SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ SAGDAGDAGDAGDAGDAG ******* एष महीभुजा । दिव्यान्येतानि वस्त्राणि दिव्यः परिमलश्च ते ॥ २६२ ॥ रत्नावल्यां तथैकैकं रत्नं राज्यार्थमर्हति । रात्रिवृत्ते तदाख्याते सजनो विस्मितो नृपः ।। २६३ ।। उवाच भवता वत्स ! देवा अपि वशीकृताः । कृतार्थोऽस्मि त्वया दीर्घ जीवितं प्रार्थये तु ते ॥ २६४ ॥ तातस्येति गिरा धन्यंमन्योऽजनि नरेन्द्रजः । कृत्यमेतद्धि पुत्राणां रञ्जनं जनिका रिणोः ।। २६५ ।। रत्नमालां भक्तिमिव मातुः कण्ठे न्यधत्त सः । पृष्टो राज्ञाऽवदत्तस्या गाढं दुष्प्रतिकारताम् ॥ २६६ ॥ नृपः प्राह त्वदन्यः को जानात्येवं सुनन्दन । दध्यौ सुतो रत्नमालां दास्ये तातस्य चापराम् ॥ २६७ ॥ गतो निश्यन्यदोद्याने निशीथे सुरमैक्षत । तेनोचेऽहं स्मृतः कस्मात्स प्राहोत्कण्ठितोऽधिकम् ॥ २६८ ॥ स्मित्वाह क्षेत्रपालस्तं ज्ञातं रत्नावलीकृते । कण्ठादुत्चार्य सौवात् स ददेऽन्यश्च समाददे ॥ २६९ ॥ क्षेत्रेशः प्राह मेऽर्थस्ते निजः कथ्यं ततो मम । कुमारः प्राह कल्पद्रोः किं किं सम्पद्यते न वा ॥ २७० ॥ तमापृच्छयागते देवे स दध्यौ पुण्यतोऽखिलम् । सम्पद्यते ततस्तस्यार्जने कार्यः सतोद्यमः ॥ २७९ ॥ ध्यायन्निति समागत्य पितुः कण्ठे न्यधादिमाम् । पृष्टो वृत्तान्तमाख्यच्च दध्यावथ मुदा नृपः ॥ २७२॥ सुतः कीदृक् कृतज्ञोऽयं यदाद्या मातुरर्पिता । रत्नमाला मम परा यौवने कोऽपि नेदृशः || २७३ || यौवने भोगतृष्णार्त्ताः सुता हि स्युर्वधूमुखाः । पित्रोस्त्वखण्डं विनयं विरला केऽपि कुर्वते ॥ २७४ ॥ इत्यानन्दिततातोऽयं सर्वेषु जिनवेश्मसु । महं च महिमानं च भावशुद्ध्या व्यधापयत् || २७५ || उद्दधार च जीर्णानि जिनवेश्मानि सर्वतः । बहुशो रथयात्राश्चाकारयद्विस्तरेण सः ॥ २७६ ॥ अथार्धरात्रे रुदितं स्त्रियः श्रुत्वा नरेन्द्रजः । कृपाणपाणिस्तत्रागात् तत्पृष्ठे च नरेश्वरः ।। २७७ ।। रत्नाभरणसम्भारध्वंसितध्वान्तविस्तराम् । तामुवाच कुमारश्च गुप्तोऽश्रौषीच्च तत्पिता ॥ २७८ ॥ का त्वं रोदिषि कस्माच्च सोचे ख्यातुं न युज्यते Kkkakka अर्धरात्रौ खिवा रुदनं युवोद्यानगमनम्
SR No.034168
Book TitleAparajit Kathanakam
Original Sutra AuthorN/A
AuthorMantungsuri
PublisherLabdhisurishwar Jain Granthmala
Publication Year1947
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy