________________
अपराजित
॥ १० ॥
त्वं तु सत्पुरुषो येनोपचिकीर्षुरिहागतः ॥ २७९ ॥ तत्तवाख्याम्यहं देवी राज्ञोऽनिष्टाच्च रोदिमि । तत्कीदृगिति तेनोक्ते सोचे सायं विनयति ॥ २८० ॥ येनास्ति योगिनीवृन्दं निखिलं मिलितं पुरः । आस्फालितडमरुकं कुर्वन् किलकिलारवम् ।। २८१ ॥ तन्मन्त्रसाधनार्थ द्वात्रिंशल्लक्षणधारिणम् । तं होमिष्यन्ति तास्तेन दुःखेनाहं प्ररोदिमि ॥ २८२ ॥ नृरत्नं तदिदं रक्षाम्यहं प्राणैरपि स्वकैः । न किं गृह्णन्ति मां मर्त्यमेवंलक्षणलक्षितम् ॥ २८३ ॥ सुलक्षणशरीरस्त्वं दत्से यद्यग्निकुण्डके | झम्पां तदेतद्भूपस्य दुरितं याति दूरतः ॥ २८४ ॥ प्रोचे कुमारोऽन्यस्यापि कृते सत्पुरुषा असून् । त्यजन्ति किं पुनर्विश्वबान्धवस्यास्य हेतवे ।। २८५ ॥ यावत्परिकरं बद्धा ध्यात्वा पञ्चनमस्क्रियाम् । त्राणं प्रपद्यार्हत्पादान् स कुण्डाभिमुखोऽचलत् ॥ २८६ ॥ तावन्निषेडुकामोऽपि नृपो देव्यनुभावतः । वक्तुं शक्तोऽभवन्नैव न च चालयितुं पदम् ॥ २८७ ॥ मा द्रक्ष्यामि कुमारस्य मृत्युमित्येष चिन्तयन् । असिधारां न्यधात्कण्ठे कुण्ठतां प्राप साधिकाम् || २८८ || स्थिरानाथस्ततस्तस्थौ नारकस्फारकष्टभृत् । कुमारं वीक्ष्य योगिन्यश्चक्रुः किलकिलारवम् ॥ २८९ ॥ ऊचुश्चान्योपकारैकनिष्ट ! झम्पात्र दीयताम् । झम्पां झटित्यदादेष स्मृतपञ्चनमस्त्रियः ।। २९० ॥
अथात्मानमयं वीक्ष्य स्वर्णपुञ्जोपरिस्थितम् । विस्मितो योगिनीचक्रं नाद्राक्षीन्नाशुशुक्षणिम् ॥ २९९ ॥ दध्यौ च किमियं माया देवो भूत्वाथ देवता । कुण्डलाभरणः प्राह तुष्टस्तेऽस्मि वरं वृणु ॥ २९२ ॥ कुमारः प्राह तुष्टोऽसि चेत्तदाख्याहि किंत्वदः । स प्राह शशंस त्वां संसदि स्वर्गिणां प्रभुः ॥ २९३ ॥ एक एव कुमारोऽत्र भुवि श्लाघ्योऽपराजितः । पित्रोर्निमित्तं यः सौवप्राणानपि विमुञ्चति ।। २९४ ॥ अश्रद्दधानोऽहमिति त्वत्परीक्षार्थमागतः । दृष्टे त्वत्साहसे मन्ये मघवानर्घ्यवागभूत् ॥ २९५ ।। १ पृथिवीपतिः । २ अझिम् । ३ स्वकीय |
कथानकम् ।
रोदनकारणपृच्छा, पितृमृत्युभयाकुण्डे झम्पा, स्वर्णपुओपरिस्थितिः स्वश्लाघाश्रवणक्ष
॥ १० ॥