Book Title: Aparajit Kathanakam
Author(s): Mantungsuri
Publisher: Labdhisurishwar Jain Granthmala

View full book text
Previous | Next

Page 10
________________ अपराजित ॥ ५॥ 19948898 प्रतीक्षस्व चतुर्यामीमित्युक्त्वा सा स्थिरीकृता । सम्बोधयितुमारब्धा न चायुध्यत्कथञ्चन ॥ ११० ॥ तस्यां कृतोपवासायामखिलोsपि पुरीजनः । चित्रलिखितवञ्जज्ञे सर्वकार्यविवर्जितः ॥ १११ ॥ साथ सायं वशारूढा वार्यमाणापि भूभुजा । सुवर्णवृष्टि कुर्वाणा पूर्णचन्द्रमुखप्रभा ॥ ११२ ॥ स्वसैन्यकृतमाक्रन्दं समकालं च शृण्वती । जङ्गमं तीर्थमेषेति श्लाघ्यमाना सखीजनैः ॥ ११३ ॥ सङ्गमो दयितेनास्या अस्मच्छीलेन जायताम् । इत्थमाशास्यमानोचैर्वृद्ध स्त्रीभिः पदे पदे ॥ ११४ ॥ पौरलोककृतान्देवोपालम्भानपि | शृण्वती । राज्ञानुगम्यमाना सा निर्गता नगराद्वहिः ॥ ११५ ॥ ( चतुर्भिः कलापकम् ) तया गत्वा नदीतीर्थे चिता चन्दनदारुभिः । कारिता ज्वलनज्वालामालाभिरतिदारुणा ॥ ११६ ॥ चन्दनागरुदारूत्थ वह्निचिह्न प्रसर्पणात् । वास्यन्ते स्म दिशस्तस्या यशसेव समन्ततः ॥ ११७ ॥ कुमार्यथ स्फुरंद्वामचक्षुश्चित्ते व्यचिन्तयत् । अभूद् ध्रुवं समासन्नः प्रस्तावः प्रियसङ्गमे ॥ ११८ ॥ तदा च तरणिस्तादृगसमञ्जसमीक्षितुम् । अक्षमोऽस्ताद्रिगो वा झम्पां दातुं प्रचक्रमे ॥ ११९ ॥ चिताहुताशनज्वालामाला भीता इवाभितः । अनुसस्रुः शिखरिणां शिखराणि विहङ्गमाः ॥ १२० ॥ दृष्ट्वा जनस्य दुःखौघं दुःखिताया नमः श्रियः । सन्ध्यारागमिषान्मन्ये हृदयं सहसाऽस्फुटत् ॥ १२१ ॥ वधूर्गजवधूपृष्टोत्तीर्णा श्वशुरयोः पदौ । नत्वा व्यजिज्ञपन्मौलिसम्मीलितकरद्वया ॥ १२२ ॥ मया श्रीपूज्यपादानां यत्किञ्चिद्विप्रियं कृतम् । कुलरूपधनमदैः प्रमादादथ चापलात् ॥ १२३ ॥ लोभकैतववाल्यैश्च तत्क्षम्यं सर्वमेव मे । पूज्यपादाब्जभृङ्गीत्वभाग्यं नाभूच्चिरं मम ॥ १२४ ॥ निर्गुणाप्यपगुण्यापि भवान्तरगतापि हि । निजनन्दनभार्येति स्मर्याहं पूजितक्रमैः ।। १२५ ।। श्रुत्वेति वचनं तस्याः करुणं विनयान्वितम् । धैर्यवृत्तिं विमुच्योच्चैः पूच्चकार धराधवः ॥ १२६ ॥ अथैकहेलया सर्वजनाक्रन्दे समुत्थिते । वनदेव्योपि चक्रन्दुः प्रतिशब्दपदेशतः ************* कथान कम् । नदीतीरे चन्द नैचिताकरणं, बामनेत्र स्फुरणञ्च ॥५॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22