Book Title: Anusandhan 2009 07 SrNo 48
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ ३८ अनुसन्धान ४८ अनन्तं नतं नाकनाथैरथैनं जिनं नौम्यहं प्रेमतस्तं सदेनम् । अनेकान्तवादाविरुद्धे मते ते, पुनर्नाथ ! जीवन्तु ते ये यतन्ते ॥ १५ ॥ (भुजङ्गप्रयातं - जगती 11) यो नरात्रप ( न् य) क्षदेवान् नरेन्द्रान् प्रति, देशनां दत्तवान् यत्नतः सन्मतिः । सोऽक्षरं धर्मनाथोऽव्यथो मे मुदा, मङ्गलं यच्छतां (दीयतां ) निर्मलं सर्वदा || १६ || (स्रग्विणी - जगती) प्रभोः पुरो भवन्ति वादविह्वला (ला:), कुवादिनश्च शान्तिनाथ ! निष्फलाः । यतस्ततो जिनेश ! ये त्वदीयका, मनीषिणो भवन्ति ते सुसेवकाः ||१७|| (वसन्तचामर (रं) - जगती II) ये त्वां सदा जिनपते ! भविनो नमन्ति तेऽशेषभावुकभराः सुखिनो भवन्ति । तस्माच्च कुन्थुजिन ! ते तव सेवकाय, सौख्यं प्रदेहि परमात्मविचित्रकाय ||१८|| ( वसन्ततिलका - शर्क (क्व) री ॥1) सुरनररमणीनां वल्लभो यो जिनेशः, परममुनिगणीनां ज्ञानभादे (दो) दिनेशः । मथितमदनदर्पो ऽष्टादश (शं) प्रस्तुवेऽहं, प्रहतकलुषसर्प-स्तं जिनं वीतमोहम् ||१९|| ( मालिनी - अतिशर्क (क्व ) री II) प्रफुल्लपद्मनेत्र-चन्द्रचारुवक्त्र - कुम्भजं, जिनं दिनं दिनं प्रति स्तुवे रवेः समत्वचम् | प्रधानमर्त्यपान् प्रबोध्य यो व्रतं समग्रही दशेषकर्मचक्रहं च तं त्वहं शमाग्रही ||२०|| (पञ्चचामर (म्) - अष्टि: ।।) वन्दे वन्द्यं दमशमधरं सारहीराधरन्तं, श्रीजैनेन्द्रं सुरनरनतं सुव्रतं सत्वमन्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90