Book Title: Anusandhan 2007 07 SrNo 40
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ अनुसन्धान-४० तावत् तेजस्विनस्तेजो यावद् भाग्यमभङ्गरम् । क्षीणतैलः कियत्कालं दीपो(पको)ऽपि प्रदीप्यते ॥२२॥ निजमन्दिरमुच्छिन्दन् जायते कोऽपि दुःसुतः । स्वाश्रयं नाशयत्याशु हताशोऽयं हुताशनः ॥२३।। औरसः स्नेहमाहात्म्यं किञ्चिदन्यत् प्रवक्ष्यते । सम्पद्यापदि वा सिन्धु-विधुन्तुद(दा)नुरुध्यते ॥२४॥ उपोर्जयति तत् कश्चिद् यन्नैवोपार्जि पूर्वजैः । फलं मधुरमाम॑स्य न पुनः कुसुमादयः ॥२५॥ मानिनां स्वामिना दत्तं मुदेऽल्पमपि कल्पते । वरं पौरन्दरं वारि बप्पीह ! पातुमीहसे ॥२६॥ निर्लक्षणः क्षंणाल्लक्ष्मीमाश्रयस्यापि लुम्पते । पतन् कँपोतः कुरुते शाखाशेषं हि शाखिनम् ॥२७॥ चिरात् फैलिष्यतो नेतुर्दूरमुद्विजते जनः । कियत्कालं फलोत्तालस्तालमर्थी निषेवते ॥२८॥ कामं दूरफल(लः) स्वामी लभते वचनीयताम् । अद्यापि कविभिस्ताल: सोपालम्भं निबध्यते ॥२९॥ प्रभोः 'संभावनाऽपैति तुच्छमेव प्रयच्छतः । अगादग्रेतनी कीर्ति वटस्येदृर्ग फलोदयः' ॥३०॥ प्रभवेत् परिभोगाय सर्वस्य दिवसो 'निजः' । दीपैरपि पैराल्लक्षैर्न हि दीपोत्सवो भवेत् ॥३१॥ सुकृतं सुकृतैर्लभ्यं यत् स्वतः परिपच्यते । पक्वस्य स्वयमानस्य स्वादः कोऽप्यतिरिच्यते ॥३२॥ सङ्गतिर्यादृशी तादृक् ख्यातिरायाति वस्तुनः । रजनी ज्योत्स्नया ज्योत्स्नी तमसा च तमस्विनी ॥३३।। क्लिश्यन्ते केवलं स्थूलाः सुधीः सुफलमश्नुते । ममन्थ मन्दर: सिन्धुं रत्नान्यापुदिवौकसः ॥३४॥ आत्मीयमेव माहात्म्यं कुलं क्वापि न कल्पते । उदन्वदन्वयश्चन्द्रः कालकूटः किमन्वयः ॥३५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96