामखिलोsपि पुरीजनः । चित्रलिखितवञ्जज्ञे सर्वकार्यविवर्जितः ॥ १११ ॥ साथ सायं वशारूढा वार्यमाणापि भूभुजा । सुवर्णवृष्टि कुर्वाणा पूर्णचन्द्रमुखप्रभा ॥ ११२ ॥ स्वसैन्यकृतमाक्रन्दं समकालं च शृण्वती । जङ्गमं तीर्थमेषेति श्लाघ्यमाना सखीजनैः ॥ ११३ ॥ सङ्गमो दयितेनास्या अस्मच्छीलेन जायताम् । इत्थमाशास्यमानोचैर्वृद्ध स्त्रीभिः पदे पदे ॥ ११४ ॥ पौरलोककृतान्देवोपालम्भानपि | शृण्वती । राज्ञानुगम्यमाना सा निर्गता नगराद्वहिः ॥ ११५ ॥ ( चतुर्भिः कलापकम् ) तया गत्वा नदीतीर्थे चिता चन्दनदारुभिः । कारिता ज्वलनज्वालामालाभिरतिदारुणा ॥ ११६ ॥ चन्दनागरुदारूत्थ वह्निचिह्न प्रसर्पणात् । वास्यन्ते स्म दिशस्तस्या यशसेव समन्ततः ॥ ११७ ॥ कुमार्यथ स्फुरंद्वामचक्षुश्चित्ते व्यचिन्तयत् । अभूद् ध्रुवं समासन्नः प्रस्तावः प्रियसङ्गमे ॥ ११८ ॥ तदा च तरणिस्तादृगसमञ्जसमीक्षितुम् । अक्षमोऽस्ताद्रिगो वा झम्पां दातुं प्रचक्रमे ॥ ११९ ॥ चिताहुताशनज्वालामाला भीता इवाभितः । अनुसस्रुः शिखरिणां शिखराणि विहङ्गमाः ॥ १२० ॥ दृष्ट्वा जनस्य दुःखौघं दुःखिताया नमः श्रियः । सन्ध्यारागमिषान्मन्ये हृदयं सहसाऽस्फुटत् ॥ १२१ ॥ वधूर्गजवधूपृष्टोत्तीर्णा श्वशुरयोः पदौ । नत्वा व्यजिज्ञपन्मौलिसम्मीलितकरद्वया ॥ १२२ ॥ मया श्रीपूज्यपादानां यत्किञ्चिद्विप्रियं कृतम् । कुलरूपधनमदैः प्रमादादथ चापलात् ॥ १२३ ॥ लोभकैतववाल्यैश्च तत्क्षम्यं सर्वमेव मे । पूज्यपादाब्जभृङ्गीत्वभाग्यं नाभूच्चिरं मम ॥ १२४ ॥ निर्गुणाप्यपगुण्यापि भवान्तरगतापि हि । निजनन्दनभार्येति स्मर्याहं पूजितक्रमैः ।। १२५ ।। श्रुत्वेति वचनं तस्याः करुणं विनयान्वितम् । धैर्यवृत्तिं विमुच्योच्चैः पूच्चकार धराधवः ॥ १२६ ॥ अथैकहेलया सर्वजनाक्रन्दे समुत्थिते । वनदेव्योपि चक्रन्दुः प्रतिशब्दपदेशतः ************* कथान कम् । नदीतीरे चन्द नैचिताकरणं, बामनेत्र स्फुरणञ्च ॥५॥ Page #11 -------------------------------------------------------------------------- ________________ ॥ १२७ ॥ उवाह वाहिनी नेत्राम्बुभिस्तत्र चमूकृतैः । अतिधीरैरपि तदा कैः कैर्न रुदितं नरैः ॥ १२८ ॥ सा प्राह वह्निं भगवन् ! | साहसस्यास्य चेत्फलम् । अस्ति तत्परलोकेऽपि भूयाद्भर्तापराजितः ॥ १२९ ॥ इत्युक्त्वा त्रिः प्रदक्षिण्य वह्निं यावत्तदन्तरे । झम्पां ददाति सा तावत्कश्चित्तत्रागमन्नरः ॥ १३० ॥ स च खड्गकरः प्राह साहसेनामुना कृतम् । पित्रोराज्ञास्ति ते झम्पां यदि दत्से हुताशने ॥ १३१ ॥ धूमेन वदनं तस्याः सोऽपश्यन्नाह का शुभे ! । त्वं कस्य हेतवे चैवं साहसं च व्यवस्यसि ॥ १३२ ॥ कुशल्यस्ति समं देव्या देवः श्रीजयशेखरः । या चागता कुमार्यासीदिह साभूत्कथं शुभा ॥ १३३ ॥ पित्राज्ञायत्रिता साथ विरम्या - नलपाततः । तस्याननमपश्यन्ती प्रकाशं द्वेषभावतः ॥ १३४ ॥ मदीयप्रस्तुतार्थस्य कोऽयं विनकृदागमत् । हृदये चिन्तयन्तीति तस्याख्यातुं प्रचक्रमे ।। १३५ ।। या पृष्टा भवता साहं कुमारार्थे करोम्यदः । तं नृरत्नं विना तातः कुशली सपरिच्छदः || १३६ ॥ वदन्त्येति तया मुक्ते महति ऋन्दितस्वरे । हर्षखेदयुतो दध्यौ कुमारो निजमानसे ।। १३७ ॥ कृते मे क्षणदृष्टस्य सुमकोमलयानया । सहसा सर्वमुज्झित्वात्मा तुलाग्रे नियोजितः ॥ १३८ ॥ तत्किञ्चिदुष्करस्यास्याः सुकृतस्य करोम्यहम् । तदस्या न भविष्यामि कदाचन पराङ्मुखः ॥ १३९ ॥ इयं चम्पकमालैव लब्धा देवप्रसादतः । अम्लाना प्रेमसौरभ्या सदा वसतु मे हृदि ॥ १४० ॥ ध्यात्वेति तामुवाचायं यस्यार्थे मृगलोचने ! । करोष्येवं न तं दृष्टमुपलक्षयसेऽपि हि ॥ १४१ ॥ श्रुत्वेत्यस्या विस्मितायाः स्फूर्त्या - भूत्सधरोऽधरः । दध्यौ किमेष वक्तीदं किं च स्फुरति मेऽधरः ॥ १४२ ॥ तदा दर्शयितुमिव कुमारमुखकैरवम् । नेत्रनीलोत्पलस्या| स्याद्रष्टुं विस्मेरतामिव ॥ १४३॥ तापितानि तदङ्गानि सिञ्चन्निव सुधारसैः । सुधारुचिरुदीयाय तस्याः सह मुखश्रिया ॥ १४४॥ ( युग्मम् ) १] दिव्यपरीक्षाया भने । *99****9999999969XEYNECOLESSESSEX यावज्झम्प ददाति तावदपराजिता गमनम् Page #12 -------------------------------------------------------------------------- ________________ अपराजित कथानकम् । तत्रैव गान्धवेण विवाहः पित्रोः मिलनञ्च कुमारमुखचन्द्रं च निस्तन्द्रं चन्द्ररोचिषा । वीक्ष्य कण्ठे विलग्यापि मुक्तकण्ठं रुरोद सा ॥१४५॥ आश्वासिता च तेनेयं तैस्तैर्मधूरभाषितैः । समग्रं गलितुं लग्नं दुःखं स्वेदाम्भसा समम् ॥१४६॥ रसौ विजृम्भितौ तुल्यमेव प्रेमप्रमोदयोः । अङ्गतापमनस्तापा-1 वतीतौ सममेव तत् ॥ १४७ ॥ अङ्गानि च प्रफुल्लानि नयनेन्दीवरैः सह । अस्फुरच शरीरे श्रीः पुलकेन सह क्षणात् ॥ १४८॥ | अथ तस्या दृढाश्लेषवामनीभूतवक्षसः। यत्किञ्चन सुखं जातं तत्स्वर्गेऽपि सुदुर्लभम् ॥१४९ ॥ साक्षीकृत्य तमेवाग्निं ताभ्यां चित्तोत्सवात्ततः । गान्धर्वेण विवाहेन विदधे पाणिपीडनम् ॥१५०॥ तथा कथञ्चन तयोमीलितो पाणिपल्लवौ । अवियुक्तौ यथाकामकलम्बैः किलिताविव ॥१५१॥ साथ प्राह प्रियतम! पौरलोकेन संयुतौ । मदीयेन च सैन्येन बह्वाक्रन्दपरिश्रमात् ॥१५२॥ त्वदीयेन वियोगेन समानेन च कर्मणा । स्तस्तटिन्यास्तटे बाढं देवो देवी च दुःखितौ ॥१५३ ॥ कस्याप्यत्र तु नागन्तुमदायि शपपूर्वकम् । निर्विघ्नं प्रस्तुतं कार्य मयाभिलषमाणया ॥१५४ ॥ तद्वः समुचितं कर्तुं मुदं पित्रोः खदर्शनात् । कुमारोऽथ पुरस्कृत्य तामगात्तत्र वित्तमः॥१५५॥ आगच्छन्तौ च तौ वीक्ष्य जनोऽश्लाघत तत्प्रियाम् । तथाकर्णयतस्तस्य प्रेम द्विगुणतां| गतम् ॥१५६ ॥ कुमारमागतं वीक्ष्य प्रतीहारस्तयान्वितम् । राज्ञे व्यज्ञपयत्सोऽपि शीघ्रमेत्य ननाम तम् ॥ १५७ ॥ निरन्तराश्रुधाराभिरारात् पितृपदद्वयम् । असिक्त स तथा तापो यथा मूलाव्यलीयत ॥१५८ ॥ नृपोऽपि तनयं प्रेक्ष्य जातानन्दाश्रुविन्दुभिः । प्रह्वीचके कुमाराय दातुं मुक्तालतामिव ॥ १५९ ॥ देवीमप्यागतां तत्रोत्कण्ठया प्रणनाम सः । तत्पादाम्बुजयोर्वेणीमलिश्रेणीमिवादधत् ॥ १६० ॥ प्रमोदेनात्रुटन्मातुः सर्वाः कनुकसन्धयः। ऊचे च नन्दनं पुण्यैयुवां मे कोटिवत्सरीम् नेत्रकमलैः। २ हर्षेण । ३ कामबाणैः। ४ शपथपूर्वकम् । ५ पण्डितप्रवरः ।, Page #13 -------------------------------------------------------------------------- ________________ अपराजितेन स्वापनयनवृत्तान्तकथनम् ॥ १६१ ॥ जनं शेषमशेषं च कुमारो वीक्ष्य सादरम् । आसन्नो न्यषदद्राज्ञो नम्रशीर्षः कृताञ्जलिः॥१६२॥ पित्रोः प्रियाया लोकानां सेरैर्नयनवारिजैः। कुमारस्यांश्चिताङ्गस्य शोभा काप्यद्धताभवत् ॥१६३॥ आनखाग्रं शिखाग्रं च कुमारं वीक्ष्य भूपतिः। उवाच स्वागतं वत्स! स प्रोचे दर्शनेन वः॥१६४ ॥ पश्यतां व गतोऽसि त्वं कुतश्चागात्तवाद्भुतम् । चरितं भाति मे सोऽथ प्रोवाच रचिताञ्जलिः॥१६५॥ देवस्यैव प्रसादोऽयं पश्य निम्बोऽपि पूज्यते । जनैर्यत्तस्य सा सम्भावना दिनकृता कृता ॥१६६॥ देवावधार्यतां वीतं सर्व विज्ञपये यथा । क्वापि केनापि नीतोऽहमिति जानामि नादितः॥ १६७ ॥ प्रातस्त्वाराममध्यस्थप्रासादे सप्तभूमिके । विबुद्धोद्राक्षमात्मानं दोलापल्यङ्कशायिनम् ॥ १६८॥ निविश्याहं ततो दध्यौ व पुरं मे पिता क च । काम्बा च क च सा कन्या क्व मे परिजनोऽखिलः ॥१६९ ॥ वमोऽयमिन्द्रजालं वा किंवा मेऽसौ मतिभ्रमः । स्वर्गोऽयं नागलोको वा यावद्ध्यायाम्यदो हृदि ॥१७० ॥ तावद् द्वास्तोरणस्तम्भशीर्षाभ्यां बालिके उभे । अवतीर्णे रत्नमये मम विसयदायिके ॥ १७१॥ सुगन्धसरसखच्छ-1 वारिमाणिक्यकुम्भभृत् । तयोरेकाऽपरा पाणौ दर्पणं दधती पुनः ॥ १७२ ॥ ते वीक्ष्य स्वर्वधूतुल्ये विस्मितो यावदस्म्यहम् । तावदाद्या समागत्य प्राह प्रक्षाल्यतां मुखम् ॥ १७३॥ तथा कृते मयादर्शमपरा मे समर्पयत् । यावद्वीक्ष्ये मुखं तावत् श्रुतो जयजयध्वनिः ॥ १७४ ॥ पृष्टा कलसहस्ताथ कुत एष जयध्वनिः । सोचे पोतनभूनेजयसिंहस्य नन्दना ॥१७५ ॥ जयसुन्दरी|नामासौ कन्या नित्यं समेति च । प्रासादस्यां सत्यगिरं देवीं नन्तुं प्रियङ्करीम् ॥१७६॥ (युग्मम्) असौ वरार्थिनी सन्ध्यात्रयेऽपि प्रशंसिताजस्म । भंपरा..२ Page #14 -------------------------------------------------------------------------- ________________ अपराजित कम्। ॥७॥ | अपराजितस्य जयसुन्दया सह वार्तालापः कुरुतेतराम् । वीणाया वादनमिति षण्मासा व्यतिचक्रमुः॥१७७॥ तद्भक्तितुष्टया देव्याऽऽवयोरादिष्टमित्यथ । सन्ध्याया समये यात जयन्त्यां जैवतो युवाम् ॥ १७८॥ विवाहवेदिकामध्यादजाते पाणिपीडने । इह चानयतं वेगात्कुमारमपराजितम् ॥१७९ ॥ यतो नृपाग्रतो दैवज्ञेनास्तीदं निवेदितम् । यः पल्यङ्कमलका युष्मदुद्यानसौधगम् ॥१८०॥ निबद्धकङ्कणो यश्च विनयं पुत्रिकाकृतम् । प्रपन्नो प्रथमा तस्य गृहिणीयं भविष्यति ॥१८१॥ (युग्मम्) तदावाभ्यां हृतोऽसि त्वं शक्त्या सुन्दर ! दिव्यया । श्रुते तत्कथिते यावदर्पयामि न दर्पणम् ॥ १८२॥ तावत्तत्रैव सम्प्राप्ता सहसा जयसुन्दरी । पाञ्चालीचरितं वीक्ष्य मेराक्षी सा व्यचिन्तयत् ॥ १८३ ॥ तन्नास्ति यद्भवे न स्यादिति सत्यवचोऽभवत् । विनयं कुर्वते क्वापि पुत्रिकाः किमचेतनाः॥१८४ ॥ देव एवायमीक्षं रूपं मर्येषु नो यतः। ध्यायन्ती व्युदिता ताभ्यां मा सुन्दरि ! विकल्पय ॥ १८५॥ वरोऽयं तुष्टया देव्याऽऽनायितस्तव हेतवे । अपराजितनामायं साथ हीमन्थराभवत् ॥ १८६॥ दिष्टिज्ञादिष्टमस्मार्षीन्मयाथ निजमाननम् । निरीक्ष्यार्पित आदर्श पुत्रिके स्थानकं गते ॥