Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala

View full book text
Previous | Next

Page 11
________________ ॥ १२७ ॥ उवाह वाहिनी नेत्राम्बुभिस्तत्र चमूकृतैः । अतिधीरैरपि तदा कैः कैर्न रुदितं नरैः ॥ १२८ ॥ सा प्राह वह्निं भगवन् ! | साहसस्यास्य चेत्फलम् । अस्ति तत्परलोकेऽपि भूयाद्भर्तापराजितः ॥ १२९ ॥ इत्युक्त्वा त्रिः प्रदक्षिण्य वह्निं यावत्तदन्तरे । झम्पां ददाति सा तावत्कश्चित्तत्रागमन्नरः ॥ १३० ॥ स च खड्गकरः प्राह साहसेनामुना कृतम् । पित्रोराज्ञास्ति ते झम्पां यदि दत्से हुताशने ॥ १३१ ॥ धूमेन वदनं तस्याः सोऽपश्यन्नाह का शुभे ! । त्वं कस्य हेतवे चैवं साहसं च व्यवस्यसि ॥ १३२ ॥ कुशल्यस्ति समं देव्या देवः श्रीजयशेखरः । या चागता कुमार्यासीदिह साभूत्कथं शुभा ॥ १३३ ॥ पित्राज्ञायत्रिता साथ विरम्या - नलपाततः । तस्याननमपश्यन्ती प्रकाशं द्वेषभावतः ॥ १३४ ॥ मदीयप्रस्तुतार्थस्य कोऽयं विनकृदागमत् । हृदये चिन्तयन्तीति तस्याख्यातुं प्रचक्रमे ।। १३५ ।। या पृष्टा भवता साहं कुमारार्थे करोम्यदः । तं नृरत्नं विना तातः कुशली सपरिच्छदः || १३६ ॥ वदन्त्येति तया मुक्ते महति ऋन्दितस्वरे । हर्षखेदयुतो दध्यौ कुमारो निजमानसे ।। १३७ ॥ कृते मे क्षणदृष्टस्य सुमकोमलयानया । सहसा सर्वमुज्झित्वात्मा तुलाग्रे नियोजितः ॥ १३८ ॥ तत्किञ्चिदुष्करस्यास्याः सुकृतस्य करोम्यहम् । तदस्या न भविष्यामि कदाचन पराङ्मुखः ॥ १३९ ॥ इयं चम्पकमालैव लब्धा देवप्रसादतः । अम्लाना प्रेमसौरभ्या सदा वसतु मे हृदि ॥ १४० ॥ ध्यात्वेति तामुवाचायं यस्यार्थे मृगलोचने ! । करोष्येवं न तं दृष्टमुपलक्षयसेऽपि हि ॥ १४१ ॥ श्रुत्वेत्यस्या विस्मितायाः स्फूर्त्या - भूत्सधरोऽधरः । दध्यौ किमेष वक्तीदं किं च स्फुरति मेऽधरः ॥ १४२ ॥ तदा दर्शयितुमिव कुमारमुखकैरवम् । नेत्रनीलोत्पलस्या| स्याद्रष्टुं विस्मेरतामिव ॥ १४३॥ तापितानि तदङ्गानि सिञ्चन्निव सुधारसैः । सुधारुचिरुदीयाय तस्याः सह मुखश्रिया ॥ १४४॥ ( युग्मम् ) १] दिव्यपरीक्षाया भने । *99****9999999969XEYNECOLESSESSEX यावज्झम्प ददाति तावदपराजिता गमनम्

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22