Book Title: Aparajit Kathanakam Author(s): Mantungsuri Publisher: Labdhisurishwar Jain Granthmala View full book textPage 3
________________ ॥ अहम् ॥ श्रीआत्म-कमल-लब्धिसूरीश्वरेभ्यो नमः। राजगच्छीयश्रीमानतुङ्गसूरिविरचित-श्रेयांसनाथ-चरितादुद्ध अपराजितकथानकम् । अश्रमः श्रमणश्राद्धवृषपोषमनीषया । कुन्तलच्छलालिशालिस्कन्धोऽवताजिनः॥१॥ अगाद्यदङ्कगः खड्गी मृगेषूदनशृङ्गताम् । विश्राणयतु स श्रेयः श्रेयांसःश्रेयसां निधिः ॥२॥ जयन्तीत्यस्ति नगरी जयन्ती स्वापुरी श्रिया। तत्रास्ति भूमिषु स्थामा विजयी जयशेखरः॥३॥ तस्य चास्ति महादेवी नामतो| गुणसुन्दरी । तयोर्यान्ति सुखमया दिवसा देवयोरिव ॥४॥ सान्यदा फलितं चूतं खमे प्रेक्ष्य व्यबुध्यत । आख्यच राज्ञे स प्राह सुपुत्रस्ते भविष्यति ॥५॥ विनीतात्मा स राज्यस्य धौरेयश्च भविष्यति । एवमस्त्विति सा प्रोच्य शकुनग्रन्थिमाददे ॥६॥ तस्थौ च जाग्रती देवगुरुस्मृतिपरायणा । प्रभातसमये चेत्यपाठीन्मङ्गलपाठकः ॥७॥ सूर्योदयेऽधुना देव! ययुराशाः प्रकाश्यताम् । तत्कल्पानि कार्याणि कुरु सम्प्रति भूपते ॥८॥ दध्यौ नृपः प्रियास्वमसम्बद्धं बन्दिनो वचः। कृत्वाथ नित्य बलवान् ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22