१८७॥ ततश्च जयसुन्दर्या सकर्पूरं ममार्पितम् । ताम्बूलं कण्ठतो न्यस्ता कण्ठे मे वनमालिका ॥१८८॥ ताम्बूलार्द्ध मया दत्त्वा तस्याः कण्ठे वकण्ठतः। न्यस्ता मुक्तावली सोचे वेषः परिणयोचितः॥१८९॥ किमेप वो मया ख्याते वृत्तान्ते दिव्यवाससी । आनाय्य सार्पयन्मह्यं मया परिहिते च ते ॥ १९॥ तयोचे च सविनयं जनोऽयं निखिलोऽपि वः। ततः कार्य यत्किमपि तदादेश्यमसंशयम् ॥१९१॥ यौष्माकं दर्शनं प्रापि दुष्प्राप्यं यत्प्रसादतः। तां देवीमर्चये गत्वा यद्यादेशः प्रजायते ॥ १९२॥ स्मित्वा मयोचे सा पूज्या ममापि तव दर्शनात् । सा प्राह यूयं यद्येत कृतार्था तद्भवाम्यहम् ॥ १९३ ॥ ततः पुरस्सरस्तस्याश्चलितः सापि पृष्ठतः। कतिचिच्चेटिकायुक्ताश्चेभायं तु बहिःस्थितम् ॥ १९४ ॥ मया १ वेगतः । २ ज्योतिर्वित् । ३ आजानुलम्बिनी माला सर्व कुसुमोज्वला । मध्ये स्थूलकदम्बाब्या वनमालेति कीर्तिता। Page #15 -------------------------------------------------------------------------- ________________ तयोईयोः परिणयनं अपराजितख | पित्रोमिळनं, पित्रा जयसुन्दर्यानयनाय प्रधानप्रेषण तया च गत्वाथ बहुद्रव्यैः सुगन्धिभिः । हसन्तीव वदन्तीवाचिंता देवी प्रियङ्करा ॥१९५॥ विज्ञप्ता च मया देवि! त्वया कार्य प्रियङ्करि! | कुशलं तातपादानां मातुः पुत्र्याश्च भृपतेः॥१९६ ॥ तयाथ वादिता वीणा यन्माधुर्याद्विधुर्दिवा । नोदेति चिन्त| यन्नेवं मा मे यातु मृगोऽङ्कतः ॥ १९७ ॥ ततस्तया सहैवाहमागमं तत्र मन्दिरे । किश्चिन्मुक्त्वा परिजनं सा निजावासमासदत् |॥१९८॥ साऽऽख्यद्वृत्तान्तमम्बायाः सा राज्ञे सोऽथ विसितः। प्रेषीदोगोपभोगाङ्गान्यखिलानि कृते मम ॥ १९९॥ गणकैर्ग|णिते लग्ने सामग्री विदधेऽखिला । व्याहृताः खजना भूपाः प्रधानान्प्रेष्य सर्वतः ॥२०० ॥ सुमुहर्तेऽथ मिलिते राजके निजके|ऽखिले । सर्वानन्दमयं जज्ञे पाणिग्रहणमद्भुतम् ॥ २०१॥ राज्ञाष्टादशकोट्यो मेऽष्टापदस्य शतं गजाः । दशलक्षास्तुरगाणां दत्ताश्च करमोचने ॥२०२॥ सर्वत्र खनरान्मुक्ताऽनाख्याय निशि निर्गतः । त्वया खेदो न धार्योऽहमेष्यामि केतिथैर्दिनैः ॥२०३॥ भित्तौ वर्णा लिखित्वेति कस्तूर्या करवालभृत् । अद्यैव चलितः प्राप्तः समिलायुगयोगवत् ॥ २०४ ॥ यद्यद्य तात नायामि तज्जीवन्ती | स्नुषा न वः । नियमेन भवेत्तेन राधावेध इवाभवत् ॥ २०५॥ । अथ वत्साभिजातोऽसि वदता मेदिनीभुजा । रोमाञ्चितशरीरेणाश्लेषे गाढं स्खनन्दनः ॥२०६॥ सन्तोषजागरं कृत्वा निशि | भानूदये ततः। आरोह्य सिन्धुरस्कन्धे धरणीशो वधूवरम् ॥ २०७ ॥ अकारयत्पुरस्थान्तःप्रवेशकमहोत्सवम् । वर्धापनानि जातानि परितोऽपि पुरान्तरा ॥ २०८॥ आनेतुं प्रहिता राज्ञा प्रधाना जयसुन्दरीम् । मुदां कुमारनामाङ्कां समर्प्य प्राभृतानि च ॥ २०९॥ ते द्वाःस्थावेदिता नत्वा राज्ञः प्राभृतमार्पयन् । असमानं च सन्मानं तेनापि विदधे मुदा ॥२१०॥ प्रधानैर्जयसुन्दर्या १ सुवर्णस्य । २ कतिपयैः। ३ हस्तिनः स्कन्धे । Page #16 -------------------------------------------------------------------------- ________________ अपराजित कथान मुद्रारत्नं समर्पितम् । सा न्यास्थदलौ विप्रलम्भतापापहारि तत् ॥ २११ ॥ तदा कथमनाख्याय कुमारोगादिति स्वयम् । राज्ञा पृष्टे निजगदुर्वृत्तान्तमखिलं च ते ॥ २१२ ॥ नृपः प्रोवाच नो भित्तौ वर्णाः स्युर्लिखिता यदि । तदस्या अपि सन्देहोऽभविष्यत् जीवितं प्रति ॥२१३॥ स्वर्णकोटिं ततस्तेभ्यः प्रसादेन ददौ नृपः। तुष्टया च कुमार्या ते निन्यिरे निजमन्दिरे॥२१४॥ पुनः पुनर्वियोगाग्नितापनिर्वापणौषधम् । अपृच्छत्सा कुमारस्योदन्तं श्रुतिसुधारसम् ॥२१५॥ साथ स्वतातानुज्ञाताश्वेभाडादाय तैर्युता ।क्रमाद्गता पतिपुरं जयन्ती रूपतः सुरीः॥ २१६ ॥ रतिप्रीतिसदृक्षाभ्यां ताभ्यां युक्तोऽपराजितः । कुमारोऽभिमुखं तस्थौ रूपेण विषमायुधः ॥२१७॥ अन्यदा प्रबलो दाहज्वरो देव्या अजायत । त्यक्तान्यकृत्यो भूपालस्तच्चिकित्सामकारयत् ॥२१८॥ न कोप्यस्य प्रतीकारं चक्रे देशान्तरा भिषक् । उवाच बहिरुद्यानेऽधिष्ठिते विषाहिना ॥२१९॥ अस्ति वापी तदुद्भूतैरम्भोजैः स्रेस्तरे कृते । दाहोपशमिता भूपस्ततश्चिन्तातुरोऽभवत् ॥ २२०॥ (युग्मम् ) कस्तत्र प्रविशेञ्जीवनिर्गच्छेत्कस्ततो वनात् । न च खेन परेणापि कार्यमेतत्प्रसाध्यते ॥ २२१ ॥ तदाऽऽयातः कुमारस्तं नतः श्याममुखच्छविम् । वीक्ष्यापृच्छन्नृपोऽप्याख्यदथोवाचापराजितः ॥ २२२॥ चेन्नानयामि पद्मानि तन्नाहं तनयोपि वः। नृपः प्रोवाच दुःखाग्निं मा ज्वालय वदन्निति ॥ २२३ ॥ राज्यश्रीयमनाथां मा कुरु | वत्स! सुतोऽवदत् । जीवन्तं तात! मन्ये खं मातुरातुरताहृतेः ॥ २२४ ॥ प्राणा भवे भवेऽपि स्युन तात! समयस्त्वयम् । ततो यदुर्लभं तत्र यत्नः कार्यों मनीषिणा ॥ २२५॥ प्राणानम्बां ददौ मह्यं तस्यैतांश्चेद्ददाम्यहम् । ततः किश्चित्कृतं मे स्यादथ दध्यौ धराधिपः ॥२२६॥ निर्बन्धो रुचिरो नास्य ध्यात्वेति स्वाङ्गरक्षकान् । शतानि पञ्चशोऽमुञ्चदमुश्च परिरक्षितुम् ॥ २२७ ॥ १ विप्रलम्भो-बियोगः तस्य तापापहारि । २ शयने । मातुर्दाहो ज्वरोद्भवच, कृतेऽप्युपाये रोगोपशमाभावाद्वाज्ञचिन्ताच ॥८॥ Page #17 -------------------------------------------------------------------------- ________________ मातृरोगोपशान्तये विषसाधिष्ठितकमलानयनाय कमप्यनुक्त्वैव वाप्यामव तरणम् तेन ते भोजिताः स्निग्धं घृतपूरादिभोजनम् । अतीव तेषु निद्राणेष्वपद्वारेण निर्ययौ ॥ २२८ ॥ विद्युदुतक्षिप्तकरणाप्रमुल्लङ्ग्य सोऽगमत् । उद्यानस्यान्तिके दध्यौ प्रतीक्षेऽर्कोदयावधि ॥ २२९॥ कुमारसाहसं द्रष्टुमिवोदिते दिवाकरे । स्मरन्पञ्चनमस्कारमुद्यानमविशच्च सः॥ २३०॥ तदीयपुण्यमाहात्म्यात् दृग्विषो निर्विषोऽभवत् । वनदेवीकेशपाश इव दृष्टश्च तेन सः॥ २३१॥ दीर्घिकायास्ततः प.र्दीर्घपृष्ठः स पूजितः । उक्तं च भगवन्भूयाः प्रसन्नो मे क्षमख च ॥ २३२ ॥ इत्युक्त्वा यावदुद्यानान्निरगात्तावता नृपः । ज्ञात्वा तं गतमुद्यानमायासीत्तस्य सम्मुखः ॥२३३॥ नत्वा कुमारोऽब्जमेकमार्पयत्प्राह भूपतिः। अत्यद्भुतं चरित्रं ते वत्स! वाचामगोचरम् ॥ २३४ ॥ स प्राह सवितुर्दीप्त्या दूरे याति तमो मम । आख्यच्च सर्व वृत्तान्तं नृपो हर्षादुवाह च ॥ २३५ ॥ ततो नृपार्पिताश्वाधिरूढोऽयं भूभुजा समम् । सौधमागत्य तैः पौर्मातुः शय्यामसज्जयत् ॥ २३६ ॥ गते च सहसा देहदाहे कीर्तिरकृत्रिमा । प्रससार कुमारस्याभूवन् वर्धापनान्यथ ॥२३७॥ निशश्च पश्चिमे यामे सर्पः खमे जगाद तम् । तुष्टोऽहं ते त्वयागम्यमुद्याने मम निर्भयम् ॥ २३८ ॥ फलपुष्पादिकं सर्वमादेयं च यथारुचि । स नित्यमानयत्येकस्ततः पुष्पफलादिकम् ॥ २३९ ॥ कृत्वा मालाद्वयं कण्ठे पित्रो रोपयते सदा । ब्रूते चादिश्यतां तन्मे यन्मयापि हि सिध्यते ॥२४॥ तावृचतुर्यदि पुण्यमगण्यं किञ्चिदस्ति नौ । भवे भवेपि तद्भूयाद्भवानेवाङ्गसम्भवः ॥२४१॥ त्वदीयैः सुचरित्रैर्यन्नेत्रस्थमपि हर्षजम् । जलमङ्गानि सर्वाणि शीतलीकुरुते सुत! ॥२४२ ॥ विषस्तु कुमारेण कुसुमाञ्जलिमोचनात् । क्षीरस्य पायनाद्वापि बाढमावर्जितो हृदि ॥ २४३ ॥ १ सर्पः। Page #18 -------------------------------------------------------------------------- ________________ अपराजित कम् । ॥९ ॥ तस्यैवं विनयस्थस्य बहवः शरदो ययुः । अन्यदा शिरसोऽा स नागमनागमक्षमः ॥ २४४ ॥ दुग्धलुब्धस्तु नागृहन्ना-IN कथानगोऽन्यदशनं न च । कोऽप्युद्याने विशेतत्र विनैकमपराजितम् ॥२४५॥ क्षुधितोऽहस्विकं सोऽस्थात्तुर्येऽति निधनं गतः। क्षेत्रपालोऽभवद्ध्यायन्नवधेर्जन्म सोऽस्मरन् ॥ २४६॥ मत्वा संस्कार्यमाणं स्वमङ्गं चन्दनदारुभिः । कुमारेणावधेस्तस्यानवधिप्रेमजातवत् ॥ २४७ ॥ दध्यौ च कृतवेद्येष निश्यदात्तस्य दर्शनम् । ऊचे च मित्र! मां वेत्सि क्षेत्रेशोऽसीति सोऽवदत् ॥ २४८॥ विशेषं तु| रात्रौ देवदर्शन तेन सह रखकत्वयाऽऽख्यातं ज्ञास्याम्यथ स आलपत् । त्वत्संसर्गादहं शुद्धभावो देवोऽभवं सखे ! ॥ २४९॥ त्वया संस्कार्यमाणं तद्देहं वीक्ष्या टाचळयान, तिहाईतः । आगतोऽस्म्यत्र चेद्वक्षि स्वावासं त्वां ततो नये ॥ २५० ॥ तन्मते तमनैषीत्स रत्नकूटाचलं क्षणात् । कपाटान्स्फा- नाटकप्रेक्षण, टिकानुद्धाट्य च मध्ये प्रवेशितः ॥ २५१॥ हतध्वान्तान्मणीराशीनपश्यच्च सहस्रशः। लोट्यमानं पदावत दिव्यनार्या च रखमालाकूपतः ॥ २५२॥ क्षेत्राधिपोक्तस्तन्नीरं शर्करावादसोदरम् । पपौ कर्पूरपूराभगन्धं केलि जलेऽप्यधात् ॥२५३।। दध्यौ चामृतमेवैतत् श्रीरस्य च नृपाधिका । देवदृष्याण्यदृष्यानि दत्तान्यमै सुपर्वणा ।।२५४॥ गत्वोद्याने च पुष्पाण्यादाय प्रसादमागतः । रत्नानि जिनबिम्बानि पूजयामासतुर्मुदा ॥२५५॥ कुमारस्तानि बिम्बानि पूजयित्वा जनुर्निजम् । जीवितं च कृतार्थत्वकलितं मतवान्मुदा ।। २५६ ॥ क्षेत्रेशेन जिनेशाग्रे तस्य दर्शनहेतवे । द्वात्रिंशत्पात्रसम्बद्धं नाटकं प्रकटीकृतम् ॥२५७॥ दध्यौ कुमारो नैवास्ति सीमा रम्येषु वस्तुषु । वीते च नाटके प्राह कुमारं क्षेत्रनायकः ॥ २५८ ॥ रत्नमालां गृहाणेमामन्यत्कार्य च ते भवेत् । यत्किश्चित्तदहं | ॥९॥ वीक्ष्यस्तत्रोद्याने निशाक्षणे ॥ २५९ ॥ आदाय रत्नमालां स पुनदर्शनमर्थयन् । नीतश्च सौधपल्यकं तेन हुङ्कारमात्रतः ॥ २६० ॥ दध्यौ च रत्नमालेयं पित्रोः कस्यार्पणोचिता । मातुर्दुष्प्रतिकारत्वानिश्चिक्ये च तदर्पणम् ॥ २६१ ॥ न्यस्यन् कण्ठे सज प्रातः पृष्ट प्रादानश्च Page #19 -------------------------------------------------------------------------- ________________ SAGDAGDAGDAGDAGDAG ******* एष महीभुजा । दिव्यान्येतानि वस्त्राणि दिव्यः परिमलश्च ते ॥ २६२ ॥ रत्नावल्यां तथैकैकं रत्नं राज्यार्थमर्हति । रात्रिवृत्ते तदाख्याते सजनो विस्मितो नृपः ।। २६३ ।। उवाच भवता वत्स ! देवा अपि वशीकृताः । कृतार्थोऽस्मि त्वया दीर्घ जीवितं प्रार्थये तु ते ॥ २६४ ॥ तातस्येति गिरा धन्यंमन्योऽजनि नरेन्द्रजः । कृत्यमेतद्धि पुत्राणां रञ्जनं जनिका रिणोः ।। २६५ ।। रत्नमालां भक्तिमिव मातुः कण्ठे न्यधत्त सः । पृष्टो राज्ञाऽवदत्तस्या गाढं दुष्प्रतिकारताम् ॥ २६६ ॥ नृपः प्राह त्वदन्यः को जानात्येवं सुनन्दन । दध्यौ सुतो रत्नमालां दास्ये तातस्य चापराम् ॥ २६७ ॥ गतो निश्यन्यदोद्याने निशीथे सुरमैक्षत । तेनोचेऽहं स्मृतः कस्मात्स प्राहोत्कण्ठितोऽधिकम् ॥ २६८ ॥ स्मित्वाह क्षेत्रपालस्तं ज्ञातं रत्नावलीकृते । कण्ठादुत्चार्य सौवात् स ददेऽन्यश्च समाददे ॥ २६९ ॥ क्षेत्रेशः प्राह मेऽर्थस्ते निजः कथ्यं ततो मम । कुमारः प्राह कल्पद्रोः किं किं सम्पद्यते न वा ॥ २७० ॥ तमापृच्छयागते देवे स दध्यौ पुण्यतोऽखिलम् । सम्पद्यते ततस्तस्यार्जने कार्यः सतोद्यमः ॥ २७९ ॥ ध्यायन्निति समागत्य पितुः कण्ठे न्यधादिमाम् । पृष्टो वृत्तान्तमाख्यच्च दध्यावथ मुदा नृपः ॥ २७२॥ सुतः कीदृक् कृतज्ञोऽयं यदाद्या मातुरर्पिता । रत्नमाला मम परा यौवने कोऽपि नेदृशः || २७३ || यौवने भोगतृष्णार्त्ताः सुता हि स्युर्वधूमुखाः । पित्रोस्त्वखण्डं विनयं विरला केऽपि कुर्वते ॥ २७४ ॥ इत्यानन्दिततातोऽयं सर्वेषु जिनवेश्मसु । महं च महिमानं च भावशुद्ध्या व्यधापयत् || २७५ || उद्दधार च जीर्णानि जिनवेश्मानि सर्वतः । बहुशो रथयात्राश्चाकारयद्विस्तरेण सः ॥ २७६ ॥ अथार्धरात्रे रुदितं स्त्रियः श्रुत्वा नरेन्द्रजः । कृपाणपाणिस्तत्रागात् तत्पृष्ठे च नरेश्वरः ।। २७७ ।। रत्नाभरणसम्भारध्वंसितध्वान्तविस्तराम् । तामुवाच कुमारश्च गुप्तोऽश्रौषीच्च तत्पिता ॥ २७८ ॥ का त्वं रोदिषि कस्माच्च सोचे ख्यातुं न युज्यते Kkkakka अर्धरात्रौ खिवा रुदनं युवोद्यानगमनम् Page #20 -------------------------------------------------------------------------- ________________ अपराजित ॥ १० ॥ त्वं तु सत्पुरुषो येनोपचिकीर्षुरिहागतः ॥ २७९ ॥ तत्तवाख्याम्यहं देवी राज्ञोऽनिष्टाच्च रोदिमि । तत्कीदृगिति तेनोक्ते सोचे सायं विनयति ॥ २८० ॥ येनास्ति योगिनीवृन्दं निखिलं मिलितं पुरः । आस्फालितडमरुकं कुर्वन् किलकिलारवम् ।। २८१ ॥ तन्मन्त्रसाधनार्थ द्वात्रिंशल्लक्षणधारिणम् । तं होमिष्यन्ति तास्तेन दुःखेनाहं प्ररोदिमि ॥ २८२ ॥ नृरत्नं तदिदं रक्षाम्यहं प्राणैरपि स्वकैः । न किं गृह्णन्ति मां मर्त्यमेवंलक्षणलक्षितम् ॥ २८३ ॥ सुलक्षणशरीरस्त्वं दत्से यद्यग्निकुण्डके | झम्पां तदेतद्भूपस्य दुरितं याति दूरतः ॥ २८४ ॥ प्रोचे कुमारोऽन्यस्यापि कृते सत्पुरुषा असून् । त्यजन्ति किं पुनर्विश्वबान्धवस्यास्य हेतवे ।। २८५ ॥ यावत्परिकरं बद्धा ध्यात्वा पञ्चनमस्क्रियाम् । त्राणं प्रपद्यार्हत्पादान् स कुण्डाभिमुखोऽचलत् ॥ २८६ ॥ तावन्निषेडुकामोऽपि नृपो देव्यनुभावतः । वक्तुं शक्तोऽभवन्नैव न च चालयितुं पदम् ॥ २८७ ॥ मा द्रक्ष्यामि कुमारस्य मृत्युमित्येष चिन्तयन् । असिधारां न्यधात्कण्ठे कुण्ठतां प्राप साधिकाम् || २८८ || स्थिरानाथस्ततस्तस्थौ नारकस्फारकष्टभृत् । कुमारं वीक्ष्य योगिन्यश्चक्रुः किलकिलारवम् ॥ २८९ ॥ ऊचुश्चान्योपकारैकनिष्ट ! झम्पात्र दीयताम् । झम्पां झटित्यदादेष स्मृतपञ्चनमस्त्रियः ।। २९० ॥ अथात्मानमयं वीक्ष्य स्वर्णपुञ्जोपरिस्थितम् । विस्मितो योगिनीचक्रं नाद्राक्षीन्नाशुशुक्षणिम् ॥ २९९ ॥ दध्यौ च किमियं माया देवो भूत्वाथ देवता । कुण्डलाभरणः प्राह तुष्टस्तेऽस्मि वरं वृणु ॥ २९२ ॥ कुमारः प्राह तुष्टोऽसि चेत्तदाख्याहि किंत्वदः । स प्राह शशंस त्वां संसदि स्वर्गिणां प्रभुः ॥ २९३ ॥ एक एव कुमारोऽत्र भुवि श्लाघ्योऽपराजितः । पित्रोर्निमित्तं यः सौवप्राणानपि विमुञ्चति ।। २९४ ॥ अश्रद्दधानोऽहमिति त्वत्परीक्षार्थमागतः । दृष्टे त्वत्साहसे मन्ये मघवानर्घ्यवागभूत् ॥ २९५ ।। १ पृथिवीपतिः । २ अझिम् । ३ स्वकीय | कथानकम् । रोदनकारणपृच्छा, पितृमृत्युभयाकुण्डे झम्पा, स्वर्णपुओपरिस्थितिः स्वश्लाघाश्रवणक्ष ॥ १० ॥ Page #21 -------------------------------------------------------------------------- ________________ अपराजितकथासमातिः धन्यौ तौ पितरौ पुत्रो ययोर्जातस्त्वमीदृशः। जनो जनपदश्चापि ययोः स्वामी भविष्यति ॥ २९६ ॥ तं श्लाषित्वेति तत्तस्य स्वर्ण दत्त्वा च निर्जरः । अदृश्योऽभूत्कुमारस्य पित्रोभक्तिरवर्द्धत ।। २९७ ॥ तत्तत्र कनकं मुक्त्वा गच्छंस्तातं ददर्श सः। ततश्चा|श्लिष्य राज्ञोक्तः पुनर्जातोऽधुना सुत! ॥२९८ ॥ कुमारः प्राह किं सर्व तातेनैतद्विलोकितम् । नृपोऽथ खकृतं सर्व तस्याख्यत् सोऽवदत्ततः ॥ २९९ ॥ तातं पातयतो दुःखे धिगस्तु मम जीवितम् । दुःखं वो यत्र मा भून्मे वासरः स कदाचन ॥३०॥ इदं तु दुष्करं चक्रे यदर्थ वित्थ तत्स्वयम् । फलत्यनेकधा युष्मद्भक्तिकल्पलता मम ॥ ३०१॥ इदं चित्रं तु लब्ध्वापि भक्तिकल्पलतामिमाम् । युष्मत्प्रत्युपकारेऽहमसमर्थोऽनृणो न हि ॥ ३०२ ॥ इत्थं सुतगिरा प्रीतः प्रमोदाथु परित्यजन् । नृपः प्राह तवाभक्तिर्न युगप्रलयेऽपि नौ ॥ ३०३ ॥ कृतार्थों सर्वथाप्यावां भवताङ्गभुवा भुवि । यसै ते श्लाघते मध्येसभमित्थमृभूपतिः ॥३०४ ॥ प्रातय॑स्ताश्च ताः कोशे द्वात्रिंशत्स्वर्णकोटयः। जनो देवमिवामस्त कुमारं वचरित्रतः ॥३०५॥ नृपो नृपश्रियं न्यस्य सुते व्रतधरः खयम् । तिमिरार्याभिधाचार्यपरिचर्यापरोऽभवत् ॥ ३०६॥ चिरं निरतिचारं च चारित्रं परिपाल्य सः। परिणामविशुद्धिस्थो देवो वैमानिकोऽजनि ॥३०७॥ इति पुत्रप्रभावेण जयशेखरभूभुजा । लोकद्वयसुखं प्राप्तं प्रियपुत्रास्ततः शुभाः॥३०८॥ Roooooooooooooooooooooooooooooooooooooooooooo समाप्तमिदमपराजितकथानकम् ।। &000000000000000000000000000000000000000000000 Page #22 -------------------------------------------------------------------------- ________________ PASSETTE इति श्रीअपराजितकथानकं समाप्तम् /